|
[ज] देवानां दानवानां च यक्षाणाम अथ रक्षसाम अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम शरॊतुम इच्छामि तत्त्वेन मानुषेषु महात्मनाम जन्म कर्म च भूतानाम एतेषाम अनुपूर्वशः [व] मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः परथमं दानवांश चैव तांस ते वक्ष्यामि सर्वशः विप्रचित्तिर इति खयातॊ य आसीद दानवर्षभः जरासंध इति खयातः स आसीन मनुजर्षभः दितेः पुत्रस तु यॊ राजन हिरण्यकशिपुः समृतः स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः संह्राद इति विख्यातः परह्रादस्यानुजस तु यः स शल्य इति विख्यातॊ जज्ञे बाह्लील पुंगवः अनुह्रादस तु तेजस्वी यॊ ऽभूत खयातॊ जघन्यजः धृष्टकेतुर इति खयातः स आसीन मनुजेश्वरः यस तु राजञ शिबिर नाम दैतेयः परिकीर्तितः दरुम इत्य अभिविख्यातः स आसीद भुवि पार्थिवः बाष्कलॊ नाम यस तेषाम आसीद असुरसत्तमः भगदत्त इति खयातः स आसीन मनुजेश्वरः अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान तथा गगनमूर्धा च वेगवांश चात्र पञ्चमः पञ्चैते जज्ञिरे राजन वीर्यवन्तॊ महासुराः केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः केतुमान इति विख्यातॊ यस ततॊ ऽनयः परतापवान अमितौजा इति खयातः पृथिव्यां सॊ ऽभवन्न नृपः सवर्भानुर इति विख्यातः शरीमान यस तु महासुरः उग्रसेन इति खयात उग्र कर्मा नराधिपः यस तव अश्व इति विख्यातः शरीमान आसीन महासुरः अशॊकॊ नाम राजासीन महावीर्यपराक्रमः तस्माद अवरजॊ यस तु राजन्न अश्वपतिः समृतः दैतेयः सॊ ऽभवद राजा हार्दिक्यॊ मनुजर्षभः वृषपर्वेति विख्यातः शरीमान यस तु महासुरः दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊ ऽभवन नृपः अजकस तव अनुजॊ राजन य आसीद वृषपर्वणः स मल्ल इति विख्यातः पृथिव्याम अभवन नृपः अश्वग्रीव इति खयातः सत्त्ववान यॊ महासुरः रॊचमान इति खयातः पृथिव्यां सॊ ऽभवन नृपः सूक्ष्मस तु मतिमान राजन कीर्तिमान यः परकीर्तितः बृहन्त इति विख्यातः कषिताव आसीत स पार्थिवः तुहुण्ड इति विख्यातॊ य आसीद असुरॊत्तमः सेना बिन्दुर इति खयातः स बभूव नराधिपः इसृपा नाम यस तेषाम असुराणां बलाधिकः पापजिन नाम राजासीद भुवि विख्यातविक्रमः एकचक्र इति खयात आसीद यस तु महासुरः परतिविन्ध्य इति खयातॊ बभूव परथितः कषितौ विरूपाक्षस तु दैतेयश चित्रयॊधी महासुरः चित्रवर्मेति विख्यातः कषिताव आसीत स पार्थिवः हरस तव अरिहरॊ वीर आसीद यॊ दानवॊत्तमः सुवास्तुर इति विख्यातः स जज्ञे मनुजर्षभः अहरस तु महातेजाः शत्रुपक्ष कषयं करः बाह्लीकॊ नाम राजा स बभूव परथितः कषितौ निचन्द्रश चन्द्र वक्त्रश च य आसीद असुरॊत्तमः मुञ्ज केश इति खयातः शरीमान आसीत स पार्थिवः निकुम्भस तव अजितः संख्ये महामतिर अजायत भूमौ भूमिपतिः शरेष्ठॊ देवाधिप इति समृतः शरभॊ नाम यस तेषां दैतेयानां महासुरः पौरवॊ नाम राजर्षिः स बभूव नरेष्व इह दवितीयः शलभस तेषाम असुराणां बभूव यः परह्रादॊ नाम बाह्लीकः स बभूव नराधिपः चन्द्रस तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः ऋषिकॊ नाम राजर्षिर बभूव नृपसत्तमः मृतपा इति विख्यातॊ य आसीद असुरॊत्तमः पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम गविष्ठस तु महातेजा यः परख्यातॊ महासुरः दरुमसेन इति खयातः पृथिव्यां सॊ ऽभवन नृपः मयूर इति विख्यातः शरीमान यस तु महासुरः स विश्व इति विख्यातॊ बभूव पृथिवीपतिः सुपर्ण इति विख्याततस्माद अवरजस तु यः कालकीर्तिर इति खयातः पृथिव्यां सॊ ऽभवन नृपः चन्द्र हन्तेति यस तेषां कीर्तितः परवरॊ ऽसुरः शुनकॊ नाम राजर्षिः स बभूव नराधिपः विनाशनस तु चन्द्रस्य य आख्यातॊ महासुरः जानकिर नाम राजर्षिः स बभूव नराधिपः दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः काशिराज इति खयातः पृथिव्यां पृथिवीपतिः गरहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम कराथ इत्य अभिविख्यातः सॊ ऽभवन मनुजाधिपः अनायुषस तु पुत्राणां चतुर्णां परवरॊ ऽसुरः विक्षरॊ नाम तेजस्वी वसु मित्रॊ ऽभवन नृपः दवितीयॊ विक्षराद्यस तु नराधिप महासुरः पांसुराष्ट्राधिप इति विश्रुतः सॊ ऽभवन नृपः बलवीर इति खयातॊ यस तव आसीद असुरॊत्तमः पौण्ड्र मत्स्यक इत्य एव स बभूव नराधिपः वृत्र इत्य अभिविख्यातॊ यस तु राजन महासुरः मणिमान नाम राजर्षिः स बभूव नराधिपः करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ करॊधवर्धन इत्य एव यस तव अन्यः परिकीर्तितः दण्डधार इति खयातः सॊ ऽभवन मनुजेश्वरः कालकायास तु ये पुत्रास तेषाम अष्टौ नराधिपाः जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः मगधेषु जयत्सेनः शरीमान आसीत स पार्थिवः अष्टानां परवरस तेषां कालेयानां महासुरः दवितीयस तु ततस तेषां शरीमान हरिहयॊपमः अपराजित इत्य एव स बभूव नराधिपः तृतीयस तु महाराज महाबाहुर महासुरः निषादाधिपतिर जज्ञे भुवि भीमपराक्रमः तेषाम अन्यतमॊ यस तु चतुर्थः परिकीर्तितः शरेणिमान इति विख्यातः कषितौ राजर्षिसत्तमः पञ्चमस तु बभूवैषां परवरॊ यॊ महासुरः महौजा इति विख्यातॊ बभूवेह परंतपः षष्ठस तु मतिमान यॊ वै तेषाम आसीन महासुरः अभीरुर इति विख्यातः कषितौ राजर्षिसत्तमः समुद्रसेनश च नृपस तेषाम एवाभवद गुणान विश्रुतः सागरान्तायां कषितौ धर्मार्थतत्त्ववित बृहन्न नामाष्टमस तेषां कालेयानां परंतपः बभूव राजन धर्मात्मा सर्वभूतहिते रतः गणः करॊधवशॊ नाम यस ते राजन परकीर्तितः ततः संजज्ञिरे वीराः कषिताव इह नराधिपाः नन्दिकः कर्णवेष्टश च सिद्धार्थाः कीटकस तथा सुवीरश च सुबाहुश च महावीरॊ ऽथ बाह्लिकः करॊधॊ विचित्यः सुरसः शरीमान नीलश च भूमिपः वीर धामा च कौरव्य भूमिपालश च नामतः दन्तवक्त्रश च नामासीद दुर्जयश चैव नामतः रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः आषाढॊ वायुवेगश च भूमितेजास तथैव च एकलव्यः सुमित्रश च वाटधानॊ ऽथ गॊमुखः कारूषकाश च राजानः कषेमधूर्तिस तथैव च शरुतायुर उद्धवश चैव बृहत्सेनस तथैव च कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः गणात करॊधवशाद एवं राजपूगॊ ऽभवत कषितौ जातः पुरा महाराज महाकीर्तिर महाबलः यस तव आसीद देवकॊ नाम देवराजसमद्युतिः स गन्धर्वपतिर मुख्यः कषितौ जज्ञे नराधिपः बृहस्पतेर बृहत कीर्तेर देवर्षेर विद्धि भारत अंशाद दरॊणं समुत्पन्नं भारद्वाजम अयॊनिजम धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः बृहत कीर्तिर महातेजाः संजज्ञे मनुजेष्व इह धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः वरिष्ठम इन्द्रकर्माणं दरॊणं सवकुलवर्धनम महादेवान्तकाभ्यां च कामात करॊधाच च भारत एकत्वम उपपन्नानां जज्ञे शूरः परंतपः अश्वत्थामा महावीर्यः शत्रुपक्ष कषयं करः वीरः कमलपत्राक्षः कषिताव आसीन नराधिप जज्ञिरे वसवस तव अष्टौ गङ्गायां शंतनॊः सुताः वसिष्ठस्य च शापेन नियॊगाद वासवस्य च तेषाम अवरजॊ भीष्मः कुरूणाम अभयंकरः मतिमान वेदविद वाग्मी शत्रुपक्ष कषयं करः जामदग्न्येन रामेण यः स सर्वविदां वरः अयुध्यत महातेजा भार्गवेण महात्मना यस तु राजन कृपॊ नाम बरह्मर्षिर अभवत कषितौ रुद्राणां तं गणाद विद्धि संभूतम अतिपौरुषम शकुनिर नाम यस तव आसीद राजा लॊके महारथः दवापरं विद्धि तं राजन संभूतम अरिमर्दनम सात्यकिः सत्यसंधस तु यॊ ऽसौ वृष्णिकुलॊद्वहः पक्षात स जज्ञे मरुतां देवानाम अरिमर्दनः दरुपदश चापि राजर्षिस तत एवाभवद गणात मानुषे नृप लॊके ऽसमिन सर्वशस्त्रभृतां वरः ततश च कृतवर्माणं विद्धि राजञ जनाधिपम जातम अप्रतिकर्माणं कषत्रियर्षभ सत्तमम मरुतां तु गणाद विद्धि संजातम अरिमर्दनम विराटं नाम राजर्षिं परराष्ट्र परतापनम अरिष्टायास तु यः पुत्रॊ हंस इत्य अभिविश्रुतः स गन्धर्वपतिर जज्ञे कुरुवंशविवर्धनः धृतराष्ट्र इति खयातः कृष्णद्वैपायनाद अपि दीर्घबाहुर महातेजाः परज्ञा चक्षुर नराधिपः मातुर दॊषाद ऋषेः कॊपाद अन्ध एव वयजायत अत्रेस तु सुमहाभागं पुत्रं पुत्रवतां वरम विदुरं विद्धि लॊके ऽसमिञ जातं बुद्धिमतां वरम कलेर अंशात तु संजज्ञे भुवि दुर्यॊधनॊ नृपः दुर्बुद्धिर दुर्मतिश चैव कुरूणाम अयशः करः जगतॊ यः स सर्वस्य विद्विष्टः कलिपूरुषः यः सर्वां घातयाम आस पृथिवीं पुरुषाधमः येन वैरं समुद्दीप्तं भूतान्त करणं महत पौलस्त्या भरातरः सर्वे जज्ञिरे मनुजेष्व इह शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम दुर्मुखॊ दुःसहश चैव ये चान्ये नानुशब्दिताः दुर्यॊधन सहायास ते पौलस्त्या भरतर्षभ धर्मस्यांशं तु राजानं विद्धि राजन युधिष्ठिरम भीमसेनं तु वातस्य देवराजस्य चार्जुनम अश्विनॊस तु तथैवांशौ रूपेणाप्रतिमौ भुवि नकुलः सहदेवश च सर्वलॊकमनॊहरौ यः सुवर्चेति विख्यातः सॊमपुत्रः परतापवान अभिमन्युर बृहत कीर्तिर अर्जुनस्य सुतॊ ऽभवत अग्नेर अंशं तु विद्धि तवं धृष्टद्युम्नं महारथम शिखण्डिनम अथॊ राजन सत्रीपुंसं विद्धि राक्षसम दरौपदेयाश च ये पञ्च बभूवुर भरतर्षभ विश्वे देवगणान राजंस तान विद्धि भरतर्षभ आमुक्तकवचः कर्णॊ यस तु जज्ञे महारथः दिवाकरस्य तं विद्धि देवस्यांशम अनुत्तमम यस तु नारायणॊ नाम देवदेवः सनातनः तस्यांशॊ मानुषेष्व आसीद वासुदेवः परतापवान शेषस्यांशस तु नागस्य बलदेवॊ महाबलः सनत्कुमारं परद्युम्नं विद्धि राजन महौजसम एवम अन्ये मनुष्येन्द्र बहवॊ ऽंशा दिवौकसाम जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः गणस तव अप्सरसां यॊ वै मया राजन परकीर्तितः तस्य भागः कषितौ जज्ञे नियॊगाद वासवस्य च तानि षॊडश देवीनां सहस्राणि नराधिप बभूवुर मानुषे लॊके नारायण परिग्रहः शरियस तु भागः संजज्ञे रत्यर्थं पृथिवीतले दरुपदस्य कुले कन्या वेदिमध्याद अनिन्दिता नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी पद्मायताक्षी सुश्रॊणी असितायत मूर्धजा सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः सिद्दिर धृतिश च ये देव्यौ पञ्चानां मातरौ तु ते कुन्ती माद्री च जज्ञाते मतिस तु सुबलात्मजा इति देवासुराणां ते गन्धर्वाप्सरसां तथा अंशावतरणं राजन रक्षसानां च कीर्तितम ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः महात्मानॊ यदूनां च ये जाता विपुले कुले धन्यं यशस्यं पुत्रीयम आयुष्यं विजयावहम इदम अंशावतरणं शरॊतव्यम अनसूयता अंशावतरणं शरुत्वा देवगन्धर्वरक्षसाम परभवाप्ययवित पराज्ञॊ न कृच्छ्रेष्व अवसीदति |
[j] devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham śrotum icchāmi tattvena mānuṣeṣu mahātmanām janma karma ca bhūtānām eteṣām anupūrvaśaḥ [v] mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ vipracittir iti khyāto ya āsīd dānavarṣabhaḥ jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ sa śalya iti vikhyāto jajñe bāhlīla puṃgavaḥ anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ bāṣkalo nāma yas teṣām āsīd asurasattamaḥ bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ ayaḥ śirā aśvaśirā ayaḥ śaṅkuś ca vīryavān tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ pañcaite jajñire rājan vīryavanto mahāsurāḥ kekayeṣu mahātmānaḥ pārthivarṣabha sattamāḥ ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ ugrasena iti khyāta ugra karmā narādhipaḥ yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ aśoko nāma rājāsīn mahāvīryaparākramaḥ tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ senā bindur iti khyātaḥ sa babhūva narādhipaḥ isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ ekacakra iti khyāta āsīd yas tu mahāsuraḥ prativindhya iti khyāto babhūva prathitaḥ kṣitau virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ haras tv ariharo vīra āsīd yo dānavottamaḥ suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ aharas tu mahātejāḥ śatrupakṣa kṣayaṃ karaḥ bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau nicandraś candra vaktraś ca ya āsīd asurottamaḥ muñja keśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ pauravo nāma rājarṣiḥ sa babhūva nareṣv iha dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ candras tu ditijaśreṣṭho loke tārādhipopamaḥ ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ mṛtapā iti vikhyāto ya āsīd asurottamaḥ paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ sa viśva iti vikhyāto babhūva pṛthivīpatiḥ suparṇa iti vikhyātatasmād avarajas tu yaḥ kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ candra hanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ śunako nāma rājarṣiḥ sa babhūva narādhipaḥ vināśanas tu candrasya ya ākhyāto mahāsuraḥ jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ vikṣaro nāma tejasvī vasu mitro 'bhavan nṛpaḥ dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ balavīra iti khyāto yas tv āsīd asurottamaḥ pauṇḍra matsyaka ity eva sa babhūva narādhipaḥ vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ krodhahanteti yas tasya babhūvāvarajo 'suraḥ daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ jajñire rājaśārdūla śārdūlasamavikramāḥ magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ aparājita ity eva sa babhūva narādhipaḥ tṛtīyas tu mahārāja mahābāhur mahāsuraḥ niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ mahaujā iti vikhyāto babhūveha paraṃtapaḥ ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ samudrasenaś ca nṛpas teṣām evābhavad guṇān viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit bṛhann nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ babhūva rājan dharmātmā sarvabhūtahite rataḥ gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ nandikaḥ karṇaveṣṭaś ca siddhārthāḥ kīṭakas tathā suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ vīra dhāmā ca kauravya bhūmipālaś ca nāmataḥ dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ āṣāḍho vāyuvegaś ca bhūmitejās tathaiva ca ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca kṣemogra tīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau jātaḥ purā mahārāja mahākīrtir mahābalaḥ yas tv āsīd devako nāma devarājasamadyutiḥ sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ bṛhaspater bṛhat kīrter devarṣer viddhi bhārata aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ bṛhat kīrtir mahātejāḥ saṃjajñe manujeṣv iha dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ aśvatthāmā mahāvīryaḥ śatrupakṣa kṣayaṃ karaḥ vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ vasiṣṭhasya ca śāpena niyogād vāsavasya ca teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ matimān vedavid vāgmī śatrupakṣa kṣayaṃ karaḥ jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ ayudhyata mahātejā bhārgaveṇa mahātmanā yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam śakunir nāma yas tv āsīd rājā loke mahārathaḥ dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ pakṣāt sa jajñe marutāṃ devānām arimardanaḥ drupadaś cāpi rājarṣis tata evābhavad gaṇāt mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam jātam apratikarmāṇaṃ kṣatriyarṣabha sattamam marutāṃ tu gaṇād viddhi saṃjātam arimardanam virāṭaṃ nāma rājarṣiṃ pararāṣṭra pratāpanam ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api dīrghabāhur mahātejāḥ prajñā cakṣur narādhipaḥ mātur doṣād ṛṣeḥ kopād andha eva vyajāyata atres tu sumahābhāgaṃ putraṃ putravatāṃ varam viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ durbuddhir durmatiś caiva kurūṇām ayaśaḥ karaḥ jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ yena vairaṃ samuddīptaṃ bhūtānta karaṇaṃ mahat paulastyā bhrātaraḥ sarve jajñire manujeṣv iha śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām durmukho duḥsahaś caiva ye cānye nānuśabditāḥ duryodhana sahāyās te paulastyā bharatarṣabha dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram bhīmasenaṃ tu vātasya devarājasya cārjunam aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi nakulaḥ sahadevaś ca sarvalokamanoharau yaḥ suvarceti vikhyātaḥ somaputraḥ pratāpavān abhimanyur bṛhat kīrtir arjunasya suto 'bhavat agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam draupadeyāś ca ye pañca babhūvur bharatarṣabha viśve devagaṇān rājaṃs tān viddhi bharatarṣabha āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ divākarasya taṃ viddhi devasyāṃśam anuttamam yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam evam anye manuṣyendra bahavo 'ṃśā divaukasām jajñire vasudevasya kule kulavivardhanāḥ gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa babhūvur mānuṣe loke nārāyaṇa parigrahaḥ śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale drupadasya kule kanyā vedimadhyād aninditā nātihrasvā na mahatī nīlotpalasugandhinī padmāyatākṣī suśroṇī asitāyata mūrdhajā sarvalakṣaṇasaṃpannā vaiḍūrya maṇisaṃnibhā pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ siddir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te kuntī mādrī ca jajñāte matis tu subalātmajā iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā aṃśāvataraṇaṃ rājan rakṣasānāṃ ca kīrtitam ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ mahātmāno yadūnāṃ ca ye jātā vipule kule dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham idam aṃśāvataraṇaṃ śrotavyam anasūyatā aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām prabhavāpyayavit prājño na kṛcchreṣv avasīdati |