|
[वै] निहते राक्षसे तस्मिन पुनर नारायणाश्रमम अभ्येत्य राजा कौन्तेयॊ निवासम अकरॊत परभुः स समानीय तान सर्वान भरातॄन इत्य अब्रवीद वचः दरौपद्या सहितान काले संस्मरन भरातरं जयम समाश चतस्रॊ ऽभिगताः शिवेन चरतां वने कृतॊद्देशश च बीभत्सुः पञ्चमीम अभितः समाम पराप्य पर्वतराजानं शवेतं शिखरिणां वरम तत्रापि च कृतॊद्देशः समागमदिदृक्षुभिः कृतश च समयस तेन पार्थेनामित तेजसा पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि तत्र गाण्डीवधन्वानम अवाप्तास्त्रम अरिंदमम देवलॊकाद इमं लॊकं दरक्ष्यामः पुनरागतम इत्य उक्त्वा बराह्मणान सर्वान आमन्त्रयत पाण्डवः कारणं चैव तत तेषाम आचचक्षे तपस्विनाम तम उग्रतपसः परीताः कृत्वा पार्थं परदक्षिणम बराह्मणास ते ऽनवमॊदन्त शिवेन कुशलेन च सुखॊदर्कम इमं कलेशम अचिराद भरतर्षभ कषत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि तत तु राजा वचस तेषां परतिगृह्य तपस्विनाम परतस्थे सह विप्रैस तैर भरातृभिश च परंतपः दरौपद्या सहितः शरीमान हैडिम्बेयादिभिस तथा राक्षसैर अनुयातश च लॊमशेनाभिरक्षितः कव चिज जगाम पद्भ्यां तु राक्षसैर उह्यते कव चित तत्र तत्र महातेजा भरातृभिः सह सुव्रतः ततॊ युधिष्ठिरॊ राजा बहून कलेशान विचिन्तयन सिंहव्याघ्र गजाकीर्णाम उदीचीं परययौ दिशम अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम गन्धमादन पादांश च मेरुं चापि शिलॊच्चयम उपर्य उपरि शैलस्य बह्वीश च सरितः शिवाः परस्थं हिमवतः पुण्यं ययौ सप्त दशे ऽहनि ददृशुः पाण्डवा राजन गन्धमादनम अन्तिकात पृष्ठे हिमवतः पुण्ये नानाद्रुमलता युते सलिलावर्त संजातैः पुष्पितैश च महीरुहैः समावृतं पुण्यतमम आश्रमं वृषपर्वणः तम उपक्रम्य राजर्षिं धर्मात्मानम अरिंदमाः पाण्डवा वृषपर्वाणम अवन्दन्त गतक्लमाः अभ्यनन्दत स राजर्षिः पुत्रवद भरतर्षभान पूजिताश चावसंस तत्र सप्तरात्रम अरिंदमाः अष्टमे ऽहनि संप्राप्ते तम ऋषिं लॊकविश्रुतम आमन्त्र्य वृषपर्वाणं परस्थानं समरॊचयन एकैकशश च तान विप्रान निवेद्य वृषपर्वणे नयासभूतान यथाकालं बन्धून इव सुसत्कृतान ततस ते वरवस्त्राणि शुभान्य आभरणानि च नयदधुः पाण्डवास तस्मिन्न आश्रमे वृषपर्वणः अतीतानागते विद्वान कुशलः सर्वधर्मवित अन्वशासत स धर्मज्ञः पुत्रवद भरतर्षभान ते ऽनुज्ञाता महात्मानः परययुर दिशम उत्तराम कृष्णया सहिता वीरा बराह्मणैश च महात्मभिः तान परस्थितान अन्वगच्छद वृषपर्वा महीपतिः उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस तदा अनुसंसाध्य कौन्तेयान आशीर्भिर अभिनन्द्य च वृषपर्वा निववृते पन्थानम उपदिश्य च नानामृगगणैर जुष्टं कौन्तेयः सत्यविक्रमः पदातिर भरातृभिः सार्धं परातिष्ठत युधिष्ठिरः नानाद्रुमनिरॊधेषु वसन्तः शैलसानुषु पर्वतं विविशुः शवेतं चतुर्थे ऽहनि पाण्डवाः महाभ्रघनसंकाशं सलिलॊपहितं शुभम मणिकाञ्चनरम्यं च शैलं नाना समुच्छ्रयम ते समासाद्य पन्थानं यथॊक्तं वृषपर्वणा अनुसस्रुर यथॊद्देशं पश्यन्तॊ विविधान नगान उपर्य उपरि शैलस्य गुहा परमदुर्गमाः सुदुर्गमांस ते सुबहून सुखेनैवाभिचक्रमुः धौम्यः कृष्णा च पार्थाश च लॊमशश च महान ऋषिः अगमन सहितास तत्र न कश चिद अवहीयते ते मृगद्विजसंघुष्टं नानाद्विज समाकुलम शाखामृगगणैश चैव सेवितं सुमनॊहरम पुण्यं पद्मसरॊपेतं सपल्वल महावनम उपतस्थुर महावीर्या माल्यवन्तं महागिरिम ततः किंपुरुषावासं सिद्धचारणसेवितम ददृशुर हृष्टरॊमाणः पर्वतं गन्धमादनम विद्याधरानुचरितं किंनरीभिस तथैव च गजसिंहसमाकीर्णम उदीर्णशरभायुतम उपेतम अन्यैश च तदा मृगैर मृदु निनादिभिः ते गन्धमादन वनं तन नन्दनवनॊपम मुदिताः पाण्डुतनया मनॊ हृदयनन्दनम विविशुः करमशॊ वीरा अरण्यं शुभकाननम दरौपदी सहिता वीरास तैश च विप्रैर महात्मभिः शृण्वन्तः परीतिजननान वल्गून मदकलाञ शुभान शरॊत्ररम्यान सुमधुराञ शब्दान खग मुखेरितान सर्वर्तुफलभाराढ्यान सर्वर्तुकुसुमॊज्ज्वलान पश्यन्तः पादपांश चापि फलभार वनामितान आम्रान आम्रातकान फुल्लान नारिकेलान सतिन्दुकान अजातकांस तथा जीरान दाडिमान बीजपूरकान पनसाँल लिकुचान मॊचान खर्जूरान आम्रवेतसान पारावतांस तथा कषौद्रान नीपांश चापि मनॊरमान बिल्वान कपित्थाञ जम्बूंश च काश्मरीर बदरीस तथा लपक्षान उदुम्बर वटान अश्वत्थान कषीरिणस तथा भल्लातकान आमकलान हरीतकबिभीतकान इङ्गुदान करवीरांश च तिन्दुकांश च महाफलान एतान अन्यांश च विविधान गन्धमादन सानुषु फलैर अमृतकल्पैस तान आचितान सवादुभिस तरून तथैव चम्पकाशॊकान केतकान बकुलांस तथा पुंनागान सप्तपर्णांश च कर्णिकारान सकेतकान पाटलान कुटजान रम्यान मन्दारेन्दीवरांस तथा पारिजातान कॊविदारान देवदारु तरूंस तथा शालांस तालांस तमालांश च परियालान बकुलांस तथा शाल्मलीः किंशुकाशॊकां शिंशपांस तरलांस तथा चकॊरैः शतपत्रैश च भृङ्गराजैस तथा शुकैः कॊकिलैः कलविङ्कैश च हारीतैर जीव जीवकैः परियव्रतैश चातकैश च तथान्यैर विविधैः खगैः शरॊत्ररम्यं सुमधुरं कूजद्भिश चाप्य अधिष्ठितान सरांसि च विचित्राणि परसन्नसलिलानि च कुमुदैः पुण्डरीकैश च तथा कॊकनदॊत्पलैः कह्लारैः कमलैश चैव आचितानि समन्ततः कदम्बैश चक्रवाकैश च कुररैर जलकुक्कुटैः कारण्डवैः पलवैर हंसैर बकैर मद्गुभिर एव च एतैश चान्यैश च कीर्णानि समन्ताज जलचारिभिः हृष्टैस तथा तामरस रसासव मदालसैः पद्मॊदर चयुत रजः किञ्जल्कारुण रञ्जितैः मधुरस्वरैर मधुकरैर विरुतान कमलाकरान पश्यन्तस ते मनॊरम्यान गन्धमादन सानुषु तथैव पद्मषण्डैश च मण्डितेषु समन्ततः शिखण्डिनीभिः सहिताँल लता मण्डपकेषु च मेघतूर्य रवॊद्दाम मदनाकुलितान भृशम कृत्वैव केका मधुरं संगीत मधुरस्वरम चित्रान कलापान विस्तीर्य सविलासान मदालसान मयूरान ददृशुश चित्रान नृत्यतॊ वनलासकान कान्ताभिः सहितान अन्यान अपश्यन रमतः सुखम वल्ली लता संकटेषु कटकेषु सथितांस तथा कांश चिच छकुन जातांश च विटपेषूत्कटान अपि कलाप रचिताटॊपान विचित्रमुकुटान इव विवरेषु तरूणां च मुदितान ददृशुश च ते सिन्धुवारान अथॊद्दामान मन्मथस्येव तॊमरान सुवर्णकुसुमाकीर्णान गिरीणां शिखरेषु च कर्णिकारान विरचितान कर्ण पूरान इवॊत्तमान अथापश्यन कुरबकान वनराजिषु पुष्पितान कामवश्यॊत्सुक करान कामस्येव शरॊत्करान तथैव वनराजीनाम उदारान रचितान इव विराजमानांस ते ऽपश्यंस तिलकांस तिलकान इव तथानङ्ग शराकारान सहकारान मनॊरमान अपश्यन भरमरारावान मञ्जरीभिर विराजितान हिरण्यसदृशैः पुष्पैर दावाग्निसदृशैर अपि लॊहितैर अञ्जनाभैश च वैडूर्य ददृशैर अपि तथा शालांस तमालांश च पाटल्यॊ बकुलानि च माला इव समासक्ताः शैलानां शिखरेषु च एवं करमेण ते वीरा वीक्षमाणाः समन्ततः गजसंघ समाबाधं सिंहव्याघ्र समायुतम शरभॊन्नाद संघुष्टं नानाराव निनादितम सर्वर्तुफलपुष्पाढ्यं गन्धमादन सानुषु पीता भास्वरवर्णाभा बभूवुर नरराजयः नात्र कण्टकिनः के चिन नात्र के चिद अपुष्पिताः सनिग्धपत्र फला वृक्षा गन्धमादन सानुषु विमलस्फटिकाभानि पाण्डुरछदनैर दविजैः राजहंसैर उपेतानि सारसाभिरुतानि च सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु पद्मॊत्पलविचित्राणि सुखस्पर्श जलानि च गन्धवन्ति च माल्यानि रसवन्ति फलानि च अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु एते चान्ये च बहवस तत्र काननजा दरुमाः लताश च विविधाकाराः पत्रपुष्पफलॊच्चयाः युधिष्ठिरस तु तान वृक्षान पश्यमानॊ नगॊत्तमे भीमसेनम इदं वाक्यम अब्रवीन मधुराक्षरम पश्य भीम शुभान देशान देवाक्रीडान समन्ततः अमानुष गतिं पराप्ताः संसिद्धाः सम वृकॊदर ललाभिश चैव बह्वीभिः पुष्पिताः पादपॊत्तमाः संश्लिष्टाः पार्थ शॊभन्ते गन्धमादन सानुषु शिखण्डिनीभिश चरतां सहितानां शिखण्डिनाम नर्दतां शृणु निर्घॊषं भीम पर्वतसानुषु चकॊराः शतपत्राश च मत्तकॊकिल शारिकाः पत्रिणः पुष्पितान एतान संश्लिष्यन्ति महाद्रुमान रक्तपीतारुणाः पार्थ पादपाग्र गता दविजाः परस्परम उदीक्षन्ते बहवॊ जीव जीवकाः हरितारुणवर्णानां शाद्वलानां समन्ततः सारसाः परतिदृश्यन्ते शैलप्रस्रवणेष्व अपि वदन्ति मधुरा वाचः सर्वभूतमनॊ ऽनुगाः भृङ्गराजॊपचक्राश च लॊहपृष्ठाश च पत्रिणः चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः एते वैडूर्य वर्णाभं कषॊभयन्ति महत सरः बहुतालसमुत्सेधाः शैलशृङ्गात परिच्युताः नाना परस्रवणेभ्यश च वारिधाराः पतन्त्य अमूः भास्कराभ परभा भीम शारदाभ्रघनॊपमाः शॊभयन्ति महाशैलं नाना रजतधातवः कव चिद अञ्जन वर्णाभाः कव चित काञ्चनसंनिभाः धातवॊ हरितालस्य कवचिद धि गुलकस्य च मनःशिला गुहाश चैव संध्याभ्रनिकरॊपमाः शशलॊहित वर्णाभाः कव चिद गौरिक धातवः सितासिताभ्र परतिमा बालसूर्यसमप्रभाः एते बहुविधाः शैलं शॊभयन्ति महाप्रभाः गन्धर्वाः सह कान्ताहिर यथॊक्तं वृषपर्वणा दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह गीतानां तलतालानां यथा साम्नां च निस्वनः शरूयते बहुधा भीम सर्वभूतमनॊहरः महागङ्गाम उदीक्षस्व पुण्यां देव नदीं शुभाम कलहंस गणैर जुष्टाम ऋषिकिंनरसेविताम धातुभिश च सरिद्भिश च किंनरैर मृगपक्षिभिः गन्धर्वैर अप्सरॊभिश च कानकैश च मनॊरमैः वयालैश च विविधाकारैः शतशीर्षैः समन्ततः उपेतं पश्य कौन्तेय शैलराजम अरिंदम ते परीतमनसः शूराः पराप्ता गतिम अनुत्तमाम नातृप्यन पर्ततेन्द्रस्य दर्शनेन परंतपाः उपेतम अथ माल्यैश च फलवद्भिश च पादपैः आर्ष्टिषेणस्य राजर्षेर आश्रमं ददृशुस तदा ततस तं तीव्रतपसं कृशं धमनि संततम पारगं सर्वधर्माणाम आर्ष्टिषेणम उपागमन |
[vai] nihate rākṣase tasmin punar nārāyaṇāśramam abhyetya rājā kaunteyo nivāsam akarot prabhuḥ sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam samāś catasro 'bhigatāḥ śivena caratāṃ vane kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ kṛtaś ca samayas tena pārthenāmita tejasā pañcavarṣāṇi vatsyāmi vidyārthīti purā mayi tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam brāhmaṇās te 'nvamodanta śivena kuśalena ca sukhodarkam imaṃ kleśam acirād bharatarṣabha kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ tato yudhiṣṭhiro rājā bahūn kleśān vicintayan siṃhavyāghra gajākīrṇām udīcīṃ prayayau diśam avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam gandhamādana pādāṃś ca meruṃ cāpi śiloccayam upary upari śailasya bahvīś ca saritaḥ śivāḥ prasthaṃ himavataḥ puṇyaṃ yayau sapta daśe 'hani dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt pṛṣṭhe himavataḥ puṇye nānādrumalatā yute salilāvarta saṃjātaiḥ puṣpitaiś ca mahīruhaiḥ samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ abhyanandat sa rājarṣiḥ putravad bharatarṣabhān pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān tatas te varavastrāṇi śubhāny ābharaṇāni ca nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ atītānāgate vidvān kuśalaḥ sarvadharmavit anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān te 'nujñātā mahātmānaḥ prayayur diśam uttarām kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā anusaṃsādhya kaunteyān āśīrbhir abhinandya ca vṛṣaparvā nivavṛte panthānam upadiśya ca nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ nānādrumanirodheṣu vasantaḥ śailasānuṣu parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham maṇikāñcanaramyaṃ ca śailaṃ nānā samucchrayam te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā anusasrur yathoddeśaṃ paśyanto vividhān nagān upary upari śailasya guhā paramadurgamāḥ sudurgamāṃs te subahūn sukhenaivābhicakramuḥ dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ agaman sahitās tatra na kaś cid avahīyate te mṛgadvijasaṃghuṣṭaṃ nānādvija samākulam śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam puṇyaṃ padmasaropetaṃ sapalvala mahāvanam upatasthur mahāvīryā mālyavantaṃ mahāgirim tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam vidyādharānucaritaṃ kiṃnarībhis tathaiva ca gajasiṃhasamākīrṇam udīrṇaśarabhāyutam upetam anyaiś ca tadā mṛgair mṛdu ninādibhiḥ te gandhamādana vanaṃ tan nandanavanopama muditāḥ pāṇḍutanayā mano hṛdayanandanam viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam draupadī sahitā vīrās taiś ca viprair mahātmabhiḥ śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān śrotraramyān sumadhurāñ śabdān khaga mukheritān sarvartuphalabhārāḍhyān sarvartukusumojjvalān paśyantaḥ pādapāṃś cāpi phalabhāra vanāmitān āmrān āmrātakān phullān nārikelān satindukān ajātakāṃs tathā jīrān dāḍimān bījapūrakān panasāṁl likucān mocān kharjūrān āmravetasān pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā lpakṣān udumbara vaṭān aśvatthān kṣīriṇas tathā bhallātakān āmakalān harītakabibhītakān iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān etān anyāṃś ca vividhān gandhamādana sānuṣu phalair amṛtakalpais tān ācitān svādubhis tarūn tathaiva campakāśokān ketakān bakulāṃs tathā puṃnāgān saptaparṇāṃś ca karṇikārān saketakān pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā pārijātān kovidārān devadāru tarūṃs tathā śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā śālmalīḥ kiṃśukāśokāṃ śiṃśapāṃs taralāṃs tathā cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ kokilaiḥ kalaviṅkaiś ca hārītair jīva jīvakaiḥ priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān sarāṃsi ca vicitrāṇi prasannasalilāni ca kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ kahlāraiḥ kamalaiś caiva ācitāni samantataḥ kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ hṛṣṭais tathā tāmarasa rasāsava madālasaiḥ padmodara cyuta rajaḥ kiñjalkāruṇa rañjitaiḥ madhurasvarair madhukarair virutān kamalākarān paśyantas te manoramyān gandhamādana sānuṣu tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ śikhaṇḍinībhiḥ sahitāṁl latā maṇḍapakeṣu ca meghatūrya ravoddāma madanākulitān bhṛśam kṛtvaiva kekā madhuraṃ saṃgīta madhurasvaram citrān kalāpān vistīrya savilāsān madālasān mayūrān dadṛśuś citrān nṛtyato vanalāsakān kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham vallī latā saṃkaṭeṣu kaṭakeṣu sthitāṃs tathā kāṃś cic chakuna jātāṃś ca viṭapeṣūtkaṭān api kalāpa racitāṭopān vicitramukuṭān iva vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te sindhuvārān athoddāmān manmathasyeva tomarān suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca karṇikārān viracitān karṇa pūrān ivottamān athāpaśyan kurabakān vanarājiṣu puṣpitān kāmavaśyotsuka karān kāmasyeva śarotkarān tathaiva vanarājīnām udārān racitān iva virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva tathānaṅga śarākārān sahakārān manoramān apaśyan bhramarārāvān mañjarībhir virājitān hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api lohitair añjanābhaiś ca vaiḍūrya dadṛśair api tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ gajasaṃgha samābādhaṃ siṃhavyāghra samāyutam śarabhonnāda saṃghuṣṭaṃ nānārāva nināditam sarvartuphalapuṣpāḍhyaṃ gandhamādana sānuṣu pītā bhāsvaravarṇābhā babhūvur nararājayaḥ nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ snigdhapatra phalā vṛkṣā gandhamādana sānuṣu vimalasphaṭikābhāni pāṇḍurachadanair dvijaiḥ rājahaṃsair upetāni sārasābhirutāni ca sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu padmotpalavicitrāṇi sukhasparśa jalāni ca gandhavanti ca mālyāni rasavanti phalāni ca atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu ete cānye ca bahavas tatra kānanajā drumāḥ latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame bhīmasenam idaṃ vākyam abravīn madhurākṣaram paśya bhīma śubhān deśān devākrīḍān samantataḥ amānuṣa gatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara lalābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ saṃśliṣṭāḥ pārtha śobhante gandhamādana sānuṣu śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu cakorāḥ śatapatrāś ca mattakokila śārikāḥ patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān raktapītāruṇāḥ pārtha pādapāgra gatā dvijāḥ parasparam udīkṣante bahavo jīva jīvakāḥ haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ sārasāḥ pratidṛśyante śailaprasravaṇeṣv api vadanti madhurā vācaḥ sarvabhūtamano 'nugāḥ bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇaḥ caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ ete vaiḍūrya varṇābhaṃ kṣobhayanti mahat saraḥ bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ nānā prasravaṇebhyaś ca vāridhārāḥ patanty amūḥ bhāskarābha prabhā bhīma śāradābhraghanopamāḥ śobhayanti mahāśailaṃ nānā rajatadhātavaḥ kva cid añjana varṇābhāḥ kva cit kāñcanasaṃnibhāḥ dhātavo haritālasya kvacid dhi gulakasya ca manaḥśilā guhāś caiva saṃdhyābhranikaropamāḥ śaśalohita varṇābhāḥ kva cid gaurika dhātavaḥ sitāsitābhra pratimā bālasūryasamaprabhāḥ ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ gandharvāḥ saha kāntāhir yathoktaṃ vṛṣaparvaṇā dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ śrūyate bahudhā bhīma sarvabhūtamanoharaḥ mahāgaṅgām udīkṣasva puṇyāṃ deva nadīṃ śubhām kalahaṃsa gaṇair juṣṭām ṛṣikiṃnarasevitām dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ gandharvair apsarobhiś ca kānakaiś ca manoramaiḥ vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ upetaṃ paśya kaunteya śailarājam ariṃdama te prītamanasaḥ śūrāḥ prāptā gatim anuttamām nātṛpyan partatendrasya darśanena paraṃtapāḥ upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā tatas taṃ tīvratapasaṃ kṛśaṃ dhamani saṃtatam pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman |