|
[मार्क] अथ भार्यासहायः स फलान्य आदाय वीर्यवान कठिनं पूरयाम आस ततः काष्ठान्य अपाटयत तस्य पाटयतः काष्ठं सवेदॊ वै समजायत वयायामेन च तेनास्य जज्ञे शिरसि वेदना सॊ ऽभिगम्य परियां भार्याम उवाच शरमपीडितः वयायमेन ममानेन जाता शिरसि वेदना अङ्गानि चैव सावित्रि हृदयं दूयतीव च अस्वस्थम इव चात्मानं लक्षये मित भाषिणि शूलैर इव शिरॊ विद्धम इदं संलक्षयाम्य अहम तत सवप्तुम इच्छे कल्याणि न सथातुं शक्तिर अस्ति मे समासाद्याथ सावित्री भर्तारम उपगूह्य च उत्सङ्गे ऽसय शिरॊ कृत्वा निषसाद महीतले ततः सा नारद वचॊ विमृशन्ती तपस्विनी तं मुहूर्तं कषणं वेलां दिवसं च युयॊज ह मुहूर्ताद इव चापश्यत पुरुषं पीतवाससम बद्धमौलिं वपुष्मन्तम आदित्यसमतेजसम शयामावदातं रक्ताक्षं पाशहस्तं भयावहम सथितं सत्यवतः पार्श्वे निरीक्षन्तं तम एव च तं दृष्ट्वा सहसॊत्थाय भर्तुर नयस्य शनैः शिरः कृताञ्जलिर उवाचार्ता हृदयेन अप्रवेपता दैवतं तवाभिजानामि वपुर एतद धयमानुषम कामया बरूहि मे देवकस तवं किं च चिकीर्षसि [यम] पतिव्रतासि सावित्रि तथैव च तपॊऽनविता अतस तवाम अभिभाषामि विद्धि मां तवं शुभे यमम अयं ते सत्यवान भर्ता कषीणायुः पार्थिवात्मजः नेष्याम्य एनम अहं बद्ध्वा विद्ध्य एतन मे चिकीर्षितम [मार्क] इत्य उक्त्वा पितृराजस तां भगवान सवं चिकीर्षितम यथावत सर्वम आख्यातुं तत्प्रियार्थं परचक्रमे अयं हि धर्मसंयुक्तॊ रूपवान गुणसागरः नार्हॊ मत पुरुषैर नेतुम अतॊ ऽसमि सवयम आगतः ततः सत्यवतः कायात पाशबद्धं वशंगतम अङ्गुष्ठ मात्रं पुरुषं निश्चकर्ष यमॊ बलात ततः समुद्धृतप्राणं गतश्वासं हतप्रभम निर्विचेष्टं शरीरं तद बभूवाप्रियदर्शनम यमस तु तं तथा बद्ध्वा परयातॊ दक्षिणामुखः सावित्री चापि दुःखार्ता यमम एवान्वगच्छत नियमव्रतसंसिद्धा महाभागा पतिव्रता [यम] निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम कृतं भर्तुस तवयानृण्यं यावद गम्यं गतं तवया [सावित्री] यत्र मे नीयते भर्ता सवयं वा यत्र गच्छति मयापि तत्र गन्तव्यम एष धर्मः सनातनः तपसा गुरुवृत्त्या च भर्तुः सनेहाद वरतेन च तव चैव परसादेन न मे परतिहता गतिः पराहुः सप्त पदं मित्रं बुधास तत्त्वार्थ दर्शिनः मित्रतां च पुरस्कृत्य किं चिद वक्ष्यामि तच छृणु नानात्मवन्तस तु वनेचरन्ति; धर्मं च वासं च परिश्रमं च विज्ञानतॊ धर्मम उदाहरन्ति; तस्मात सन्तॊ धर्मम आहुः परधानम एकस्य धर्मेण सतां मतेन; सर्वे सम तं मार्गम अनुप्रपन्नाः मा वै दवितीयं मा तृतीयं च वाञ्छे; तस्मात सन्तॊ धर्मम आहुः परधानम [यम] निवर्त तुष्टॊ ऽसमि तवानया गिरा; सवराक्षर वयञ्जन हेतुयुक्तया वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वम अनिन्दिते वरम [सावित्री] चयुतः सवराज्याद वनवासम आश्रितॊ; विनष्ट चक्षुः शवषुरॊ ममाश्रमे स लब्धचक्षुर बलवान भवेन नृपस; तव परसादाज जवलनार्कसंनिभः [यम] ददानि ते सर्वम अनिन्दिते वरं; यथा तवयॊक्तं भविता च तत तथा तवाध्वना गलानिम इवॊपलक्षये; निवर्त गच्छस्व न ते शरमॊ भवेत [सावित्री] कुतः शरमॊ भर्तृसमीपतॊ हि मे; यतॊ हि भर्ता मम सा गतिर धरुवा यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयॊ च वचॊ निबॊध मे सतां सकृत संगतम ईप्सितं परं; ततः परं मित्रम इति परचक्षते न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत समागमे [यम] मनॊ ऽनुकूलं बुध बुद्धिवर्धनं; तवयाहम उक्तॊ वचनं हिताश्रयम विना पुनः सत्यवतॊ ऽसय जीवितं; वरं दवितीयं वरयस्व भामिनि [सावित्री] हृतं पुरा मे शवशुरस्य धीमतः; सवम एव राज्यं स लभेत पार्थिवः जह्यात सवधर्मं न च मे गुरुर; यथा दवितीयम एतं वरयामि ते वरम [यम] सवम एव राज्यं परतिपत्स्यते ऽचिरान; न च सवधर्मात परिहास्यते नृपः कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते शरमॊ भवेत [सावित्री] परजास तवयेमा नियमेन संयता; नियम्य चैता नयसे न कामया अतॊ यमत्वं तव देव विश्रुतं; निबॊध चेमां गिरम ईरितां मया अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा अनुग्रहश च दानं च सतां धर्मः सनातनः एवं परायॊ च लॊकॊ ऽयं मनुष्याः शक्तिपेशलाः सन्तस तव एवाप्य अमित्रेषु दयां पराप्तेषु कुर्वते [यम] पिपासितस्येव यथा भवेत पयस; तथा तवया वाक्यम इदं समीरितम विना पुनः सत्यवतॊ ऽसय जीवितं; वरं वृणीष्वेह शुभे यद इच्छसि [सावित्री] ममानपत्यः पृथिवीपतिः पिता; भवेत पितुः पुत्रशतं ममौरसम कुलस्य संतानकरं च यद भवेत; तृतीयम एतं वरयामि ते वरम [यम] कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुर अस्तु ते शुभे कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस तवम आगता [सावित्री] न दूरम एतन मम भर्तृसंनिधौ; मनॊ हि मे दूरतरं परधावति तथा वरजन्न एव गिरं समुद्यतां; मयॊच्यमानां शृणु भूय एव च विवस्वतस तवं तनयः परतापवांस; ततॊ हि वैवस्वत उच्यसे बुधैः शमेन धर्मेण च रञ्जिताः परजास; ततस तवेहेश्वर धर्मराजता आत्मन्य अपि न विश्वासस तावान भवति सत्सु यः तस्मात सत्सु विशेषेण सर्वः परणयम इच्छति सौहृदात सर्वभूतानां विश्वासॊ नाम जायते तस्मात सत्सु विशेषेण विश्वासं कुरुते जनः [यम] उदहृतं ते वचनं यद अङ्गने; शुभे न तादृक तवदृते मया शरुतम अनेन तुष्टॊ ऽसमि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च [सावित्री] ममात्मजं सत्यवतस तथौरसं; भवेद उभाभ्याम इह यत कुलॊद्वहम शतं सुतानां बलवीर्यशालिनाम; इदं चतुर्थं वरयामि ते वरम [यम] शतं सुतानां बलवीर्यशालिनां; भविष्यति परीतिकरं तवाबले परिश्रमस ते न भवेन नृपात्मजे; निवर्त दूरं हि पथस तवम आगता [सावित्री] सतां सदा शाश्वती धर्मवृत्तिः; सन्तॊ न सीदन्ति न च वयथन्ति सतां सद्भिर नाफलः संगमॊ ऽसति; सद भयॊ भयं नानुवर्तन्ति सन्तः सन्तॊ हि सत्येन नयन्ति सूर्यं; सन्तॊ भूमिं तपसा धारयन्ति सन्तॊ गतिर भूतभव्यस्य राजन; सतां मध्ये नावसीदन्ति सन्तः आर्य जुष्टम इदं वृत्तम इति विज्ञाय शाश्वतम सन्तः परार्थं कुर्वाणा नावेक्षन्ते परतिक्रियाम न च परसादः सत्पुरुषेषु मॊघॊ; न चाप्य अर्थॊ नश्यति नापि मानः यस्माद एतन नियतं सत्सु नित्यं; तस्मात सन्तॊ रक्षितारॊ भवन्ति [यम] यथा यथा भाषसि धर्मसंहितं; मनॊ ऽनुकूलं सुपदं महार्थवत तथा तथा मे तवयि भक्तिर उत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते [सावित्री] न ते ऽपवर्गः सुकृताद विनाकृतस; तथा यथान्येषु वरेषु मानद वरं वृणे जीवतु सत्यवान अयं; यथा मृता हय एवम अहं विना पतिम न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम न कामये भर्तृविनाकृता शरियं; न भर्तृहीना वयवसामि जीवितुम वरातिसर्गः शतपुत्रता मम; तवयैव दत्तॊ हरियते च मे पतिः वरं वृणे जीवतु सत्यवान अयं; तवैव सत्यं वचनं भविष्यति [मार्क] तथेत्य उक्त्वा तु तान पाशान मुक्त्वा वैवस्वतॊ यमः धर्मराजः परहृष्टात्मा सावित्रीम इदम अब्रवीत एष भद्रे मया मुक्तॊ भर्ता ते कुलनन्दिनि अरॊगस तव नेयश च सिद्धार्थश च भविष्यति चतुर्वर्ष शतं चायुस तवया सार्धम अवाप्स्यति इष्ट्वा यज्ञैश च धर्मेण खयातिं लॊके गमिष्यति तवयि पुत्रशतं चैव सत्यवाञ जनयिष्यति ते चापि सर्वे राजानः कषत्रियाः पुत्रपौत्रिणः खयातास तवन नामधेयाश च भविष्यन्तीह शाश्वताः पितुश च ते पुत्रशतं भविता तव मातरि मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः भरातरस ते भविष्यन्ति कषत्रियास तरिदशॊपमाः एवं तस्यै वरं दत्त्वा धर्मराजः परतापवान निवर्तयित्वा सावित्रीं सवम एव भवनं ययौ सावित्र्य अपि यमे याते भर्तारं परतिलभ्य च जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम सा भूमौ परेक्ष्य भर्तारम उपसृत्यॊपगूह्य च उत्सङ्गे शिर आरॊप्य भूमाव उपविवेश ह संज्ञां च सत्यवाँल लब्ध्वा सावित्रीम अभ्यभाषत परॊष्यागत इव परेम्णा पुनः पुनर उदीक्ष्य वै [सत्यवान] सुचिरं बत सुप्तॊ ऽसमि किमर्थं नावबॊधितः कव चासौ पुरुषः शयामॊ यॊ ऽसौ मां संचकर्ष ह [सावित्री] सुचिरं बत सुप्तॊ ऽसि ममाङ्के पुरुषर्षभ गतः स भगवान देवः परजा संयमनॊ यमः विश्रान्तॊ ऽसि महाभाग विनिद्रश च नृपात्मज यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम [मार्क] उपलभ्य ततः संज्ञां सुखसुप्त इवॊत्थितः दिशः सर्वा वनान्तांश च निरीक्ष्यॊवाच सत्यवान फलाहारॊ ऽसमि निष्क्रान्तस तवया सह सुमध्यमे ततः पाटयतः काष्ठं शिरसॊ मे रुजाभवत शिरॊ ऽभिताप संतप्तः सथातुं चिरम अशक्नुवन तवॊत्सङ्गे परसुप्तॊ ऽहम इति सर्वं समरे शुभे तवयॊपगूढस्य च मे निद्रयापहृतं मनः ततॊ ऽपश्यं तमॊ घॊरं पुरुषं च महौजसम तद यदि तवं विजानासि किं तद बरूहि सुमध्यमे सवप्नॊ मे यदि वा दृष्टॊ यदि वा सत्यम एव तत तम उवाचाथ सावित्री रजनी वयवगाहते शवस्ते सर्वं यथावृत्तम आख्यास्यामि नृपात्मज उत्थिष्ठॊत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत विगाढा रजनी चेयं निवृत्तश च दिवाकरः नक्तंचराश चरन्त्य एते हृष्टाः करूराभिभाषिणः शरूयन्ते पर्णशब्दाश च मृगाणां चरतां वने एताः शिवा घॊरनादा दिशं दक्षिणपश्चिमाम आस्थाय विरुवन्त्य उग्राः कम्पयन्त्यॊ मनॊ मम [सत्यवान] वनं परतिभयाकारं घनेन तमसा वृतम न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि [साविती] अस्मिन्न अद्य वने दग्धे शुष्कवृक्षः सथितॊ जवलन वायुना धम्यमानॊ ऽगनिर दृश्यते ऽतर कव चित कव चित ततॊ ऽगनिम आनयित्वेह जवालयिष्यामि सर्वतः काष्ठानीमानि सन्तीह जहि संतापम आत्मनः यदि नॊत्सहसे गन्तुं सरुजं तवाभिलक्षये न च जञास्यसि पन्थानं तमसा संवृते वने शवःप्रभाते वने दृश्ये यास्यावॊ ऽनुमते तव वसावेह कषपाम एतां रुचितं यदि ते ऽनघ [सत्यवान] शिरॊ रुजा निवृत्ता मे सवस्थान्य अङ्गानि लक्षये माता पितृभ्याम इच्छामि संगमं तवत्प्रसादजम न कदा चिद विकाले हि गतपूर्वॊ मयाश्रमः अनागतायां संध्यायां माता मे पररुणद्धि माम दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम विचिनॊति च मां तातः सहैवाश्रमवासिभिः मात्रा पित्रा च सुभृशं दुःखिताभ्याम अहं पुरा उपालब्धः सुबहुशश चिरेणागच्छसीति ह का तव अवस्था तयॊर अद्य मदर्थम इति चिन्तये तयॊर अदृश्ये मयि च महद दुःखं भविष्यति पुरा माम ऊचतुश चैव रात्राव अस्रायमाणकौ भृशं सुदुःखितौ वृद्धौ बहुशः परीतिसंयुतौ तवया हीनौ न जीवाव मुहूर्तम अपि पुत्रक यावद धरिष्यसे पुत्र तावन नौ जीवितं धरुवम वृद्धयॊर अन्धयॊर यष्टिस तवयि वंशः परतिष्ठितः तवयि पिण्डश च कीर्तिश च संतानं चावयॊर इति माता वृद्धा पिता वृद्धस तयॊर यष्टिर अहं किल तौ रात्रौ माम अपश्यन्तौ काम अवस्थां गमिष्यतः निद्रायाश चाभ्यसूयामि यस्या हेतॊः पिता मम माता च संशयं पराप्ता मत्कृते ऽनपकारिणी अहं च संशयं पराप्तः कृच्छ्राम आपदम आस्थितः माता पितृभ्यां हि विना नाहं जीवितुम उत्सहे वयक्तम आकुलया बुद्ध्या परज्ञा चक्षुः पिता मम एकैकम अस्यां वेलायां पृच्छत्य आश्रमवासिनम नात्मानम अनुशॊचामि यथाहं पितरं शुभे भर्तारं चाप्य अनुगतां मातरं परिदुर्बलाम मत्कृतेन हि ताव अद्य संतापं परम एष्यतः जीवन्ताव अनुजीवामि भर्तव्यौ तौ मयेति ह तयॊः परियं मे कर्तव्यम इति जीवामि चाप्य अहम [मार्क] एवम उक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः उच्छ्रित्य बाहू दुःखार्तः सस्वरं पररुरॊद ह ततॊ ऽबरवीत तथा दृष्ट्वा भर्तारं शॊककर्शितम परमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी यदि मे ऽसति तपस तप्तं यदि दत्तं हुतं यदि शवश्रू शवशुर भर्तॄणां मम पुण्यास तु शर्वरी न समराम्य उक्तपूर्वां वै सवैरेष्व अप्य अनृतां गिरम तेन सत्येन ताव अद्य धरियेतां शवशुरौ मम [सत्यवान] कामये दर्शनं पित्रॊर याहि सावित्रि माचिरम पुरा मातुः पितुर वापि यदि पश्यामि विप्रियम न जीविष्ये वरारॊहे सत्येनात्मानम आलभे यदि धर्मे च ते बुद्धिर मां चेज जीवन्तम इच्छसि मम परियं वा कर्तव्यं गच्छस्वाश्रमम अन्तिकात [मार्क] सावित्री तत उत्थाय केशान संयम्य भामिनी पतिम उत्थापयाम आस बाहुभ्यां परिगृह्य वै उत्थाय सत्यवांश चापि परमृज्याङ्गानि पाणिना दिशः सर्वाः समालॊक्य कठिने दृष्टिम आदधे तम उवाचाथ सावित्री शवः फलानीह नेष्यसि यॊगक्षेमार्थम एतत ते नेष्यामि परशुं तव अहम कृत्वा कठिन भारं सा वृक्षशाखावलम्बिनम गृहीत्वा परशुं भर्तुः सकाशं पुनर आगमत वामे सकन्धे तु वामॊरुर भर्तुर बाहुं निवेश्य सा दक्षिणेन परिष्वज्य जगाम मृदु गामिनी [सत्यवान] अभ्यासगमनाद भीरु पन्थानॊ विदिता मम वृक्षान्तरालॊकितया जयॊत्स्नया चापि लक्षये आगतौ सवः पथा येन फलान्य अवचितानि च यथागतं शुभे गच्छ पन्थानं मा विचारय पलाशषण्डे चैतस्मिन पन्था वयावर्तते दविधा तस्यॊत्तरेण यः पन्थास तेन गच्छ तवरस्व च सवस्थॊ ऽसमि बलवान अस्मि दिदृक्षुः पितराव उभौ [मार्क] बरुवन्न एवं तवरायुक्तः स परायाद आश्रमं परति |
[mārk] atha bhāryāsahāyaḥ sa phalāny ādāya vīryavān kaṭhinaṃ pūrayām āsa tataḥ kāṣṭhāny apāṭayat tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata vyāyāmena ca tenāsya jajñe śirasi vedanā so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ vyāyamena mamānena jātā śirasi vedanā aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca asvastham iva cātmānaṃ lakṣaye mita bhāṣiṇi śūlair iva śiro viddham idaṃ saṃlakṣayāmy aham tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me samāsādyātha sāvitrī bhartāram upagūhya ca utsaṅge 'sya śiro kṛtvā niṣasāda mahītale tataḥ sā nārada vaco vimṛśantī tapasvinī taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam baddhamauliṃ vapuṣmantam ādityasamatejasam śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ kṛtāñjalir uvācārtā hṛdayen apravepatā daivataṃ tvābhijānāmi vapur etad dhyamānuṣam kāmayā brūhi me devakas tvaṃ kiṃ ca cikīrṣasi [yama] pativratāsi sāvitri tathaiva ca tapo'nvitā atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ neṣyāmy enam ahaṃ baddhvā viddhy etan me cikīrṣitam [mārk] ity uktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ nārho mat puruṣair netum ato 'smi svayam āgataḥ tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃgatam aṅguṣṭha mātraṃ puruṣaṃ niścakarṣa yamo balāt tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam yamas tu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ sāvitrī cāpi duḥkhārtā yamam evānvagacchata niyamavratasaṃsiddhā mahābhāgā pativratā [yama] nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā [sāvitrī] yatra me nīyate bhartā svayaṃ vā yatra gacchati mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ tapasā guruvṛttyā ca bhartuḥ snehād vratena ca tava caiva prasādena na me pratihatā gatiḥ prāhuḥ sapta padaṃ mitraṃ budhās tattvārtha darśinaḥ mitratāṃ ca puraskṛtya kiṃ cid vakṣyāmi tac chṛṇu nānātmavantas tu vanecaranti; dharmaṃ ca vāsaṃ ca pariśramaṃ ca vijñānato dharmam udāharanti; tasmāt santo dharmam āhuḥ pradhānam ekasya dharmeṇa satāṃ matena; sarve sma taṃ mārgam anuprapannāḥ mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche; tasmāt santo dharmam āhuḥ pradhānam [yama] nivarta tuṣṭo 'smi tavānayā girā; svarākṣara vyañjana hetuyuktayā varaṃ vṛṇīṣveha vināsya jīvitaṃ; dadāni te sarvam anindite varam [sāvitrī] cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭa cakṣuḥ śvaṣuro mamāśrame sa labdhacakṣur balavān bhaven nṛpas; tava prasādāj jvalanārkasaṃnibhaḥ [yama] dadāni te sarvam anindite varaṃ; yathā tvayoktaṃ bhavitā ca tat tathā tavādhvanā glānim ivopalakṣaye; nivarta gacchasva na te śramo bhavet [sāvitrī] kutaḥ śramo bhartṛsamīpato hi me; yato hi bhartā mama sā gatir dhruvā yataḥ patiṃ neṣyasi tatra me gatiḥ; sureśa bhūyo ca vaco nibodha me satāṃ sakṛt saṃgatam īpsitaṃ paraṃ; tataḥ paraṃ mitram iti pracakṣate na cāphalaṃ satpuruṣeṇa saṃgataṃ; tataḥ satāṃ saṃnivaset samāgame [yama] mano 'nukūlaṃ budha buddhivardhanaṃ; tvayāham ukto vacanaṃ hitāśrayam vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ dvitīyaṃ varayasva bhāmini [sāvitrī] hṛtaṃ purā me śvaśurasya dhīmataḥ; svam eva rājyaṃ sa labheta pārthivaḥ jahyāt svadharmaṃ na ca me gurur; yathā dvitīyam etaṃ varayāmi te varam [yama] svam eva rājyaṃ pratipatsyate 'cirān; na ca svadharmāt parihāsyate nṛpaḥ kṛtena kāmena mayā nṛpātmaje; nivarta gacchasva na te śramo bhavet [sāvitrī] prajās tvayemā niyamena saṃyatā; niyamya caitā nayase na kāmayā ato yamatvaṃ tava deva viśrutaṃ; nibodha cemāṃ giram īritāṃ mayā adrohaḥ sarvabhūteṣu karmaṇā manasā girā anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ evaṃ prāyo ca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ santas tv evāpy amitreṣu dayāṃ prāpteṣu kurvate [yama] pipāsitasyeva yathā bhavet payas; tathā tvayā vākyam idaṃ samīritam vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ vṛṇīṣveha śubhe yad icchasi [sāvitrī] mamānapatyaḥ pṛthivīpatiḥ pitā; bhavet pituḥ putraśataṃ mamaurasam kulasya saṃtānakaraṃ ca yad bhavet; tṛtīyam etaṃ varayāmi te varam [yama] kulasya saṃtānakaraṃ suvarcasaṃ; śataṃ sutānāṃ pitur astu te śubhe kṛtena kāmena narādhipātmaje; nivarta dūraṃ hi pathas tvam āgatā [sāvitrī] na dūram etan mama bhartṛsaṃnidhau; mano hi me dūrataraṃ pradhāvati tathā vrajann eva giraṃ samudyatāṃ; mayocyamānāṃ śṛṇu bhūya eva ca vivasvatas tvaṃ tanayaḥ pratāpavāṃs; tato hi vaivasvata ucyase budhaiḥ śamena dharmeṇa ca rañjitāḥ prajās; tatas taveheśvara dharmarājatā ātmany api na viśvāsas tāvān bhavati satsu yaḥ tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ [yama] udahṛtaṃ te vacanaṃ yad aṅgane; śubhe na tādṛk tvadṛte mayā śrutam anena tuṣṭo 'smi vināsya jīvitaṃ; varaṃ caturthaṃ varayasva gaccha ca [sāvitrī] mamātmajaṃ satyavatas tathaurasaṃ; bhaved ubhābhyām iha yat kulodvaham śataṃ sutānāṃ balavīryaśālinām; idaṃ caturthaṃ varayāmi te varam [yama] śataṃ sutānāṃ balavīryaśālināṃ; bhaviṣyati prītikaraṃ tavābale pariśramas te na bhaven nṛpātmaje; nivarta dūraṃ hi pathas tvam āgatā [sāvitrī] satāṃ sadā śāśvatī dharmavṛttiḥ; santo na sīdanti na ca vyathanti satāṃ sadbhir nāphalaḥ saṃgamo 'sti; sad bhyo bhayaṃ nānuvartanti santaḥ santo hi satyena nayanti sūryaṃ; santo bhūmiṃ tapasā dhārayanti santo gatir bhūtabhavyasya rājan; satāṃ madhye nāvasīdanti santaḥ ārya juṣṭam idaṃ vṛttam iti vijñāya śāśvatam santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām na ca prasādaḥ satpuruṣeṣu mogho; na cāpy artho naśyati nāpi mānaḥ yasmād etan niyataṃ satsu nityaṃ; tasmāt santo rakṣitāro bhavanti [yama] yathā yathā bhāṣasi dharmasaṃhitaṃ; mano 'nukūlaṃ supadaṃ mahārthavat tathā tathā me tvayi bhaktir uttamā; varaṃ vṛṇīṣvāpratimaṃ yatavrate [sāvitrī] na te 'pavargaḥ sukṛtād vinākṛtas; tathā yathānyeṣu vareṣu mānada varaṃ vṛṇe jīvatu satyavān ayaṃ; yathā mṛtā hy evam ahaṃ vinā patim na kāmaye bhartṛvinākṛtā sukhaṃ; na kāmaye bhartṛvinākṛtā divam na kāmaye bhartṛvinākṛtā śriyaṃ; na bhartṛhīnā vyavasāmi jīvitum varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ varaṃ vṛṇe jīvatu satyavān ayaṃ; tavaiva satyaṃ vacanaṃ bhaviṣyati [mārk] tathety uktvā tu tān pāśān muktvā vaivasvato yamaḥ dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt eṣa bhadre mayā mukto bhartā te kulanandini arogas tava neyaś ca siddhārthaś ca bhaviṣyati caturvarṣa śataṃ cāyus tvayā sārdham avāpsyati iṣṭvā yajñaiś ca dharmeṇa khyātiṃ loke gamiṣyati tvayi putraśataṃ caiva satyavāñ janayiṣyati te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ khyātās tvan nāmadheyāś ca bhaviṣyantīha śāśvatāḥ pituś ca te putraśataṃ bhavitā tava mātari mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ bhrātaras te bhaviṣyanti kṣatriyās tridaśopamāḥ evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau sāvitry api yame yāte bhartāraṃ pratilabhya ca jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca utsaṅge śira āropya bhūmāv upaviveśa ha saṃjñāṃ ca satyavāṁl labdhvā sāvitrīm abhyabhāṣata proṣyāgata iva premṇā punaḥ punar udīkṣya vai [satyavān] suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha [sāvitrī] suciraṃ bata supto 'si mamāṅke puruṣarṣabha gataḥ sa bhagavān devaḥ prajā saṃyamano yamaḥ viśrānto 'si mahābhāga vinidraś ca nṛpātmaja yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm [mārk] upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat śiro 'bhitāpa saṃtaptaḥ sthātuṃ ciram aśaknuvan tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame svapno me yadi vā dṛṣṭo yadi vā satyam eva tat tam uvācātha sāvitrī rajanī vyavagāhate śvaste sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja utthiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ naktaṃcarāś caranty ete hṛṣṭāḥ krūrābhibhāṣiṇaḥ śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām āsthāya viruvanty ugrāḥ kampayantyo mano mama [satyavān] vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi [sāvitī] asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan vāyunā dhamyamāno 'gnir dṛśyate 'tra kva cit kva cit tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane śvaḥprabhāte vane dṛśye yāsyāvo 'numate tava vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha [satyavān] śiro rujā nivṛttā me svasthāny aṅgāni lakṣaye mātā pitṛbhyām icchāmi saṃgamaṃ tvatprasādajam na kadā cid vikāle hi gatapūrvo mayāśramaḥ anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām divāpi mayi niṣkrānte saṃtapyete gurū mama vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā upālabdhaḥ subahuśaś cireṇāgacchasīti ha kā tv avasthā tayor adya madartham iti cintaye tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati purā mām ūcatuś caiva rātrāv asrāyamāṇakau bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau tvayā hīnau na jīvāva muhūrtam api putraka yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ cāvayor iti mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ nidrāyāś cābhyasūyāmi yasyā hetoḥ pitā mama mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ mātā pitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe vyaktam ākulayā buddhyā prajñā cakṣuḥ pitā mama ekaikam asyāṃ velāyāṃ pṛcchaty āśramavāsinam nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe bhartāraṃ cāpy anugatāṃ mātaraṃ paridurbalām matkṛtena hi tāv adya saṃtāpaṃ param eṣyataḥ jīvantāv anujīvāmi bhartavyau tau mayeti ha tayoḥ priyaṃ me kartavyam iti jīvāmi cāpy aham [mārk] evam uktvā sa dharmātmā guruvartī gurupriyaḥ ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi śvaśrū śvaśura bhartṝṇāṃ mama puṇyās tu śarvarī na smarāmy uktapūrvāṃ vai svaireṣv apy anṛtāṃ giram tena satyena tāv adya dhriyetāṃ śvaśurau mama [satyavān] kāmaye darśanaṃ pitror yāhi sāvitri māciram purā mātuḥ pitur vāpi yadi paśyāmi vipriyam na jīviṣye varārohe satyenātmānam ālabhe yadi dharme ca te buddhir māṃ cej jīvantam icchasi mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt [mārk] sāvitrī tata utthāya keśān saṃyamya bhāminī patim utthāpayām āsa bāhubhyāṃ parigṛhya vai utthāya satyavāṃś cāpi pramṛjyāṅgāni pāṇinā diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi yogakṣemārtham etat te neṣyāmi paraśuṃ tv aham kṛtvā kaṭhina bhāraṃ sā vṛkṣaśākhāvalambinam gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat vāme skandhe tu vāmorur bhartur bāhuṃ niveśya sā dakṣiṇena pariṣvajya jagāma mṛdu gāminī [satyavān] abhyāsagamanād bhīru panthāno viditā mama vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye āgatau svaḥ pathā yena phalāny avacitāni ca yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā tasyottareṇa yaḥ panthās tena gaccha tvarasva ca svastho 'smi balavān asmi didṛkṣuḥ pitarāv ubhau [mārk] bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati |