|
[वै] भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम अथाचष्ट मार्कण्डेयः अयॊध्यायाम इक्षुवाकु कुलॊत्पन्नः पार्थिवः परिक्षिन नाम मृगयाम अगमत तम एकाश्वेन मृगम अनुसरन्तं मृगॊ दूरम अपाहरत अथाध्वनि जातश्रमः कषुत्तृष्णाभिभूतश च कस्मिंश चिद उद्देशे नीलं वनषण्डम अपश्यत तच च विवेश ततस तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरॊ दृष्ट्वा साश्वैव वयगाहत अथाश्वस्तः स बिस मृणालम अश्वस्याग्रे निक्षिप्य पुष्करिणी तीरे समाविशत ततः शयानॊ मधुरं गीतशब्दम अशृणॊत स शरुत्वा अचिन्तयत नेह मनुष्यगतिं पश्यामि कस्य खल्व अयं गीतशब्देति अथापश्यत कन्यां परमरूपदर्शनीयां पुष्पाण्य अवचिन्वतीं गायन्तीं च अथ सा राज्ञः समीपे पर्यक्रामत ताम अब्रवीद राजा कस्यासि सुभगे तवम इति सा परत्युवाच तां राजॊवाच अर्थी तवयाहम इति अथॊवाच कन्या समयेनाहं शक्या तवया लब्धुम नान्यथेति तां राजा समयम अपृच्छत ततः कन्येदम उवाच उदकं मे न दर्शयितव्यम इति स राजा बाढम इत्य उक्त्वा तां समागम्य तया सहास्ते तत्रैवासीने राजनि सेनान्वगच्छत पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत पर्याश्वस्तश च राजा तयैव सह शिबिकया परायाद अविघाटितया सवनगरम अनुप्राप्य रहसि तया सह रमन्न आस्ते नान्यत किं चनापश्यत अथ परधानामात्यस तस्याभ्याश चराः सत्रियॊ ऽपृच्छत किम अत्र परयॊजनं वर्ततेति अथाब्रुवंस ताः सत्रियः अपूर्वम इव पश्यामॊदकं नात्र नीयतेति अथामात्यॊ ऽनुदकं वनं कारयित्वॊदार वृक्षं बहुमूलपुष्पफलं रहस्य उपगम्य राजानम अब्रवीत वनम इदम उदारम अनुदकम साध्व अत्र रम्यताम इति स तस्य वचनात तयैव सहदेव्या तद वनं पराविशत स कदा चित तस्मिन वने रम्ये तयैव सह वयवहरत अथ कषुत तृष्णार्दितः शरान्तॊ ऽतिमात्रम अतिमुक्तागारम अपश्यत तत परविश्य राजा सह परियया सुधा तलसुकृतां विमलसलिलपूर्णां वापीम अपश्यत दृष्ट्वैव च तां तस्यैव तीरे सहैव तया देव्या वयतिष्ठत अथ तां देवीं स राजाब्रवीत साधुव अवतर वापी सलिलम इति सा तद वचॊ शरुत्वावतीर्य वापीं नयमज्जत न पुनर उदमज्जत तां मृगयमाणॊ राजा नापश्यत वापीम अपि निःस्राव्य मण्डूकं शवभ्रमुखे दृष्ट्वा करुद्धाज्ञापयाम आस सर्वमण्डूक वधः करियताम इति यॊ मयार्थी स मृतकरि मण्डूकैर उपायनैर माम उपतिष्ठेद इति अथ मण्डूकवधे घॊरे करियमाणे दिक्षु सर्वासु मण्डूकान भयम आविशत ते भीता मण्डूकराज्ञे यथावृत्तं नयवेदयन ततॊ मण्डूकराट तापस वेषधारी राजानम अभ्यगच्छत उपेत्य चैनम उवाच मा राजन करॊधवशं गमः परसादं कुरु नार्हसि मण्डूकानाम अनपराधिनां वधं कर्तुम इति शलॊकौ चात्र भवतः मा मण्डूकाञ जिघांस तवं कॊपं संधार्ययाच्युत परक्षीयते धनॊद्रेकॊ जनानाम अविजानताम परतिजानीहि नैतांस तवं पराप्य करॊधं विमॊक्ष्यसे अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर हि ते तम एवं वादिनम इष्टजनशॊकपरीतात्मा राजा परॊवाच न हि कषम्यते तन मया हनिष्याम्य एतान एतैर दुरात्मभिः परिया मे भक्षिता सर्वथैव मे वध्या मण्डूकाः नार्हसि विद्वन माम उपरॊद्धुम इति स तद वाक्यम उपलभ्य वयथितेन्द्रिय मनः परॊवाच परसीद राजन अहम आयुर नाम मण्डूकराजः मम सा दुहिता सुशॊभना नाम तस्या दौःशील्यम एतत बहवॊ हि राजानस तया विप्रलब्ध पूर्वेति तम अब्रवीद राजा तयास्म्य अर्थी स मे दीयताम इति अथैनां राज्ञे पितादात अब्रवीच चैनाम एनं राजानं शुश्रूषस्वेति सॊवाच दुहितरम यस्मात तवया राजानॊ विप्रलब्धास तस्माद अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य अनृतकत्वात तवेति स च राजा ताम उपलभ्य तस्यां सुरत गुणनिबद्धहृदयॊ लॊकत्रयैश्वर्यम इवॊपलभ्य हर्षबाष्पकलया वाच परणिपत्याभिपूज्य मण्डूकराजानम अब्रवीत अनुगृहीतॊ ऽसमीति स च मण्डूकराजॊ जामातरम अनुज्ञाप्य यथागतम अगच्छत अथ कस्य चित कालस्य तस्यां कुमारास तरयस तस्य राज्ञः संबभूवुः शलॊ दलॊ बलश चेति ततस तेषां जयेष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम अथ कदा चिच छिलॊ मृगयाम अचरत मृगं चासाद्य रथेनान्वधावत सूतं चॊवाच शीघ्रं मां वहस्वेति स तथॊक्तः सूतॊ राजानम अब्रवीत मा करियताम अनुबन्धः नैष शक्यस तवया मृगॊ गरहीतुं यद्य अपि ते रथे युक्तौ वाम्य सयाताम इति ततॊ ऽबरवीद राजा सूतम आचक्ष्व मे वाम्य हन्मि वा तवाम इति सैवम उक्तॊ राजभयभीतॊ वामदेव शापभीतश च सन्न आचख्यौ राज्ञे वामदेवस्याश्वौ वाम्य मनॊजवाव इति अथैनम एवं बरुवाणम अब्रवीद राजा वामदेवाश्रमं याहीति स गत्वा वामदेवाश्रमं तम ऋषिम अब्रवीत भगवन मृगॊ मया विद्धः पालयते तं संभावयेयम अर्हसि मे वाम्य दातुम इति तम अब्रवीद ऋषिः ददानि ते वाम्य कृतकार्येण भवता ममैव निर्यात्यौ कषिप्रम इति स च ताव अश्वौ परतिगृह्यानुज्ञाप्य चर्षिं परायाद वाम्य संयुक्तेन रथेन मृगं परति गच्छंश चाब्रवीत सूतम अश्वरत्नाव इमाव अयॊग्यौ बराह्मणानाम नैतौ परतिदेयौ वामदेवायेति एवम उक्त्वा मृगम अवाप्य सवनगरम एत्याश्वावन्तःपुरे ऽसथापयत अथर्षिश चिन्तयाम आस तरुणॊ राजपुत्रः कल्याणं पत्रम आसाद्य रमते न मे परतिनिर्यातयति अहॊ कष्टम इति मनसा निश्चित्य मासि पूर्णे शिष्यम अब्रवीत गच्छात्रेय राजानं बरूहि यदि पर्याप्तं निर्यातयॊपाध्याय वाम्येति स गत्वैवं तं राजानम अब्रवीत तं राजा परत्युवाच राज्ञाम एतद वाहनम अनर्हा बराह्मणा रत्नानाम एवंविधानाम किं च बराह्मणानाम अश्वैः कार्यम साधु परतिगम्यताम इति स गत्वैवम उपाध्यायायाचष्ट तच छरुत्वा वचनम अप्रियं वामदेवः करॊधपरीतात्मा सवयम एव राजानम अभिगम्याश्वार्थम अभ्यचॊदयत न चादाद राजा [वाम] परयच्छ वाम्यौ मम पार्थिव तवं; कृतं हि ते कार्यम अन्यैर अशक्यम मा तवा वधीद वरुणॊ घॊरपाशैर; बरह्मक्षत्रस्यान्तरे वर्तमानः [राजा] अनड्वाहौ सुव्रतौ साधु दान्ताव; एतद विप्राणां वाहनं वामदेव ताभ्यां याहि तवं यत्र कामॊ महर्षे; छन्दांसि वै तवादृशं संवहन्ति [वाम] छन्दांसि वै मादृशं संवहन्ति; लॊके ऽमुष्मिन पार्थिव यानि सन्ति अस्मिंस तु लॊके मम यानम एतद; अस्मद्विधानाम अपरेषां च राजन [राजा] चत्वारॊ वा गर्दभास तवां वहन्तु; शरेष्ठाश्वतर्यॊ हरयॊ वा तुरंगाः तैस तवं याहि कषत्रियस्यैष वाहॊ; मम वाम्यौ न तवैतौ हि विद्धि [वाम] घॊरं वरतं बराह्मणस्यैतद आहुर; एतद राजन यद इहाजीवमानः अयस्मया घॊररूपा महान्तॊ; वहन्तु तवां शितशूलाश चतुर्धा [राजा] ये तवा विदुर बराह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा ते तवां सशिष्यम इह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासि हस्ताः [वाम] नानुयॊगा बराह्मणानां भवन्ति; वाचा राजन मनसा कर्मणा वा यस तव एवं बरह्म तपसान्वेति; विद्वांस तेन शरेष्ठॊ भवति हि जीवमानः [मार्क] एवम उक्ते वामदेवेन राजन; समुत्तस्थू राक्षसा घॊररूपाः तैः शूलहस्तैर वध्यमानः स राजा; परॊवाचेदं वाक्यम उच्चैस तदानीम इक्ष्वाकवॊ यदि बरह्मन दलॊ वा; विधेया मे यदि वान्ये विशॊ ऽपि नॊत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति एवं बरुवन्न एव स यातुधानैर; हतॊ जगामाशु महीं कषितीशः ततॊ विदित्वा नृपतिं निपातितम; इक्ष्वाकवॊ वै दलम अभ्यषिञ्चन राज्ये तदा तत्र गत्वा स विप्रः; परॊवाचेदं वचनं वामदेवः दलं राजानं बराह्मणानां हि देयम; एवं राजन सर्वधर्मेषु दृष्टम बिभेषि चेत तवम अधर्मान नरेन्द्र; परयच्छ मे शीघ्रम एवाद्य वाम्यौ एतच छरुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतम उवाच रॊषात एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम येन विद्धॊ वामदेवः शयीत; संदश्यमानः शवभिर आर्तरूपः [वाम] जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां शयेनजितं नरेन्द्र तं जहि तवं मद्वचनात परणुन्नस; तूर्णं परियं सायकैर घॊररूपैः [मार्क] एवम उक्तॊ वामदेवेन राजन्न; अन्तःपुरे राजपुत्रं जघान स सायकस तिग्मतेजा विसृष्टः; शरुत्वा दलस तच च वाक्यं बभाषे इक्ष्वाकवॊ हन्त चरामि वः परियं; निहन्मीमं विप्रम अद्य परमथ्य आनीयताम अपरस तिग्मतेजाः; पश्यध्वं मे वीर्यम अद्य कषितीशाः [वाम] यं तवम एनं सायकं घॊररूपं; विषेण दिग्धं मम संदधासि न तवम एनं शरवर्यं विमॊक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र [राजा] इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नॊम्य एष शरं विमॊक्तुम न चास्य कर्तुं नाशम अभ्युत्सहामि; आयुष्मान वै जीवतु वामदेवः [वाम] संस्पृशैनां महिषीं सायकेन; ततस तस्माद एनसॊ मॊक्ष्यसे तवम [मार्क] ततस तथा कृतवान पार्थिवस तु; ततॊ मुनिं राजपुत्री बभाषे यथा युक्तं वामदेवाहम एनं; दिने दिने संविशन्ती वयशंसम बराह्मणेभ्यॊ मृगयन्ती सूनृतानि; तथा बरह्मन पुण्यलॊकं लभेयम [वाम] तवया तरातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते परशाधीमं सवजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच चाप्य अनिन्द्ये [राजपुत्री] वरं वृणे भगवन्न एकम एव; विमुच्यतां किल्बिषाद अद्य भर्ता शिवेन चाध्याहि सपुत्रबान्धवं; वरॊ वृतॊ हय एष मया दविजाग्र्य [मार्क] शरुत्वा वचॊ स मुनी राजपुत्र्यास; तथास्त्व इति पराह कुरुप्रवीर ततः स राजा मुदितॊ बभूव; वाम्यौ चास्मै संप्रददौ परणम्य |
[vai] bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam athācaṣṭa mārkaṇḍeyaḥ ayodhyāyām ikṣuvāku kulotpannaḥ pārthivaḥ parikṣin nāma mṛgayām agamat tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat tac ca viveśa tatas tasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśvaiva vyagāhata athāśvastaḥ sa bisa mṛṇālam aśvasyāgre nikṣipya puṣkariṇī tīre samāviśat tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot sa śrutvā acintayat neha manuṣyagatiṃ paśyāmi kasya khalv ayaṃ gītaśabdeti athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca atha sā rājñaḥ samīpe paryakrāmat tām abravīd rājā kasyāsi subhage tvam iti sā pratyuvāca tāṃ rājovāca arthī tvayāham iti athovāca kanyā samayenāhaṃ śakyā tvayā labdhum nānyatheti tāṃ rājā samayam apṛcchat tataḥ kanyedam uvāca udakaṃ me na darśayitavyam iti sa rājā bāḍham ity uktvā tāṃ samāgamya tayā sahāste tatraivāsīne rājani senānvagacchat padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā svanagaram anuprāpya rahasi tayā saha ramann āste nānyat kiṃ canāpaśyat atha pradhānāmātyas tasyābhyāśa carāḥ striyo 'pṛcchat kim atra prayojanaṃ vartateti athābruvaṃs tāḥ striyaḥ apūrvam iva paśyāmodakaṃ nātra nīyateti athāmātyo 'nudakaṃ vanaṃ kārayitvodāra vṛkṣaṃ bahumūlapuṣpaphalaṃ rahasy upagamya rājānam abravīt vanam idam udāram anudakam sādhv atra ramyatām iti sa tasya vacanāt tayaiva sahadevyā tad vanaṃ prāviśat sa kadā cit tasmin vane ramye tayaiva saha vyavaharat atha kṣut tṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat tata praviśya rājā saha priyayā sudhā talasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat dṛṣṭvaiva ca tāṃ tasyaiva tīre sahaiva tayā devyā vyatiṣṭhat atha tāṃ devīṃ sa rājābravīt sādhuv avatara vāpī salilam iti sā tad vaco śrutvāvatīrya vāpīṃ nyamajjat na punar udamajjat tāṃ mṛgayamāṇo rājā nāpaśyat vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddhājñāpayām āsa sarvamaṇḍūka vadhaḥ kriyatām iti yo mayārthī sa mṛtakari maṇḍūkair upāyanair mām upatiṣṭhed iti atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan tato maṇḍūkarāṭ tāpasa veṣadhārī rājānam abhyagacchat upetya cainam uvāca mā rājan krodhavaśaṃ gamaḥ prasādaṃ kuru nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti ślokau cātra bhavataḥ mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhāryayācyuta prakṣīyate dhanodreko janānām avijānatām pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te tam evaṃ vādinam iṣṭajanaśokaparītātmā rājā provāca na hi kṣamyate tan mayā haniṣyāmy etān etair durātmabhiḥ priyā me bhakṣitā sarvathaiva me vadhyā maṇḍūkāḥ nārhasi vidvan mām uparoddhum iti sa tad vākyam upalabhya vyathitendriya manaḥ provāca prasīda rājan aham āyur nāma maṇḍūkarājaḥ mama sā duhitā suśobhanā nāma tasyā dauḥśīlyam etat bahavo hi rājānas tayā vipralabdha pūrveti tam abravīd rājā tayāsmy arthī sa me dīyatām iti athaināṃ rājñe pitādāt abravīc cainām enaṃ rājānaṃ śuśrūṣasveti sovāca duhitaram yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anṛtakatvāt taveti sa ca rājā tām upalabhya tasyāṃ surata guṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vāca praṇipatyābhipūjya maṇḍūkarājānam abravīt anugṛhīto 'smīti sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat atha kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabhūvuḥ śalo dalo balaś ceti tatas teṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma atha kadā cic chilo mṛgayām acarat mṛgaṃ cāsādya rathenānvadhāvat sūtaṃ covāca śīghraṃ māṃ vahasveti sa tathoktaḥ sūto rājānam abravīt mā kriyatām anubandhaḥ naiṣa śakyas tvayā mṛgo grahītuṃ yady api te rathe yuktau vāmya syātām iti tato 'bravīd rājā sūtam ācakṣva me vāmya hanmi vā tvām iti saivam ukto rājabhayabhīto vāmadeva śāpabhītaś ca sann ācakhyau rājñe vāmadevasyāśvau vāmya manojavāv iti athainam evaṃ bruvāṇam abravīd rājā vāmadevāśramaṃ yāhīti sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt bhagavan mṛgo mayā viddhaḥ pālayate taṃ saṃbhāvayeyam arhasi me vāmya dātum iti tam abravīd ṛṣiḥ dadāni te vāmya kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti sa ca tāv aśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmya saṃyuktena rathena mṛgaṃ prati gacchaṃś cābravīt sūtam aśvaratnāv imāv ayogyau brāhmaṇānām naitau pratideyau vāmadevāyeti evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat atharṣiś cintayām āsa taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate na me pratiniryātayati aho kaṣṭam iti manasā niścitya māsi pūrṇe śiṣyam abravīt gacchātreya rājānaṃ brūhi yadi paryāptaṃ niryātayopādhyāya vāmyeti sa gatvaivaṃ taṃ rājānam abravīt taṃ rājā pratyuvāca rājñām etad vāhanam anarhā brāhmaṇā ratnānām evaṃvidhānām kiṃ ca brāhmaṇānām aśvaiḥ kāryam sādhu pratigamyatām iti sa gatvaivam upādhyāyāyācaṣṭa tac chrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat na cādād rājā [vāma] prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ [rājā] anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti [vāma] chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan [rājā] catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi [vāma] ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā [rājā] ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsi hastāḥ [vāma] nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā yas tv evaṃ brahma tapasānveti; vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ [mārk] evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ [vāma] jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ [mārk] evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ [vāma] yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra [rājā] ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ [vāma] saṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam [mārk] tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam [vāma] tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye [rājaputrī] varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya [mārk] śrutvā vaco sa munī rājaputryās; tathāstv iti prāha kurupravīra tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya |