|
[वै] ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः नैके युगसहस्रान्तास तवया दृष्टा महामुने न चापीह समः कश चिद आयुषा तव विद्यते वर्जयित्वा महात्मानं बराह्मणं परमेष्ठिनम अनन्तरिक्षे लॊके ऽसमिन देवदानव वर्जिते तवम एव परलये विप्र बराह्मणम उपतिष्ठसि परलये चापि निर्वृत्ते परबुद्धे च पितामहे तवम एव सृज्यमानानि भूतानीह परपश्यसि चतुर्विधानि विप्रर्षे यथावत परमेष्ठिना वायुभूता दिशः कृत्वा विक्षिप्यापस ततस ततः तवया लॊकगुरुः साक्षात सर्वलॊकपितामहः आराधितॊ दविजश्रेष्ठ तत्परेण समाधिना तस्मात सर्वान्तकॊ मृत्युर जरा वा देहनाशिनी न तवा विशति विप्रर्षे परसादात परमेष्ठिनः यदा नैव रविर नाग्निर न वायुर न च चन्द्रमः नैवान्तरिक्षं नैवॊर्वी शेषं भवति किं चन तस्मिन्न एकार्णवे लॊके नष्टे सथावरजङ्गमे नष्टे देवासुरगणे समुत्सन्न महॊरगे शयानम अमितात्मानं पद्मे पद्मनिकेतनम तवम एकः सर्वभूतेशं बरह्माणम उपतिष्ठसि एतत परत्यक्षतः सर्वं पूर्ववृत्तं दविजॊत्तम तस्माद इच्छामहे शरॊतुं सर्वहेत्व आत्मिकां कथाम अनुभूतं हि बहुशस तवयैकेन दविजॊत्तम न ते ऽसत्य अविदितं किं चित सर्वलॊकेषु नित्यदा [मार्क] हन्त ते कथयिष्यामि नमस्कृत्वा सवयम्भुवे पुरुषाय पुराणाय शाश्वतायाव्ययाय च य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः एष कर्ता विकर्ता च सर्वभावन भूतकृत अचिन्त्यं महद आश्चर्यं पवित्रम अपि चॊत्तमम अनादि निधनं भूतं विश्वम अक्षयम अव्ययम एष कर्ता न करियते कारणं चापि पौरुषे यॊ हय एनं पुरुषं वेत्ति देवा अपि न तं विदुः सर्वम आश्चर्यम एवैतन निर्वृत्तं राजसत्तम आदितॊ मनुजव्याघ्रकृत्स्नस्य जगतः कषये चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम तस्य तावच छती संध्या संध्यांशश च ततः परम तरीणि वर्षसहस्राणि तरेया युगम इहॊच्यते तस्य तावच छती संध्या संध्यांशश च ततः परम तथा वर्षसहस्रे दवे दवापरं परिमाणतः तस्यापि दविशती संध्या संख्यांशश च ततः परम सहस्रम एकं वर्षाणां ततः कलियुगं समृतम तस्य वर्षशतं संध्या संध्यांशश च ततः परम संध्यासंध्यांशयॊस तुल्यं परमाणम उपधारय कषीणे कलियुगे चैव परवर्तति कृतं युगम एषा दवादश साहस्री युगाख्या परिकीर्तिता एतत सहस्रपर्यन्तम अहर बराह्मम उदाहृतम विश्वं हि बरह्मभवने सर्वशः परिवर्तते लॊकानां मनुजव्याघ्रप्रलयं तं विदुर बुधाः अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ सहस्रान्ते नराः सर्वे परायशॊ ऽनृतवादिनः यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस तथा वरतप्रति निधिश चैव तस्मिन काले परवर्तते बराह्मणाः शूद्र कर्माणस तथा शूद्रा धनार्जकाः कषत्रधर्मेण वाप्य अत्र वर्तयन्ति गते युगे निवृत्तयज्ञस्वाध्यायाः पिण्डॊदकविवर्जिताः बराह्मणाः सर्वभक्षाश च भविष्यन्ति कलौ युगे अजपा बराह्मणास तात शूद्रा जप परायणाः विपरीते तदा लॊके पूर्वरूपं कषयस्य तत बहवॊ मेच्छ राजानः पृथिव्यां मनुजाधिप मिथ्यानुशासिनः पापा मृषावादपरायणाः आन्ध्राः शकाः पुलिन्दाश च यवनाश च नराधिपाः काम्बॊजा और्णिकाः शूद्रास तथाभीरा नरॊत्तम न तदा बराह्मणः कश चित सवधर्मम उपजीवति कषत्रिया अपि वैश्याश च विकर्मस्था नराधिप अल्पायुषः सवल्प बला अल्पतेजः पराक्रमाः अल्पदेहाल्प साराश च तथा सत्याल्प भाषिणः बहु शून्या जनपदा मृगव्यालावृता दिशः युगान्ते समनुप्राप्ते वृथा च बरह्मचारिणः भॊगादिनस तथा शूद्रा बराह्मणाश चार्यवादिनः युगान्ते मनुजव्याघ्रभवन्ति बहु जन्तवः न तथा घराणयुक्ताश च सर्वगन्धा विशां पते रसाश च मनुजव्याघ्रन तथा सवादु यॊगिनः बहु परजा हरस्वदेहाः शीलाचार विवर्जिताः मुखे भगाः सत्रियॊ राजन भविष्यन्ति युगक्षये अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः केशशूलाः सत्रियॊ राजन भविष्यन्ति युगक्षये अल्पक्षीरास तथा गावॊ भविष्यन्ति जनाधिप अल्पपुष्पफलाश चापि पादपा बहु वायसाः बरह्म वध्यावलॊप्तानां तथा मिथ्याभिशंसिनाम नृपाणां पृथिवीपाल परतिगृह्णन्ति वै दविजाः लॊभमॊहपरीताश च मिथ्या धर्मध्वजावृताः भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते दविजैर दिशः करभार भयात पुंसॊ गृहस्थाः परिमॊषकाः मुनिछद्माकृति छन्ना वाणिज्यम उपजीवते मिथ्या च नखरॊमाणि धारयन्ति नरास तदा अर्थलॊभान नरव्याघ्र वृथा च बरह्मचारिणः आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः ऐह लौकिकम ईहन्ते मांसशॊणितवर्धनम बहु पाषण्ड संकीर्णाः परान्न गुणवादिनः आश्रमा मनुजव्याघ्रन भवन्ति युगक्षये यथर्तु वर्षी भगवान न तथा पाकशासनः न तदा सर्वबीजानि सम्यग रॊहन्ति भारत अधर्मफलम अत्यर्थं तदा भवति चानघ तथा च पृथिवीपाल यॊ भवेद धर्मसंयुतः अल्पायुः स हि मन्तव्यॊ न हि धर्मॊ ऽसति कश चन भूयिष्ठं कूटमानैश च पण्यं विक्रीणते जनाः वणिजश च नरव्याघ्र बहु माया भवन्त्य उत धर्मिष्ठाः परिहीयन्ते पापीयान वर्धते जनः धर्मस्य बलहानिः सयाद अधर्मश च बली तथा अल्पायुषॊ दरिद्राश च धर्मिष्ठा मानवास तदा दीर्घायुषः समृद्धाश च विधर्माणॊ युगक्षये अधर्मिष्ठैर उपायैश च परजा वयवहरन्त्य उत संचयेनापि चाल्पेन भवन्त्य आढ्या मदान्विताः धनं विश्वासतॊ नयस्तं मिथॊ भूयिष्ठशॊ नराः हर्तुं वयवसिता राजन मायाचार समन्विताः पुरुषादानि सत्त्वानि पक्षिणॊ ऽथ मृगास तथा नगराणां विहारेषु चैत्येष्व अपि च शेरते सप्त वर्षाष्ट वर्षाश च सत्रियॊ गर्भधरा नृप दश दवादश वर्षाणां पुंसां पुत्रः परजायते भवन्ति षॊडशे वर्षे नराः पलितिनस तथा आयुः कषयॊ मनुष्याणां कषिप्रम एव परपद्यते कषीणे युगे महाराज तरुणा वृद्धशीलिनः तरुणानां च यच छीलं तद वृद्धेषु परजायते विपरीतास तदा नार्यॊ वञ्चयित्वा रहॊ पतीन वयुच्चरन्त्य अपि दुःशीला दासैः पशुभिर एव च तस्मिन युगसहस्रान्ते संप्राप्ते चायुषः कषये अनावृष्टिर महाराज जायते बहु वार्षिकी ततस तान्य अल्पसाराणि सत्त्वानि कषुधितानि च परलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ततॊ दिनकरैर दीप्तैः सप्तभिर मनुजाधिप पीयते सलिलं सर्वं समुद्रेषु सरित्सु च यच च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत सर्वं तद भस्मसाद भूतं दृश्यते भरतर्षभः ततः संवर्तकॊ वह्निर वायुना सह भारत लॊकम आविशते पूर्वम आदित्यैर उपशॊषितम ततः स पृथिवीं भित्त्वा समाविश्य रसातलम देवदानव यक्षाणां भयं जनयते महत निर्दहन नागलॊकं च यच च किं चित कषिताव इह अधस्तात पृथिवीपाल सर्वं नाशयते कषणात ततॊ यॊजनविंशानां सहस्राणि शतानि च निर्दहत्य अशिवॊ वायुः स च संवर्तकॊ ऽनलः सदेवासुरगन्धर्वं सयक्षॊरग राक्षसम ततॊ दहति दीप्तः स सर्वम एव जगद विभुः ततॊ गजकुलप्रख्यास तडिन माला विभूषिताः उत्तिष्ठन्ति महामेघा नभस्य अद्भुतदर्शनाः के चिन नीलॊत्पलश्यामाः के चित कुमुदसंनिभाः के चित किञ्जल्कसंकाशाः के चित पीताः पयॊधराः के चिद धारिद्र संकाशाः काकाण्डक निभास तथा के चित कमलपत्राभाः केचिद धिङ्गुलक परभाः के चित पुरवराकाराः के चिद गजकुलॊपमाः के चिद अञ्जनसंकाशाः के चिन मकरसंस्थिताः विद्युन्माला पिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः घॊररूपा महाराज घॊरस्वननिनादिताः ततॊ जलधराः सर्वे वयाप्नुवन्ति नभस्तलम तैर इयं पृथिवी सर्वा सपर्वतवनाकरा आपूर्यते महाराज सलिलौघपरिप्लुता ततस ते जलदा घॊरा राविणः पुरुषर्षभ सर्वतः पलावयन्त्य आशु चॊदिताः परमेष्ठिना वर्षमाणा महत तॊयं पूरयन्तॊ वसुंधराम सुघॊरम अशिवं रौद्रं नाशयन्ति च पावकम ततॊ दवादश वर्षाणि पयॊदास त उपप्लवे धाराभिः पूरयन्तॊ वै चॊद्यमाना महात्मना ततः समुद्रः सवां वेलाम अतिक्रामति भारत पर्वताश च विशीर्यन्ते मही चापि विशीर्यते सर्वतः सहसा भरान्तास ते पयॊदा नभस्तलम संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ततस तं मारुतं घॊरं सवयम्भूर मनुजाधिप आदि पद्मालयस्ल देवः पीत्वा सवपिति भारत तस्मिन्न एकार्णवे घॊरे नष्टे सथावरजङ्गमे नष्टे देवासुरगणे यक्षाराक्षस वर्जिते निर्मनुष्ये महीपाल निःश्वापद महीरुहे अनन्तरिक्षे लॊके ऽसमिन भरमाम्य एकॊ ऽहम आदृतः एकार्णवे जले घॊरे विचरन पार्थिवॊत्तम अपश्यन सर्वभूतानि वैक्लव्यम अगमं परम ततः सुदीर्घं गत्वा तु पलवमानॊ नराधिप शरान्तः कव चिन न शरणं लभाम्य अहम अतन्द्रितः ततः कदा चित पश्यामि तस्मिन सलिलसंप्लवे नयग्रॊधं सुमहान्तं वै विशालं पृथिवीपते शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप पर्यङ्के पृथिवीपाल दिव्यास्तरण संस्तृते उपविष्टं महाराज पूर्णेन्दुसदृशाननम फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ततॊ मे पृथिवीपाल विस्मयः सुमहान अभूत कथं तव अयं शिशुः शेते लॊके नाशम उपागते तपसा चिन्तयंश चापि तं शिशुं नॊपलक्षये भूतं भव्यं भविष्यच च जानन्न अपि नराधिप अतसी पुष्पवर्णाभः शरीवत्स कृतलक्षणः साक्षाल लक्ष्म्या इवावासः स तदा परतिभाति मे ततॊ माम अब्रवीद बालः स पद्मनिभ लॊचनः शरीवत्स धारी दयुतिमान वाक्यं शरुतिसुखावहम जानामि तवा परिश्रान्तं तात विश्रामकाङ्क्षिणम मार्कण्डेय इहास्स्व तवं यावद इच्छसि भार्गव अभ्यन्तरं शरीरं मे परविश्य मुनिसत्तम आस्स्व भॊ विहितॊ वासः परसादस ते कृतॊ मया ततॊ बालेन तेनैवम उक्तस्यासीत तदा मम निर्वेदॊ जीविते दीर्घे मनुष्यत्व च भारत ततॊ बालेन तेनास्यं सहसा विवृतं कृतम तस्याहम अवशॊ वक्त्रं दैवयॊगात परवेशितः ततः परविष्टस तत कुक्षिं सहसा मनुजाधिप सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम गङ्गां शतद्रुं सीतां च यमुनाम अथ कौशिकीम चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम सिन्धुं चैव विपाशां च नदीं गॊदावरीम अपि वस्वॊकसारां नलिनीं नर्मदां चैव भारत नदीं ताम्रां च वेण्णां च पुण्यतॊयां शुभावहाम सुवेणां कृष्णवेणां च इरामां च महानदीम शॊणं च पुरुषव्याघ्र विशल्यां कम्पुनाम अपि एताश चान्याश च नद्यॊ ऽहं पृथिव्यां या नरॊत्तम परिक्रामन परपश्यामि तस्य कुक्षौ महात्मनः ततः समुद्रं पश्यामि यादॊगणनिषेवितम रत्नाकरम अमित्रघ्न निधानं पयसॊ महत ततः पश्यामि गगनं चन्द्रसूर्यविराजितम जाज्वल्यमानं तेजॊभिः पावकार्क समप्रभैः पश्यामि च महीं राजन कानकैर उपशॊभिताम यजन्ते हि तदा राजन बराह्मणा बहुभिः सवैः कषत्रियाश च परवर्तन्ते सर्ववर्णानुरञ्जने वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप शुश्रूषायां च निरता दविजानां वृषलास तथा ततः परिपतन राजंस तस्य कुक्षौ महात्मनः हिमवन्तं च पश्यामि हेमकूटं च पर्वतम निषधं चापि पश्यामि शवेतं च रजता चितम पश्यामि च महीपाल पर्वतं गन्धमादनम मन्दरं मनुजव्याघ्रनीलं चापि महागिरिम पश्यामि च महाराज मेरुं कनकपर्वतम महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम उत्तमम मलयं चापि पश्यामि पारियात्रं च पर्वतम एते चान्ये च बहवॊ यावन्तः पृथिवीधराः तस्यॊदरे मया दृष्टाः सर्वरत्नविभूषिताः सिंहान वयाघ्रान वराहांश च नागांश च मनुजाधिप पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते तानि सर्वाण्य अहं तत्र पश्यन पर्यचरं तदा कुक्षौ तस्य नरव्याघ्र परविष्टः संचरन दिशः शक्रादींश चापि पश्यामि कृत्स्नान देवगणांस तथा गन्धर्वाप्सरसॊ यक्षान ऋषींश चैव महीपते दैत्यदानव संघांश च ये चान्ये सुरशत्रवः यच च किं चिन मया लॊके दृष्टं सथावरजङ्गमम तद अपश्यम अहं सर्वं तस्य कुक्षौ महात्मनः फलाहारः परविचरन कृत्स्नं जगद इदं तदा अन्तः शरीरे तस्याहं वर्षाणाम अधिकं शतम न च पश्यामि तस्याहम अन्तं देहस्य कुत्र चित सततं धावमानश च चिन्तयानॊ विशां पते आसादयामि नैतान्तं तस्य राजन महात्मनः ततस तम एव शरणं गतॊ ऽसमि विधिवत तदा वरेण्यं वरदं देवं मनसा कर्मणैव च ततॊ ऽहं सहसा राजन वायुवेगेन निःसृतः महात्मानॊ मुखात तस्य विवृतात पुरुषॊत्तम ततस तस्यैव शाखायां नयग्रॊघस्य विशां पते आस्ते मनुजशार्दूल कृत्स्नम आदाय वै जगत तेनैव बाल वेषेण शरीवत्स कृतलक्षणम आसीनं तं नरव्याघ्र पश्याम्य अमिततेजसम ततॊ माम अब्रवीद वीर स बालः परहसन्न इव शरीवत्स धारी दयुतिमान पीतवासा महाद्युतिः अपीदानीं शरीरे ऽसमिन मामके मुनिसत्तम उषितस तवं सुविश्रान्तॊ मार्कण्डेय बरवीहि मे मुहूर्ताद अथ मे दृष्टिः परादुर्भूता पुनर नवा यया निर्मुक्तम आत्मानम अपश्यं लब्धचेतसम तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ सुजातौ मृदु रक्ताभिर अङ्गुलीभिर अलंकृतौ परयतेन मया मूर्ध्ना गृहीत्वा हय अभिवन्दितौ दृष्ट्वापरिमितं तस्य परभावम अमितौजसः विनयेनाञ्जलिं कृत्वा परयत्नेनॊपगम्य च दृष्टॊ मया स भूतात्मा देवः कमललॊचनः तम अहं पराञ्जलिर भूत्वा नमस्कृत्येदम अब्रुवम जञातुम इच्छामि देव तवां मायां चेमां तवॊत्तमाम आस्येनानुप्रविष्टॊ ऽहं शरीरं भगवंस तव दृष्टवान अखिलाँल लॊकान समस्ताज जठरे तव तव देव शरीरस्था देवदानवराक्षसाः यक्षगन्धर्वनागाश च जगत सथावरजङ्गमम तवत्प्रसादाच च मे देव समृतिर न परिहीयते दरुतम अन्तः शरीरे ते सततं परिधावतः इच्छामि पुण्डरीकाक्ष जञातुं तवाहम अनिन्दित इह भूत्वा शिशुः साक्षात किं भवान अवतिष्ठते पीत्वा जगद इदं विश्वम एतद आख्यातुम अर्हसि किमर्थं च जगत सर्वं शरीरस्थं तवानघ कियन्तं च तवया कालम इह सथेयम अरिंदम एतद इच्छामि देवेश शरॊतुं बराह्मण काम्यया तवत्तः कमलपत्राक्ष विस्तरेण यथातथम महद धयेतद अचिन्त्यं च यद अहं दृष्टवान परभॊ इत्य उक्तः स मया शरीमान देवदेवॊ महाद्युतिः सान्त्वयन माम इदं वाक्यम उवाच वदतां वरः |
[vai] tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ naike yugasahasrāntās tvayā dṛṣṭā mahāmune na cāpīha samaḥ kaś cid āyuṣā tava vidyate varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam anantarikṣe loke 'smin devadānava varjite tvam eva pralaye vipra brāhmaṇam upatiṣṭhasi pralaye cāpi nirvṛtte prabuddhe ca pitāmahe tvam eva sṛjyamānāni bhūtānīha prapaśyasi caturvidhāni viprarṣe yathāvat parameṣṭhinā vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ ārādhito dvijaśreṣṭha tatpareṇa samādhinā tasmāt sarvāntako mṛtyur jarā vā dehanāśinī na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ yadā naiva ravir nāgnir na vāyur na ca candramaḥ naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana tasminn ekārṇave loke naṣṭe sthāvarajaṅgame naṣṭe devāsuragaṇe samutsanna mahorage śayānam amitātmānaṃ padme padmaniketanam tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama tasmād icchāmahe śrotuṃ sarvahetv ātmikāṃ kathām anubhūtaṃ hi bahuśas tvayaikena dvijottama na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā [mārk] hanta te kathayiṣyāmi namaskṛtvā svayambhuve puruṣāya purāṇāya śāśvatāyāvyayāya ca ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ eṣa kartā vikartā ca sarvabhāvana bhūtakṛt acintyaṃ mahad āścaryaṃ pavitram api cottamam anādi nidhanaṃ bhūtaṃ viśvam akṣayam avyayam eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ sarvam āścaryam evaitan nirvṛttaṃ rājasattama ādito manujavyāghrakṛtsnasya jagataḥ kṣaye catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param trīṇi varṣasahasrāṇi treyā yugam ihocyate tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param tathā varṣasahasre dve dvāparaṃ parimāṇataḥ tasyāpi dviśatī saṃdhyā saṃkhyāṃśaś ca tataḥ param sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam eṣā dvādaśa sāhasrī yugākhyā parikīrtitā etat sahasraparyantam ahar brāhmam udāhṛtam viśvaṃ hi brahmabhavane sarvaśaḥ parivartate lokānāṃ manujavyāghrapralayaṃ taṃ vidur budhāḥ alpāvaśiṣṭe tu tadā yugānte bharatarṣabha sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ yajñapratinidhiḥ pārtha dānapratinidhis tathā vrataprati nidhiś caiva tasmin kāle pravartate brāhmaṇāḥ śūdra karmāṇas tathā śūdrā dhanārjakāḥ kṣatradharmeṇa vāpy atra vartayanti gate yuge nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge ajapā brāhmaṇās tāta śūdrā japa parāyaṇāḥ viparīte tadā loke pūrvarūpaṃ kṣayasya tat bahavo meccha rājānaḥ pṛthivyāṃ manujādhipa mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati kṣatriyā api vaiśyāś ca vikarmasthā narādhipa alpāyuṣaḥ svalpa balā alpatejaḥ parākramāḥ alpadehālpa sārāś ca tathā satyālpa bhāṣiṇaḥ bahu śūnyā janapadā mṛgavyālāvṛtā diśaḥ yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ bhogādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ yugānte manujavyāghrabhavanti bahu jantavaḥ na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate rasāś ca manujavyāghrana tathā svādu yoginaḥ bahu prajā hrasvadehāḥ śīlācāra vivarjitāḥ mukhe bhagāḥ striyo rājan bhaviṣyanti yugakṣaye aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye alpakṣīrās tathā gāvo bhaviṣyanti janādhipa alpapuṣpaphalāś cāpi pādapā bahu vāyasāḥ brahma vadhyāvaloptānāṃ tathā mithyābhiśaṃsinām nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ lobhamohaparītāś ca mithyā dharmadhvajāvṛtāḥ bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ karabhāra bhayāt puṃso gṛhasthāḥ parimoṣakāḥ munichadmākṛti channā vāṇijyam upajīvate mithyā ca nakharomāṇi dhārayanti narās tadā arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ aiha laukikam īhante māṃsaśoṇitavardhanam bahu pāṣaṇḍa saṃkīrṇāḥ parānna guṇavādinaḥ āśramā manujavyāghrana bhavanti yugakṣaye yathartu varṣī bhagavān na tathā pākaśāsanaḥ na tadā sarvabījāni samyag rohanti bhārata adharmaphalam atyarthaṃ tadā bhavati cānagha tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ vaṇijaś ca naravyāghra bahu māyā bhavanty uta dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ dharmasya balahāniḥ syād adharmaś ca balī tathā alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ hartuṃ vyavasitā rājan māyācāra samanvitāḥ puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā nagarāṇāṃ vihāreṣu caityeṣv api ca śerate sapta varṣāṣṭa varṣāś ca striyo garbhadharā nṛpa daśa dvādaśa varṣāṇāṃ puṃsāṃ putraḥ prajāyate bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā āyuḥ kṣayo manuṣyāṇāṃ kṣipram eva prapadyate kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate viparītās tadā nāryo vañcayitvā raho patīn vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye anāvṛṣṭir mahārāja jāyate bahu vārṣikī tatas tāny alpasārāṇi sattvāni kṣudhitāni ca pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate tato dinakarair dīptaiḥ saptabhir manujādhipa pīyate salilaṃ sarvaṃ samudreṣu saritsu ca yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabhaḥ tataḥ saṃvartako vahnir vāyunā saha bhārata lokam āviśate pūrvam ādityair upaśoṣitam tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam devadānava yakṣāṇāṃ bhayaṃ janayate mahat nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt tato yojanaviṃśānāṃ sahasrāṇi śatāni ca nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ sadevāsuragandharvaṃ sayakṣoraga rākṣasam tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ tato gajakulaprakhyās taḍin mālā vibhūṣitāḥ uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ ke cid dhāridra saṃkāśāḥ kākāṇḍaka nibhās tathā ke cit kamalapatrābhāḥ kecid dhiṅgulaka prabhāḥ ke cit puravarākārāḥ ke cid gajakulopamāḥ ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ vidyunmālā pinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ ghorarūpā mahārāja ghorasvananināditāḥ tato jaladharāḥ sarve vyāpnuvanti nabhastalam tair iyaṃ pṛthivī sarvā saparvatavanākarā āpūryate mahārāja salilaughapariplutā tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam tato dvādaśa varṣāṇi payodās ta upaplave dhārābhiḥ pūrayanto vai codyamānā mahātmanā tataḥ samudraḥ svāṃ velām atikrāmati bhārata parvatāś ca viśīryante mahī cāpi viśīryate sarvataḥ sahasā bhrāntās te payodā nabhastalam saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa ādi padmālayasl devaḥ pītvā svapiti bhārata tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame naṣṭe devāsuragaṇe yakṣārākṣasa varjite nirmanuṣye mahīpāla niḥśvāpada mahīruhe anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ ekārṇave jale ghore vicaran pārthivottama apaśyan sarvabhūtāni vaiklavyam agamaṃ param tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ tataḥ kadā cit paśyāmi tasmin salilasaṃplave nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa paryaṅke pṛthivīpāla divyāstaraṇa saṃstṛte upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata tato me pṛthivīpāla vismayaḥ sumahān abhūt kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa atasī puṣpavarṇābhaḥ śrīvatsa kṛtalakṣaṇaḥ sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me tato mām abravīd bālaḥ sa padmanibha locanaḥ śrīvatsa dhārī dyutimān vākyaṃ śrutisukhāvaham jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava abhyantaraṃ śarīraṃ me praviśya munisattama āssva bho vihito vāsaḥ prasādas te kṛto mayā tato bālena tenaivam uktasyāsīt tadā mama nirvedo jīvite dīrghe manuṣyatva ca bhārata tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ tataḥ praviṣṭas tat kukṣiṃ sahasā manujādhipa sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam ratnākaram amitraghna nidhānaṃ payaso mahat tataḥ paśyāmi gaganaṃ candrasūryavirājitam jājvalyamānaṃ tejobhiḥ pāvakārka samaprabhaiḥ paśyāmi ca mahīṃ rājan kānakair upaśobhitām yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ kṣatriyāś ca pravartante sarvavarṇānurañjane vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatā citam paśyāmi ca mahīpāla parvataṃ gandhamādanam mandaraṃ manujavyāghranīlaṃ cāpi mahāgirim paśyāmi ca mahārāja meruṃ kanakaparvatam mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa pṛthivyāṃ yāni cānyāni sattvāni jagatīpate tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate daityadānava saṃghāṃś ca ye cānye suraśatravaḥ yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam na ca paśyāmi tasyāham antaṃ dehasya kutra cit satataṃ dhāvamānaś ca cintayāno viśāṃ pate āsādayāmi naitāntaṃ tasya rājan mahātmanaḥ tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ mahātmāno mukhāt tasya vivṛtāt puruṣottama tatas tasyaiva śākhāyāṃ nyagroghasya viśāṃ pate āste manujaśārdūla kṛtsnam ādāya vai jagat tenaiva bāla veṣeṇa śrīvatsa kṛtalakṣaṇam āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam tato mām abravīd vīra sa bālaḥ prahasann iva śrīvatsa dhārī dyutimān pītavāsā mahādyutiḥ apīdānīṃ śarīre 'smin māmake munisattama uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā yayā nirmuktam ātmānam apaśyaṃ labdhacetasam tasya tāmratalau tāta caraṇau supratiṣṭhitau sujātau mṛdu raktābhir aṅgulībhir alaṃkṛtau prayatena mayā mūrdhnā gṛhītvā hy abhivanditau dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ vinayenāñjaliṃ kṛtvā prayatnenopagamya ca dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava dṛṣṭavān akhilāṁl lokān samastāj jaṭhare tava tava deva śarīrasthā devadānavarākṣasāḥ yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam tvatprasādāc ca me deva smṛtir na parihīyate drutam antaḥ śarīre te satataṃ paridhāvataḥ icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate pītvā jagad idaṃ viśvam etad ākhyātum arhasi kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha kiyantaṃ ca tvayā kālam iha stheyam ariṃdama etad icchāmi deveśa śrotuṃ brāhmaṇa kāmyayā tvattaḥ kamalapatrākṣa vistareṇa yathātatham mahad dhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ |