|
[व] दवाःस्थं पराह महाप्राज्ञॊ धृतराष्ट्रॊ महीपतिः विदुरं दरष्टुम इच्छामि तम इहानय माचिरम परहितॊ धृतराष्ट्रेण दूतः कषत्तारम अब्रवीत ईश्वरस तवां महाराजॊ महाप्राज्ञ दिदृक्षति एवम उक्तस तु विदुरः पराप्य राजनिवेशनम अब्रवीद धृतराष्ट्राय दवाःस्थ मां परतिवेदय विदुरॊ ऽयम अनुप्राप्तॊ राजेन्द्र तव शासनात दरष्टुम इच्छति ते पादौ किं करॊतु परशाधि माम परवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम अहं हि विदुरस्यास्य नाकाल्यॊ जातु दर्शने परविशान्तः पुरं कषत्तर महाराजस्य धीमतः न हि ते दर्शने ऽकाल्यॊ जातु राजा बरवीति माम [व] ततः परविश्य विदुरॊ धृतराष्ट्र निवेशनम अब्रवीत पराञ्जलिर वाक्यं चिन्तयानं नराधिपम विदुरॊ ऽहं महाप्राज्ञ संप्राप्तस तव शासनात यदि किं चन कर्तव्यम अयम अस्मि परशाधि माम संजयॊ विदुर पराप्तॊ गर्हयित्वा च मां गतः अजातशत्रॊः शवॊ वाक्यं सभामध्ये स वक्ष्यति तस्याद्य कुरुवीरस्य न विज्ञातं वचॊ मया तन मे दहति गात्राणि तद अकार्षीत परजागरम जाग्रतॊ दह्यमानस्य शरेयॊ यद इह पश्यसि तद बरूहि तवं हि नस तात धर्मार्थकुशलॊ हय असि यतः पराप्तः संजयः पाण्डवेभ्यॊ; न मे यथावन मनसः परशान्तिः सवेन्द्रियाण्य अप्रकृतिं गतानि; किं वक्ष्यतीत्य एव हि मे ऽदय चिन्ता अभियुक्तं बलवता दुर्बलं हीनसाधनम हृतस्वं कामिनं चॊरम आविशन्ति परजागराः कच चिद एतैर महादॊषैर न सपृष्टॊ ऽसि नराधिप कच चिन न परवित्तेषु गृध्यन विपरितप्यसे शरॊतुम इच्छामि ते धर्म्यं परं नैःश्रेयसं वचः अस्मिन राजर्षिवंशे हि तवम एकः पराज्ञसंमतः निषेवते परशस्तानि निन्दितानि न सेवते अनास्तिकः शरद्दधान एतत पण्डित लक्षणम करॊधॊ हर्षश च दर्पश च हरीस्तम्भॊ मान्यमानिता यम अर्थान नापकर्षन्ति स वै पण्डित उच्यते यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे कृतम एवास्य जानन्ति स वै पण्डित उच्यते यस्य कृत्यं न विघ्नन्ति शीतम उष्णं भयं रतिः समृद्धिर असमृद्धिर वा स वै पण्डित उच्यते यस्य संसारिणी परज्ञा धर्मार्थाव अनुवर्तते कामाद अर्थं वृणीते यः स वै पण्डित उच्यते यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते न किं चिद अवमन्यन्ते पण्डिता भरतर्षभ कषिप्रं विजानाति चिरं शृणॊति; विज्ञाय चार्थं भजते न कामात नासंपृष्टॊ वयौपयुङ्क्ते परार्थे; तत परज्ञानं परथमं पण्डितस्य नाप्राप्यम अभिवाञ्छन्ति नष्टं नेच्छन्ति शॊचितुम आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः निश्चित्य यः परक्रमते नान्तर वसति कर्मणः अवन्ध्य कालॊ वश्यात्मा स वै पण्डित उच्यते आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ न हृष्यत्य आत्मसंमाने नावमानेन तप्यते गाङ्गॊ हरद इवाक्षॊभ्यॊ यः स पण्डित उच्यते तत्त्वज्ञः सर्वभूतानां यॊगज्ञः सर्वकर्मणाम उपायज्ञॊ मनुष्याणां नरः पण्डित उच्यते परवृत्त वाक चित्रकथ ऊहवान परतिभानवान आशु गरन्थस्य वक्ता च स वै पण्डित उच्यते शरुतं परज्ञानुगं यस्य परज्ञा चैव शरुतानुगा असंभिन्नार्य मर्यादः पण्डिताख्यां लभेत सः अश्रुतश च समुन्नद्धॊ दरिद्रश च महामनाः अर्थांश चाकर्मणा परेप्सुर मूढ इत्य उच्यते बुधैः सवम अर्थं यः परित्यज्य परार्थम अनुतिष्ठति मिथ्या चरति मित्रार्थे यश च मूढः स उच्यते अकामान कामयति यः कामयानान परिद्विषन बलवन्तं च यॊ दवेष्टि तम आहुर मूढचेतसम अमित्रं कुरुते मित्रं मित्रं दवेष्टि हिनस्ति च कर्म चारभते दुष्टं तम आहुर मूढचेतसम संसारयति कृत्यानि सर्वत्र विचिकित्सते चिरं करॊति कषिप्रार्थे स मूढॊ भरतर्षभ अनाहूतः परविशति अपृष्टॊ बहु भाषते विश्वसत्य अप्रमत्तेषु मूढ चेता नराधमः परं कषिपति दॊषेण वर्तमानः सवयं तथा यश च करुध्यत्य अनीशः सन स च मूढतमॊ नरः आत्मनॊ बलम आज्ञाय धर्मार्थपरिवर्जितम अलभ्यम इच्छन नैष्कर्म्यान मूढ बुद्धिर इहॊच्यते अशिष्यं शास्ति यॊ राजन्यश च शून्यम उपासते कदर्यं भजते यश च तम आहुर मूढचेतसम अर्थं महान्तम आसाद्य विद्याम ऐश्वर्यम एव वा विचरत्य असमुन्नद्धॊ यः स पण्डित उच्यते एकः संपन्नम अश्नाति वस ते वासश च शॊभनम यॊ ऽसंविभज्य भृत्येभ्यः कॊ नृशंसतरस ततः एकः पापानि कुरुते फलं भुङ्क्ते महाजनः भॊक्तारॊ विप्रमुच्यन्ते कर्ता दॊषेण लिप्यते एकं हन्यान न वाहन्याद इषुर मुक्तॊ धनुष्मता बुद्धिर बुद्धिमतॊत्सृष्टा हन्याद राष्ट्रं सराजकम एकया दवे विनिश्चित्य तरींश चतुर्भिर वशे कुरु पञ्च जित्वा विदित्वा षट सप्त हित्वा सुखी भव एकं विषरसॊ हन्ति शस्त्रेणैकश च वध्यते सराष्ट्रं स परजं हन्ति राजानं मन्त्रविस्रवः एकः सवादु न भुञ्जीत एकश चार्थान न चिन्तयेत एकॊ न गच्छेद अध्वानं नैकः सुप्तेषु जागृयात एकम एवाद्वितीयं तद यद राजन नावबुध्यसे सत्यं सवर्गस्य सॊपानं पारावारस्य नौर इव एकः कषमावतां दॊषॊ दवितीयॊ नॊपलभ्यते यद एनं कषमया युक्तम अशक्तं मन्यते जनः एकॊ धर्मः परं शरेयः कषमैका शान्तिर उत्तमा विद्यैका परमा दृष्टिर अहिंसैका सुखावहा दवाव इमौ गरसते भूमिः सर्पॊ बिलशयान इव राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम दवे कर्मणी नरः कुर्वन्न अस्मिँल लॊके विरॊचते अब्रुवन परुषं किं चिद असतॊ नार्थयंस तथा दवाव इमौ पुरुषव्याघ्र परप्रत्यय कारिणौ सत्रियः कामित कामिन्यॊ लॊकः पूजित पूजकः दवाव इमौ कण्टकौ तीक्ष्णौ शरीरपरिशॊषणौ यश चाधनः कामयते यश च कुप्यत्य अनीश्वरः दवाव इमौ पुरुषौ राजन सवर्गस्य परि तिष्ठतः परभुश च कषमया युक्तॊ दरिद्रश च परदानवान नयायागतस्य दरव्यस्य बॊद्धव्यौ दवाव अतिक्रमौ अपात्रे परतिपत्तिश च पात्रे चाप्रतिपादनम तरयॊ नयाया मनुष्याणां शरूयन्ते भरतर्षभ कनीयान मध्यमः शरेष्ठ इति वेदविदॊ विदुः तरिविधाः पुरुषा राजन्न उत्तमाधममध्यमाः नियॊजयेद यथावत तांस तरिविधेष्व एव कर्मसु तरय एवाधना राजन भार्या दासस तथा सुतः यत ते समधिगच्छन्ति यस्य ते तस्य तद धनम चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्य आहुः पण्डितस तानि विद्यात अल्पप्रज्ञैः सह मन्त्रं न कुर्यान; न दीर्घसूत्रैर अलसैश चारणैश च चत्वारि ते तात गृहे वसन्तु; शरियाभिजुष्टस्य गृहस्थ धर्मे वृद्धॊ जञातिर अवसन्नः कुलीनः; सखा दरिद्रॊ भगिनी चानपत्या चत्वार्य आह महाराज सद्यस्कानि बृहस्पतिः पृच्छते तरिदशेन्द्राय तानीमानि निबॊध मे देवतानां च संकल्पम अनुभावं च धीमताम विनयं कृतविद्यानां विनाशं पापकर्मणाम पञ्चाग्नयॊ मनुष्येण परिचर्याः परयत्नतः पिता माताग्निर आत्मा च गुरुश च भरतर्षभ पञ्चैव पूजयँल लॊके यशः पराप्नॊति केवलम देवान पितॄन मनुष्यांश च भिक्षून अतिथिपञ्चमान पञ्च तवानुगमिष्यन्ति यत्र यत्र गमिष्यसि मित्राण्य अमित्रा मध्यस्था उपजीव्यॊपजीविनः पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद एकम इन्द्रियम ततॊ ऽसय सरवति परज्ञा दृतेः पादाद इवॊदकम षड दॊषाः पुरुषेणेह हातव्या भूतिम इच्छता निद्रा तन्द्री भयं करॊध आलस्यं दीर्घसूत्रता षड इमान पुरुषॊ जह्याद भिन्नां नावम इवार्णवे अप्रवक्तारम आचार्यम अनधीयानम ऋत्विजम अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम गरामकारं च गॊपालं वनकामं च नापितम षड एव तु गुणाः पुंसा न हातव्याः कदा चन सत्यं दानम अनालस्यम अनसूया कषमा धृतिः षण्णाम आत्मनि नित्यानाम ऐश्वर्यं यॊ ऽधिगच्छति न स पापैः कुतॊ ऽनर्थैर युज्यते विजितेन्द्रियः षड इमे षट्सु जीवन्ति सप्तमॊ नॊपलभ्यते चॊराः परमत्ते जीवन्ति वयाधितेषु चिकित्सकाः परमदाः कामयानेषु यजमानेषु याजकाः राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः सप्त दॊषाः सदा राज्ञा हातव्या वयसनॊदयाः परायशॊ यैर विनश्यन्ति कृतमूलाश च पार्थिवाः सत्रियॊ ऽकषा मृगया पानं वाक पारुष्यं च पञ्चमम महच च दण्डपारुष्यम अर्थदूषणम एव च अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः बराह्मणान परथमं दवेष्टि बराह्मणैश च विरुध्यते बराह्मण सवानि चादत्ते बराह्मणांश च जिघांसति रमते निन्दया चैषां परशंसां नाभिनन्दति नैतान समरति कृत्येषु याचितश चाभ्यसूयति एतान दॊषान नरः पराज्ञॊ बुद्ध्या बुद्ध्वा विवर्जयेत अष्टाव इमानि हर्षस्य नव नीतानि भारत वर्तमानानि दृश्यन्ते तान्य एव सुसुखान्य अपि समागमश च सखिभिर महांश चैव धनागमः पुत्रेण च परिष्वङ्गः संनिपातश च मैथुने समये च परियालापः सवयूथेषु च संनतिः अभिप्रेतस्य लाभश च पूजा च जनसंसदि नवद्वारम इदं वेश्म तरिस्थूणं पञ्च साक्षिकम कषेत्रज्ञाधिष्ठितं विद्वान यॊ वेद स परः कविः दश धर्मं न जानन्ति धृतराष्ट्र निबॊध तान मत्तः परमत्त उन्मत्तः शरान्तः करुद्धॊ बुभुक्षितः तवरमाणश च भीरुश च लुब्धः कामी च ते दश तस्माद एतेषु भावेषु न परसज्जेत पण्डितः अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम पुत्रार्थम असुरेन्द्रेण गीतं चैव सुधन्वना यः काममन्यू परजहाति राजा; पात्रे परतिष्ठापयते धनं च विशेषविच छरुतवान कषिप्रकारी; तं सर्वलॊकः कुरुते परमाणम जानाति विश्वासयितुं मनुष्यान; विज्ञात दॊषेषु दधाति दण्डम जानाति मात्रां च तथा कषमां च; तं तादृशं शरीर जुषते समग्रा सुदुर्बलं नावजानाति कं चिद; युक्तॊ रिपुं सेवते बुद्धिपूर्वम न विग्रहं रॊचयते बलस्थैः; काले च यॊ विक्रमते स धीरः पराप्यापदं न वयथते कदा चिद; उद्यॊगम अन्विच्छति चाप्रमत्तः दुःखं च काले सहते जितात्मा; धुरंधरस तस्य जिताः सपत्नाः अनर्थकं विप्र वासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम दम्भं सतैन्यं पैशुनं मद्य पानं; न सेवते यः स सुखी सदैव न संरम्भेणारभते ऽरथवर्गम; आकारितः शंसति तथ्यम एव न मात्रार्थे रॊचयते विवादं; नापूजितः कुप्यति चाप्य अमूढः न यॊ ऽभयसूयत्य अनुकम्पते च; न दुर्बलः परातिभाव्यं करॊति नात्याह किं चित कषमते विवादं; सर्वत्र तादृग लभते परशंसाम यॊ नॊद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थते ऽनयान न मूर्च्छितः कटुकान्य आह किं चित; परियं सदा तं कुरुते जनॊ ऽपि न वैरम उद्दीपयति परशान्तं; न दर्मम आरॊहति नास्तम एति न दुर्गतॊ ऽसमीति करॊति मन्युं; तम आर्य शीलं परम आहुर अग्र्यम न सवे सुखे वै कुरुते परहर्षं; नान्यस्य दुःखे भवति परतीतः दत्त्वा न पश्चात कुरुते ऽनुतापं; न कत्थते सत्पुरुषार्य शीलः देशाचारान समयाञ जातिधर्मान; बुभूषते यस तु परावरज्ञः स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करॊति दम्भं मॊहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम मत्तॊन्मत्तैर दुर्जनैश चापि वादं; यः परज्ञावान वर्जयेत स परधानः दमं शौचं दैवतं मङ्गलानि; परायश्चित्तं विविधाँल लॊकवादान एतानि यः कुरुते नैत्यकानि; तस्यॊत्थानं देवता राधयन्ति समैर विवाहं कुरुते न हीनैः; समैः सख्यं वयवहारं कथाश च गुणैर विशिष्टांश च पुरॊ दधाति; विपश्चितस तस्य नयाः सुनीताः मितं भुङ्क्ते संविभज्याश्रितेभ्यॊ; मितं सवपित्य अमितं कर्मकृत्वा ददात्य अमित्रेष्व अपि याचितः संस; तम आत्मवन्तं परजहात्य अनर्थाः चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किं चित मन्त्रे गुप्ते सम्यग अनुष्ठिते च; सवल्पॊ नास्य वयथते कश चिद अर्थः यः सर्वभूतप्रशमे निविष्टः; सत्यॊ मृदुर दानकृच छुद्ध भावः अतीव संज्ञायते जञातिमध्ये; महामणिर जात्य इव परसन्नः य आत्मनापत्रपते भृशं नरः; स सर्वलॊकस्य गुरुर भवत्य उत अनन्त तेजाः सुमनाः समाहितः; सवतेजसा सूर्य इवावभासते वने जाताः शापदग्धस्य राज्ञः; पाण्डॊः पुत्राः पञ्च पञ्चेन्द्र कल्पाः तवयैव बाला वर्धिताः शिक्षिताश च; तवादेशं पालयन्त्य आम्बिकेय परदायैषाम उचितं तात राज्यं; सुखी पुत्रैः सहितॊ मॊदमानः न देवानां नापि च मानुषाणां; भविष्यसि तवं तर्कणीयॊ नरेन्द्र |
[v] dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ viduraṃ draṣṭum icchāmi tam ihānaya māciram prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt īśvaras tvāṃ mahārājo mahāprājña didṛkṣati evam uktas tu viduraḥ prāpya rājaniveśanam abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya viduro 'yam anuprāpto rājendra tava śāsanāt draṣṭum icchati te pādau kiṃ karotu praśādhi mām praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam ahaṃ hi vidurasyāsya nākālyo jātu darśane praviśāntaḥ puraṃ kṣattar mahārājasya dhīmataḥ na hi te darśane 'kālyo jātu rājā bravīti mām [v] tataḥ praviśya viduro dhṛtarāṣṭra niveśanam abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam viduro 'haṃ mahāprājña saṃprāptas tava śāsanāt yadi kiṃ cana kartavyam ayam asmi praśādhi mām saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati tasyādya kuruvīrasya na vijñātaṃ vaco mayā tan me dahati gātrāṇi tad akārṣīt prajāgaram jāgrato dahyamānasya śreyo yad iha paśyasi tad brūhi tvaṃ hi nas tāta dharmārthakuśalo hy asi yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo; na me yathāvan manasaḥ praśāntiḥ savendriyāṇy aprakṛtiṃ gatāni; kiṃ vakṣyatīty eva hi me 'dya cintā abhiyuktaṃ balavatā durbalaṃ hīnasādhanam hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ kac cid etair mahādoṣair na spṛṣṭo 'si narādhipa kac cin na paravitteṣu gṛdhyan viparitapyase śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ niṣevate praśastāni ninditāni na sevate anāstikaḥ śraddadhāna etat paṇḍita lakṣaṇam krodho harṣaś ca darpaś ca hrīstambho mānyamānitā yam arthān nāpakarṣanti sa vai paṇḍita ucyate yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare kṛtam evāsya jānanti sa vai paṇḍita ucyate yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ samṛddhir asamṛddhir vā sa vai paṇḍita ucyate yasya saṃsāriṇī prajñā dharmārthāv anuvartate kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate yathāśakti cikīrṣanti yathāśakti ca kurvate na kiṃ cid avamanyante paṇḍitā bharatarṣabha kṣipraṃ vijānāti ciraṃ śṛṇoti; vijñāya cārthaṃ bhajate na kāmāt nāsaṃpṛṣṭo vyaupayuṅkte parārthe; tat prajñānaṃ prathamaṃ paṇḍitasya nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum āpatsu ca na muhyanti narāḥ paṇḍita buddhayaḥ niścitya yaḥ prakramate nāntar vasati karmaṇaḥ avandhya kālo vaśyātmā sa vai paṇḍita ucyate ārya karmaṇi rājyante bhūtikarmāṇi kurvate hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha na hṛṣyaty ātmasaṃmāne nāvamānena tapyate gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate pravṛtta vāk citrakatha ūhavān pratibhānavān āśu granthasya vaktā ca sa vai paṇḍita ucyate śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā asaṃbhinnārya maryādaḥ paṇḍitākhyāṃ labheta saḥ aśrutaś ca samunnaddho daridraś ca mahāmanāḥ arthāṃś cākarmaṇā prepsur mūḍha ity ucyate budhaiḥ svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati mithyā carati mitrārthe yaś ca mūḍhaḥ sa ucyate akāmān kāmayati yaḥ kāmayānān paridviṣan balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam saṃsārayati kṛtyāni sarvatra vicikitsate ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate viśvasaty apramatteṣu mūḍha cetā narādhamaḥ paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā yaś ca krudhyaty anīśaḥ san sa ca mūḍhatamo naraḥ ātmano balam ājñāya dharmārthaparivarjitam alabhyam icchan naiṣkarmyān mūḍha buddhir ihocyate aśiṣyaṃ śāsti yo rājanyaś ca śūnyam upāsate kadaryaṃ bhajate yaś ca tam āhur mūḍhacetasam arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā vicaraty asamunnaddho yaḥ sa paṇḍita ucyate ekaḥ saṃpannam aśnāti vas te vāsaś ca śobhanam yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ bhoktāro vipramucyante kartā doṣeṇa lipyate ekaṃ hanyān na vāhanyād iṣur mukto dhanuṣmatā buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam ekayā dve viniścitya trīṃś caturbhir vaśe kuru pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava ekaṃ viṣaraso hanti śastreṇaikaś ca vadhyate sarāṣṭraṃ sa prajaṃ hanti rājānaṃ mantravisravaḥ ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt ekam evādvitīyaṃ tad yad rājan nāvabudhyase satyaṃ svargasya sopānaṃ pārāvārasya naur iva ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā dvāv imau grasate bhūmiḥ sarpo bilaśayān iva rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam dve karmaṇī naraḥ kurvann asmiṁl loke virocate abruvan paruṣaṃ kiṃ cid asato nārthayaṃs tathā dvāv imau puruṣavyāghra parapratyaya kāriṇau striyaḥ kāmita kāminyo lokaḥ pūjita pūjakaḥ dvāv imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau yaś cādhanaḥ kāmayate yaś ca kupyaty anīśvaraḥ dvāv imau puruṣau rājan svargasya pari tiṣṭhataḥ prabhuś ca kṣamayā yukto daridraś ca pradānavān nyāyāgatasya dravyasya boddhavyau dvāv atikramau apātre pratipattiś ca pātre cāpratipādanam trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha kanīyān madhyamaḥ śreṣṭha iti vedavido viduḥ trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ niyojayed yathāvat tāṃs trividheṣv eva karmasu traya evādhanā rājan bhāryā dāsas tathā sutaḥ yat te samadhigacchanti yasya te tasya tad dhanam catvāri rājñā tu mahābalena; varjyāny āhuḥ paṇḍitas tāni vidyāt alpaprajñaiḥ saha mantraṃ na kuryān; na dīrghasūtrair alasaiś cāraṇaiś ca catvāri te tāta gṛhe vasantu; śriyābhijuṣṭasya gṛhastha dharme vṛddho jñātir avasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā catvāry āha mahārāja sadyaskāni bṛhaspatiḥ pṛcchate tridaśendrāya tānīmāni nibodha me devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ pitā mātāgnir ātmā ca guruś ca bharatarṣabha pañcaiva pūjayaṁl loke yaśaḥ prāpnoti kevalam devān pitṝn manuṣyāṃś ca bhikṣūn atithipañcamān pañca tvānugamiṣyanti yatra yatra gamiṣyasi mitrāṇy amitrā madhyasthā upajīvyopajīvinaḥ pañcendriyasya martyasya chidraṃ ced ekam indriyam tato 'sya sravati prajñā dṛteḥ pādād ivodakam ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave apravaktāram ācāryam anadhīyānam ṛtvijam arakṣitāraṃ rājānaṃ bhāryāṃ cāpriya vādinīm grāmakāraṃ ca gopālaṃ vanakāmaṃ ca nāpitam ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadā cana satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ prāyaśo yair vinaśyanti kṛtamūlāś ca pārthivāḥ striyo 'kṣā mṛgayā pānaṃ vāk pāruṣyaṃ ca pañcamam mahac ca daṇḍapāruṣyam arthadūṣaṇam eva ca aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiś ca virudhyate brāhmaṇa svāni cādatte brāhmaṇāṃś ca jighāṃsati ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati naitān smarati kṛtyeṣu yācitaś cābhyasūyati etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet aṣṭāv imāni harṣasya nava nītāni bhārata vartamānāni dṛśyante tāny eva susukhāny api samāgamaś ca sakhibhir mahāṃś caiva dhanāgamaḥ putreṇa ca pariṣvaṅgaḥ saṃnipātaś ca maithune samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ abhipretasya lābhaś ca pūjā ca janasaṃsadi navadvāram idaṃ veśma tristhūṇaṃ pañca sākṣikam kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ tvaramāṇaś ca bhīruś ca lubdhaḥ kāmī ca te daśa tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ atraivodāharantīmam itihāsaṃ purātanam putrārtham asurendreṇa gītaṃ caiva sudhanvanā yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṃ ca viśeṣavic chrutavān kṣiprakārī; taṃ sarvalokaḥ kurute pramāṇam jānāti viśvāsayituṃ manuṣyān; vijñāta doṣeṣu dadhāti daṇḍam jānāti mātrāṃ ca tathā kṣamāṃ ca; taṃ tādṛśaṃ śrīr juṣate samagrā sudurbalaṃ nāvajānāti kaṃ cid; yukto ripuṃ sevate buddhipūrvam na vigrahaṃ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ prāpyāpadaṃ na vyathate kadā cid; udyogam anvicchati cāpramattaḥ duḥkhaṃ ca kāle sahate jitātmā; dhuraṃdharas tasya jitāḥ sapatnāḥ anarthakaṃ vipra vāsaṃ gṛhebhyaḥ; pāpaiḥ saṃdhiṃ paradārābhimarśam dambhaṃ stainyaṃ paiśunaṃ madya pānaṃ; na sevate yaḥ sa sukhī sadaiva na saṃrambheṇārabhate 'rthavargam; ākāritaḥ śaṃsati tathyam eva na mātrārthe rocayate vivādaṃ; nāpūjitaḥ kupyati cāpy amūḍhaḥ na yo 'bhyasūyaty anukampate ca; na durbalaḥ prātibhāvyaṃ karoti nātyāha kiṃ cit kṣamate vivādaṃ; sarvatra tādṛg labhate praśaṃsām yo noddhataṃ kurute jātu veṣaṃ; na pauruṣeṇāpi vikatthate 'nyān na mūrcchitaḥ kaṭukāny āha kiṃ cit; priyaṃ sadā taṃ kurute jano 'pi na vairam uddīpayati praśāntaṃ; na darmam ārohati nāstam eti na durgato 'smīti karoti manyuṃ; tam ārya śīlaṃ param āhur agryam na sve sukhe vai kurute praharṣaṃ; nānyasya duḥkhe bhavati pratītaḥ dattvā na paścāt kurute 'nutāpaṃ; na katthate satpuruṣārya śīlaḥ deśācārān samayāñ jātidharmān; bubhūṣate yas tu parāvarajñaḥ sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṃ karoti dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ; rājadviṣṭaṃ paiśunaṃ pūgavairam mattonmattair durjanaiś cāpi vādaṃ; yaḥ prajñāvān varjayet sa pradhānaḥ damaṃ śaucaṃ daivataṃ maṅgalāni; prāyaścittaṃ vividhāṁl lokavādān etāni yaḥ kurute naityakāni; tasyotthānaṃ devatā rādhayanti samair vivāhaṃ kurute na hīnaiḥ; samaiḥ sakhyaṃ vyavahāraṃ kathāś ca guṇair viśiṣṭāṃś ca puro dadhāti; vipaścitas tasya nayāḥ sunītāḥ mitaṃ bhuṅkte saṃvibhajyāśritebhyo; mitaṃ svapity amitaṃ karmakṛtvā dadāty amitreṣv api yācitaḥ saṃs; tam ātmavantaṃ prajahāty anarthāḥ cikīrṣitaṃ viprakṛtaṃ ca yasya; nānye janāḥ karma jānanti kiṃ cit mantre gupte samyag anuṣṭhite ca; svalpo nāsya vyathate kaś cid arthaḥ yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mṛdur dānakṛc chuddha bhāvaḥ atīva saṃjñāyate jñātimadhye; mahāmaṇir jātya iva prasannaḥ ya ātmanāpatrapate bhṛśaṃ naraḥ; sa sarvalokasya gurur bhavaty uta ananta tejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendra kalpāḥ tvayaiva bālā vardhitāḥ śikṣitāś ca; tavādeśaṃ pālayanty āmbikeya pradāyaiṣām ucitaṃ tāta rājyaṃ; sukhī putraiḥ sahito modamānaḥ na devānāṃ nāpi ca mānuṣāṇāṃ; bhaviṣyasi tvaṃ tarkaṇīyo narendra |