|
[वै] एवम उक्तास तु ते पार्था यमौ च पुरुषर्षभौ दरौपद्या कृष्णया सार्धं नमश चक्रुर जनार्दनम स चैतान पुरुषव्याघ्र साम्ना परमवल्गुना सान्त्वयाम आस मानार्हान मन्यमानॊ यथाविधि युधिष्ठिरस तु कौन्तेयॊ मार्कण्डेयं महामुनिम पुनः पप्रच्छ साम्राज्ये भविष्यां जगतॊ गतिम आश्चर्यभूतं भवतः शरुतं नॊ वदतां वर मुने भार्गव यद्वृत्तं युगादौ परभवाप्ययौ अस्मिन कलियुगे ऽपय अस्ति पुनः कौतूहलं मम समाकुलेषु धर्मेषु किं नु शेषं भविष्यति किं वीर्या मानवास तत्र किमाहारविहारिणः किमायुषः किं वसना भविष्यन्ति युगक्षये कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम विस्तरेण मुने बरूहि विचित्राणीह भाषसे इत्य उक्तः स मुनिश्रेष्ठः पुनर एवाभ्यभाषत रमयन वृष्णिशार्दूलं पाण्डवांश च महामुनिः [मार्क] भविष्यं सर्वलॊकस्य वृत्तान्तं भरतर्षभ कलुषं कालम आसाद्य कथ्यमानं निबॊध मे कृते चतुष्पात सकलॊ निर्व्याजॊपाधि वर्जितः वृषः परतिष्ठितॊ धर्मॊ मनुष्येष्व अभवत पुरा अधर्मपादविद्धस तु तरिभिर अंशैः परतिष्ठितः तरेतायां दवापरे ऽरधेन वयामिश्रॊ धर्म उच्यते तरिभिर अंशैर अधर्मस तु लॊकान आक्रम्य तिष्ठति चतुर्थांशेन धर्मस तु मनुष्यान उपतिष्ठति आयुर वीर्यम अथॊ बुद्धिर बलं तेजॊ च पाण्डव मनुष्याणाम अनुयुगं हरसतीति निबॊध मे राजानॊ बराह्मणा वैश्याः शूद्राश चैव युधिष्ठिर वयाजैर धर्मं चरिष्यन्ति धर्मव्वैतंसिका नराः सत्यं संक्षेप्स्यते लॊके नरैः पण्डितमानिभिः सत्यहान्या ततस तेषाम आयुर अल्पं भविष्यति आयुषः परक्षयाद विद्यां न शक्ष्यन्त्य उपशिक्षितुम विद्या हीनान अविज्ञानाल लॊभॊ ऽपय अभिभविष्यति लॊभक्रॊधपरा मूढाः कामसक्ताश च मानवाः वैरबद्धा भविष्यन्ति परस्परवधेप्सवः बराह्मणाः कषत्रिया वैश्याः संकीर्यन्तः परस्परम शूद्र तुल्या भविष्यन्ति तपः सत्यविवर्जिताः अन्त्या मध्या भविष्यन्ति मध्याश चान्तावसायिनः ईदृशॊ भविता लॊकॊ युगान्ते पर्युपस्थिते वस्त्राणां परवरा शाणी धान्यानां कॊर दूषकाः भार्या मित्राश च पुरुषा भविष्यन्ति युगक्षये मत्स्यामिषेण जीवन्तॊ दुहन्तश चाप्य अजैडकम गॊषु नष्टासु पुरुषा भविष्यन्ति युगक्षये अन्यॊन्यं परिमुष्णन्तॊ हिंसयन्तश च मानवाः अजपा नास्तिकाः सतेना भविष्यन्ति युगक्षये सरित तीरेषु कुद्दालैर वापयिष्यन्ति चौषधीः ताश चाप्य अल्पफलास तेषां भविष्यन्ति युगक्षये शराद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः ते ऽपि लॊभसमायुक्ता भॊक्ष्यन्तीह परस्परम पिता पुत्रस्य भॊक्ता च पितुः पुत्रस तथैव च अतिक्रान्तानि भॊज्यानि भविष्यन्ति युगक्षये न वरतानि चरिष्यन्ति बराह्मणा वेद निन्दकाः न यक्ष्यन्ति न हॊष्यन्ति हेतुवादविलॊभिताः निम्ने कृषिं करिष्यन्ति यॊक्ष्यन्ति धुरि धेनुकाः एकहायन वत्सांश च वाहयिष्यन्ति मानवाः पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा निरुद्वेगॊ बृहद वादी न निन्दाम उपलप्स्यते मलेच्छ भूतं जगत सर्वं निश्क्रियं यज्ञवर्जितम भविष्यति निरानन्दम अनुत्सवम अथॊ तथा परायशः कृपणानां हि तथा बन्धुमताम अपि विधवानां च वित्तानि हरिष्यन्तीह मानवाः अल्पवीर्यबलाः सतब्धा लॊभमॊहपरायणाः तत्कथादानसंतुष्टा दुष्टानाम अपि मानवाः परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः संघातयन्तः कौन्तेय राजानः पापबुद्धयः परस्परवधॊद्युक्ता मूर्खाः पण्डितमानिनः भविष्यन्ति युगस्यान्ते कषत्रिया लॊककण्टकाः अरक्षितारॊ लुब्धाश च मानाहंकार दर्पिताः केवलं दण्डरुचयॊ भविष्यन्ति युगक्षये आक्रम्याक्रम्य साधूनां दारांश चैव धनानि च भॊक्ष्यन्ते निरनुक्रॊशा रुदताम अपि भारत न कन्यां याचते कश चिन नापि कन्या परदीयते सवयं गराहा भविष्यन्ति युगान्ते पर्युपस्थिते राजानश चाप्य असंतुष्टाः परार्थान मूढचेतसः सर्वॊपायैर हरिष्यन्ति युगान्ते पर्युपस्थिते मलेच्छी भूतं जगत सर्वं भविष्यति च भारत हस्तॊ हस्तं परिमुषेद युगान्ते पर्युपस्थिते सत्यं संक्षिप्यते लॊके नरैः पण्डितमानिभिः सथविरा बालमतयॊ बालाः सथविर बुद्धयः भीरवः शूरमानीनः शूरा भीरु विषादिनः न विश्वसन्ति चान्यॊन्यं युगान्ते पर्युपस्थिते एकाहार्यं जगत सर्वं लॊभमॊहव्यवस्थितम अधर्मॊ वर्धति महान न च धर्मः परवर्तते बराह्मणाः कषत्रिया वैश्या न शिष्यन्ति जनाधिप एकवर्णस तदा लॊकॊ भविष्यति युगक्षये न कषंस्यति पिता पुत्रं पुत्रश च पितरं तथा भार्या च पतिशुश्रूषां न करिष्यति का चन ये यवान्ना जनपदा गॊधूमान्नास तथैव च तान देशान संश्रयिष्यन्ति युगान्ते पर्युपस्थिते सवैराहाराश च पुरुषा यॊषितश च विशां पते अन्यॊन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते मलेच्छ भूतं जगत सर्वं भविष्यति युधिष्ठिर न शराद्धैर हि पितॄंश चापि तर्पयिष्यन्ति मानवाः न कश चित कस्य चिच छरॊता न कश चित कस्य चिद गुरुः तमॊ गरस्तस तदा लॊकॊ भविष्यति नराधिप परमायुश च भविता तदा वर्षाणि षॊडश ततः पराणान विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते पञ्चमे वाथ षष्ठे वा वर्षे कन्या परसूयते सप्त वर्षाष्ट वर्षाश च परजास्यन्ति नरास तदा पत्यौ सत्री तु तदा राजन पुरुषॊ वा सत्रियं परति युगान्ते राजशार्दूल न तॊषम उपयास्यति अल्पद्रव्या वृथा लिङ्गा हिंसा च परभविष्यति न कश चित कस्य चिद दाता भविष्यति युगक्षये अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः केशशूलाः सत्रियश चापि भविष्यन्ति युगक्षये मलेच्छाः करूराः सर्वभक्षा दारुणाः सर्वकर्मसु भाविनः पश्चिमे काले मनुष्या नात्र संशयः करयविक्रयकाले च सर्वः सर्वस्य वञ्चनम युगान्ते भरतश्रेष्ठ वृत्ति लॊभात करिष्यति जञानानि चाप्य अविज्ञाय करिष्यन्ति करियास तथा आत्मछन्देन वर्तन्ते युगान्ते पर्युपस्थिते सवभावात करूरकर्माणश चान्यॊन्यम अभिशङ्किनः भवितारॊ जनाः सर्वे संप्राप्ते युगसंक्षये आरामांश चैव वृक्षांश च नाशयिष्यन्ति निर्व्यथाः भविता संक्षयॊ लॊके जीवितस्य च देहिनाम तथा लॊभाभिभूताश च चरिष्यन्ति महीम इमाम बराह्मणाश च भविष्यन्ति बरह्म सवानि च भुञ्जते हाहाकृता दविजाश चैव भयार्ता वृषलार्दिताः तरातारम अलभन्तॊ वै भरमिष्यन्ति महीम इमाम जीवितान्तकरा रौद्राः करूराः पराणिविहिंसकाः यदा भविष्यन्ति नरास तदा संक्षेप्स्यते युगम आश्रयिष्यन्ति च नदीः पर्वतान विषमाणि च परधावमाना वित्रस्ता दविजाः कुरुकुलॊद्वह दस्यु परपीडिता राजन काका इव दविजॊत्तमाः कुराजभिश च सततं करभार परपीडिताः धैर्यं तयक्त्वा महीपाल दारुणे युगसंक्षये विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः शूद्रा धर्मं परवक्ष्यन्ति बराह्मणाः पर्युपासकाः शरॊतारश च भविष्यन्ति परामाण्येन वयवस्थिताः विपरीतश च लॊकॊ ऽयं भविष्यत्य अधरॊत्तरः एडूकान पूजयिष्यन्ति वर्जयिष्यन्ति देवताः शूद्राः परिचरिष्यन्ति न दविजान युगसंक्षये आश्रमेषु महर्षीणां बराह्मणावसथेषु च देवस्थानेषु चैत्येषु नागानाम आलयेषु च एडूक चिह्ना पृथिवी न देव गृहभूषिता भविष्यति युगे कषीणे तद युगान्तस्य लक्षणम यदा रौद्रा धर्महीना मांसादाः पानपास तथा भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम पुष्पे पुष्पं यदा राजन फले फलम उपाश्रितम परजास्यति महाराज तदा संक्षेप्स्यते युगम अकालवर्षी पर्जन्यॊ भविष्यति गते युगे अक्रमेण मनुष्याणां भविष्यति तदा करिया विरॊधम अथ यास्यन्ति वृषला बराह्मणैः सह मही मलेच्छ समाकीर्णा भविष्यति ततॊ ऽचिरात करभार भयाद विप्रा भजिष्यन्ति दिशॊ दश निर्विशेषा जनपदा नरावृष्टिभिर अर्दिताः आश्रमान अभिपत्स्यन्ति फलमूलॊपजीविनः एवं पर्याकुले लॊके मर्यादा न भविष्यति न सथास्यन्त्य उपदेशे च शिष्या विप्रियकारिणः आचार्यॊपनिधिश चैव वत्स्यते तदनन्तरम अर्थयुक्त्या परवत्स्यन्ति मित्र संबन्धिबान्धवाः अभावः सर्वभूतानां युगान्ते च भविष्यति दिशः परज्वलिताः सर्वा नक्षत्राणि चलानि च जयॊतींषि परतिकूलानि वाताः पर्याकुलास तथा उल्का पाताश च बहवॊ महाभयनिदर्शकाः षड्भिर अन्यैश च सहितॊ भास्करः परतपिष्यति तुमुलाश चापि निर्ह्रादा दिग दाहाश चापि सर्वशः कबन्धान्तर्हितॊ भानुर उदयास्तमये तदा अकालवर्षी च तदा भविष्यति सहस्रदृक सस्यानि च न रॊक्ष्यन्ति युगान्ते पर्युपस्थिते अभीक्ष्णं करूर वादिन्यः परुषा रुदितप्रियाः भर्तॄणां वचने चैव न सथास्यन्ति तदा सत्रियः पुत्राश च मातापितरौ हनिष्यन्ति युगक्षये सूदयिष्यन्ति च पतीन सत्रियः पुत्रान अपाश्रिताः अपर्वणि महाराज सूर्यं राहुर उपैष्यति युगान्ते हुतभुक चापि सर्वतः परज्वलिष्यति पानीयं भॊजनं चैव याचमानास तदाध्वगाः न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते निर्घातवायसा नागाः शकुनाः समृगद्विजाः रूक्षा वाचॊ विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते मित्र संबन्धिनश चापि संत्यक्ष्यन्ति नरास तदा जनं परिजनं चापि युगान्ते पर्युपस्थिते अथ देशान दिशश चापि पत्तनानि पुराणि च करमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते हा तात हा सुतेत्य एवं तदा वाचः सुदारुणाः विक्रॊशमानश चान्यॊन्यं जनॊ गां पर्यटिष्यति ततस तुमुलसंघाते वर्तमाने युगक्षये दविजातिपूर्वकॊ लॊकः करमेण परभविष्यति ततः कालान्तरे ऽनयस्मिन पुनर लॊकविवृद्धये भविष्यति पुनर दैवम अनुकूलं यदृच्छया यदा चन्द्रश च सूर्यश च तथा तिष्यबृहस्पती एकाराशौ समेष्यन्ति परपत्स्यति तदा कृतम कालवर्षी च पर्जन्यॊ नक्षत्राणि शुभानि च परदक्षिणा गरहाश चापि भविष्यन्त्य अनुलॊमगाः कषेमं सुभिक्षम आरॊग्यं भविष्यति निरामयम कल्किर विष्णुयशा नाम दविजः कालप्रचॊदितः उत्पत्स्यते महावीर्यॊ महाबुद्धिपराक्रमः संभूतः संभल गरामे बराह्मणावसथे शुभे मनसा तस्य सर्वाणि वाहनान्य आयुधानि च उपस्थास्यन्ति यॊधाश च शस्त्राणि कवचानि च स धर्मविजयी राजा चक्रवर्ती भविष्यति स चेमं संकुलं लॊकं परसादम उपनेष्यति उत्थितॊ बराह्मणॊ दीप्तः कषयान्तकृद उदारधीः स संक्षेपॊ हि सर्वस्य युगस्य परिवर्तकः स सर्वत्रगतान कषुद्रान बराह्मणैः परिवारितः उत्सादयिष्यति तदा सर्वान मलेच्छ गणान दविजः |
[vai] evam uktās tu te pārthā yamau ca puruṣarṣabhau draupadyā kṛṣṇayā sārdhaṃ namaś cakrur janārdanam sa caitān puruṣavyāghra sāmnā paramavalgunā sāntvayām āsa mānārhān manyamāno yathāvidhi yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṃ mahāmunim punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara mune bhārgava yadvṛttaṃ yugādau prabhavāpyayau asmin kaliyuge 'py asti punaḥ kautūhalaṃ mama samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati kiṃ vīryā mānavās tatra kimāhāravihāriṇaḥ kimāyuṣaḥ kiṃ vasanā bhaviṣyanti yugakṣaye kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam vistareṇa mune brūhi vicitrāṇīha bhāṣase ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃś ca mahāmuniḥ [mārk] bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me kṛte catuṣpāt sakalo nirvyājopādhi varjitaḥ vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati caturthāṃśena dharmas tu manuṣyān upatiṣṭhati āyur vīryam atho buddhir balaṃ tejo ca pāṇḍava manuṣyāṇām anuyugaṃ hrasatīti nibodha me rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira vyājair dharmaṃ cariṣyanti dharmavvaitaṃsikā narāḥ satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati āyuṣaḥ prakṣayād vidyāṃ na śakṣyanty upaśikṣitum vidyā hīnān avijñānāl lobho 'py abhibhaviṣyati lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ vairabaddhā bhaviṣyanti parasparavadhepsavaḥ brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam śūdra tulyā bhaviṣyanti tapaḥ satyavivarjitāḥ antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ īdṛśo bhavitā loko yugānte paryupasthite vastrāṇāṃ pravarā śāṇī dhānyānāṃ kora dūṣakāḥ bhāryā mitrāś ca puruṣā bhaviṣyanti yugakṣaye matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye sarit tīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ tāś cāpy alpaphalās teṣāṃ bhaviṣyanti yugakṣaye śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ te 'pi lobhasamāyuktā bhokṣyantīha parasparam pitā putrasya bhoktā ca pituḥ putras tathaiva ca atikrāntāni bhojyāni bhaviṣyanti yugakṣaye na vratāni cariṣyanti brāhmaṇā veda nindakāḥ na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ ekahāyana vatsāṃś ca vāhayiṣyanti mānavāḥ putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā nirudvego bṛhad vādī na nindām upalapsyate mleccha bhūtaṃ jagat sarvaṃ niśkriyaṃ yajñavarjitam bhaviṣyati nirānandam anutsavam atho tathā prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ parigrahaṃ kariṣyanti pāpācāraparigrahāḥ saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ arakṣitāro lubdhāś ca mānāhaṃkāra darpitāḥ kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye ākramyākramya sādhūnāṃ dārāṃś caiva dhanāni ca bhokṣyante niranukrośā rudatām api bhārata na kanyāṃ yācate kaś cin nāpi kanyā pradīyate svayaṃ grāhā bhaviṣyanti yugānte paryupasthite rājānaś cāpy asaṃtuṣṭāḥ parārthān mūḍhacetasaḥ sarvopāyair hariṣyanti yugānte paryupasthite mlecchī bhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata hasto hastaṃ parimuṣed yugānte paryupasthite satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ sthavirā bālamatayo bālāḥ sthavira buddhayaḥ bhīravaḥ śūramānīnaḥ śūrā bhīru viṣādinaḥ na viśvasanti cānyonyaṃ yugānte paryupasthite ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam adharmo vardhati mahān na ca dharmaḥ pravartate brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa ekavarṇas tadā loko bhaviṣyati yugakṣaye na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā bhāryā ca patiśuśrūṣāṃ na kariṣyati kā cana ye yavānnā janapadā godhūmānnās tathaiva ca tān deśān saṃśrayiṣyanti yugānte paryupasthite svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate anyonyaṃ na sahiṣyanti yugānte paryupasthite mleccha bhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira na śrāddhair hi pitṝṃś cāpi tarpayiṣyanti mānavāḥ na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ tamo grastas tadā loko bhaviṣyati narādhipa paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa tataḥ prāṇān vimokṣyanti yugānte paryupasthite pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate sapta varṣāṣṭa varṣāś ca prajāsyanti narās tadā patyau strī tu tadā rājan puruṣo vā striyaṃ prati yugānte rājaśārdūla na toṣam upayāsyati alpadravyā vṛthā liṅgā hiṃsā ca prabhaviṣyati na kaś cit kasya cid dātā bhaviṣyati yugakṣaye aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ krayavikrayakāle ca sarvaḥ sarvasya vañcanam yugānte bharataśreṣṭha vṛtti lobhāt kariṣyati jñānāni cāpy avijñāya kariṣyanti kriyās tathā ātmachandena vartante yugānte paryupasthite svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye ārāmāṃś caiva vṛkṣāṃś ca nāśayiṣyanti nirvyathāḥ bhavitā saṃkṣayo loke jīvitasya ca dehinām tathā lobhābhibhūtāś ca cariṣyanti mahīm imām brāhmaṇāś ca bhaviṣyanti brahma svāni ca bhuñjate hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ trātāram alabhanto vai bhramiṣyanti mahīm imām jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca pradhāvamānā vitrastā dvijāḥ kurukulodvaha dasyu prapīḍitā rājan kākā iva dvijottamāḥ kurājabhiś ca satataṃ karabhāra prapīḍitāḥ dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ viparītaś ca loko 'yaṃ bhaviṣyaty adharottaraḥ eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca devasthāneṣu caityeṣu nāgānām ālayeṣu ca eḍūka cihnā pṛthivī na deva gṛhabhūṣitā bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam puṣpe puṣpaṃ yadā rājan phale phalam upāśritam prajāsyati mahārāja tadā saṃkṣepsyate yugam akālavarṣī parjanyo bhaviṣyati gate yuge akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha mahī mleccha samākīrṇā bhaviṣyati tato 'cirāt karabhāra bhayād viprā bhajiṣyanti diśo daśa nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ āśramān abhipatsyanti phalamūlopajīvinaḥ evaṃ paryākule loke maryādā na bhaviṣyati na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ ācāryopanidhiś caiva vatsyate tadanantaram arthayuktyā pravatsyanti mitra saṃbandhibāndhavāḥ abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā ulkā pātāś ca bahavo mahābhayanidarśakāḥ ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati tumulāś cāpi nirhrādā dig dāhāś cāpi sarvaśaḥ kabandhāntarhito bhānur udayāstamaye tadā akālavarṣī ca tadā bhaviṣyati sahasradṛk sasyāni ca na rokṣyanti yugānte paryupasthite abhīkṣṇaṃ krūra vādinyaḥ paruṣā ruditapriyāḥ bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ putrāś ca mātāpitarau haniṣyanti yugakṣaye sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ na lapsyante nivāsaṃ ca nirastāḥ pathi śerate nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ rūkṣā vāco vimokṣyanti yugānte paryupasthite mitra saṃbandhinaś cāpi saṃtyakṣyanti narās tadā janaṃ parijanaṃ cāpi yugānte paryupasthite atha deśān diśaś cāpi pattanāni purāṇi ca kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite hā tāta hā sutety evaṃ tadā vācaḥ sudāruṇāḥ vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati tatas tumulasaṃghāte vartamāne yugakṣaye dvijātipūrvako lokaḥ krameṇa prabhaviṣyati tataḥ kālāntare 'nyasmin punar lokavivṛddhaye bhaviṣyati punar daivam anukūlaṃ yadṛcchayā yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī ekārāśau sameṣyanti prapatsyati tadā kṛtam kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ utpatsyate mahāvīryo mahābuddhiparākramaḥ saṃbhūtaḥ saṃbhala grāme brāhmaṇāvasathe śubhe manasā tasya sarvāṇi vāhanāny āyudhāni ca upasthāsyanti yodhāś ca śastrāṇi kavacāni ca sa dharmavijayī rājā cakravartī bhaviṣyati sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ sa saṃkṣepo hi sarvasya yugasya parivartakaḥ sa sarvatragatān kṣudrān brāhmaṇaiḥ parivāritaḥ utsādayiṣyati tadā sarvān mleccha gaṇān dvijaḥ |