|
[धृ] भारद्वाजं कथें युद्धे युयुधानॊ ऽभयवारयत संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे [स] शृणु राजन महाप्राज्ञ संग्रामं लॊमहर्षणम दरॊणस्य पाण्डवैः सार्धं युयुधान पुरॊगमैः वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष अभ्यद्रवत सवयं दरॊणः सात्यकिं सत्यविक्रमम तम आपतन्तं सहसा भारद्वाजं महारथम सात्यकिः पञ्चविंशत्या कषुद्रकाणां समार्पयत दरॊणॊ ऽपि युधि विक्रान्तॊ युयुधानं समाहितः अविध्यत पञ्चभिस तूर्णंहेम पुङ्खैः शिलाशितैः ते वर्म भित्त्वा सुदृढं दविषत पिशित भॊजनाः अभ्यगुर धरणीं राजञ शवसन्त इव पन्नगाः दीर्घबाहुर अभिक्रुद्धस तॊत्त्रार्दित इव दविपः दरॊणं पञ्चाशताविध्यन नाराचैर अग्निसंनिभैः भारद्वाजॊ रणे विद्धॊ युयुधानेन स तवरम सात्यकिं बहुभिर बाणैर यतमानम अविध्यत ततः करुद्धॊ महेष्वासॊ भूय एव महाबलः सात्वतं पीडयाम आस शतेन नतपर्वणा स वध्यमानः समरे भारद्वाजेन सात्यकिः नाभ्यपद्यत कर्तव्यं किं चिद एव विशां पते विषण्णवदनश चापि युयुधानॊ ऽभवन नृप भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ शरान तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश च विशां पते परहृष्टमनसॊ भूत्वा सिंहवद वयनदन मुहुः तं शरुत्वा निनदं घॊरं पीड्यमानं च माधवम युधिष्टिरॊ ऽबरवीद राजन सर्वसैन्यानि भारत एष वृष्णिवरॊ वीरः सात्यकिः सत्यकर्मकृत गरस्यते युधि वीरेण भानुमान इव राहुणा अभिद्रवत गच्छध्वं सात्यकिर यत्र युध्यते धृष्टद्युम्नं च पाञ्चाल्यम इदम आह जनाधिप अभिद्रव दरुतं दरॊणं किं नु तिष्ठसि पार्षत न पश्यसि भयं घॊरं दरॊणान नः समुपस्थितम असौ दरॊणॊ महेष्वासॊ युयुधानेन संयुगे करीडते सूत्रबद्धेन पक्षिणा बालकॊ यथा तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः तवयैव सहिता यत्ता युयुधान रथं परति पृष्ठतॊ ऽनुगमिष्यामि तवाम अहं सह सैनिकः सात्यकिं मॊक्षयस्वाद्य यम दंष्ट्रान्तरं गतम एवम उक्त्वा ततॊ राजा सर्वसैन्येन पाण्डवः अभ्यद्रवद रणे दरॊणं युयुधानस्य कारणात तत्रारावॊ महान आसीद दरॊणम एकं युयुत्सताम पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ते समेत्य नरव्याघ्रा भारद्वाजं महारथम अभ्यवर्षञ शरैस तीक्ष्णैः कङ्कबर्हिण वाजितः समयन्न एव तु तान वीरान दरॊणः परत्यग्रहीत सवयम अतिथीन आगतान यद्वत सलिलेनासनेन च तर्पितास ते शरैस तस्य भारद्वाजस्य धन्विनः आतिथेय गृहं पराप्य नृपते ऽतिथयॊ यथा भारद्वाजं च ते सर्वे न शेकुः परतिवीक्षितुम मध्यं दिनम अनुप्राप्तं सहस्रांशुम इव परभॊ तांस तु सर्वान महेष्वासान दरॊणः शस्त्रभृतां वरः अतापयच छरव्रातैर गभस्तिभिर इवांशुमान वध्यमाना रणे राजन पाण्डवाः सृञ्जयास तथा तरातारं नाध्यगच्छन्त पङ्कमग्ना इव दविपाः दरॊणस्य च वयदृश्यन्त विसर्पन्तॊ महाशराः घभस्तय इवार्कस्य परतपन्तः समन्ततः तस्मिन दरॊणेन निहताः पाञ्चालाः पञ्चविंशतिः महारथसमाख्याता धृष्टद्युम्नस्य संमताः पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च दरॊणं सम ददृशुः शूरं विनिघ्नन्तं वरान वरान केकयानां शतं हत्वा विद्राव्य च समन्ततः दरॊणस तस्थौ महाराज वयादितास्य इवान्तकः पाञ्चालान सृञ्जयान मत्स्यान केकयान पाण्डवान अपि दरॊणॊ ऽजयन महाबाहुः शतशॊ ऽथ सहस्रशः तेषां समभवच छब्दॊ वध्यतां दरॊण सायकैः वनौकसाम इवारण्ये दह्यतां धूमकेतुना तत्र देवाः स गन्धर्वाः पितरश चाब्रुवन नृप एते दरवन्ति पाञ्चालाः पाण्डवाश च स सैनिकाः तं तथा समरे दरॊणं निघ्नन्तं सॊमकान रणे न चाप्य अभिययुः के चिद अपरे नैव विव्यधुः वर्तमाने तथा रौद्रे तस्मिन वीरवरक्षये अशृणॊत सहसा पार्थः पाञ्चजन्यस्य निस्वनम पूरितॊ वासुदेवेन शङ्खराट सवनते भृशम युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु नदत्सु धार्तराष्ट्रेषु विजयस्य रथं परति गाण्डीवस्य च निर्घॊषे विप्रनष्टे समन्ततः कश्मलाभिहतॊ राजा चिन्तयाम आस पाण्डवः न नूनं सवस्ति पार्थस्य यथा नदति शङ्खराट कौरवाश च यथा हृष्टा विनदन्ति मुहुर मुहुः एवं संचिन्तयित्वा तु वयाकुलेनान्तर आत्मना अजातशत्रुः कौन्तेयः सात्वतं परत्यभाषत बाष्पगद्गदया वाचा मुह्यमानॊ मुहुर मुहुः कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः साम्पराये सुहृत कृत्ये तस्य कालॊ ऽयम आगतः सर्वेष्व अपि च यॊधेषु चिन्तयञ शिनिपुंगव तवत्तः सुहृत्तमं कं चिन नाभिजानामि सात्यके यॊ हि परीतमना नित्यं यश च नित्यम अनुव्रतः स कार्ये साम्पराये तु नियॊज्य इति मे मतिः यथा च केशवॊ नित्यं पाण्डवानां परायणम तथा तवम अपि वार्ष्णेय कृष्ण तुल्यपराक्रमः सॊ ऽहं भारं समाधास्ये तवयि तं वॊढुम अर्हसि अभिप्रायं च मे नित्यं न वृथा कर्तुम अर्हसि स तवं भरातुर वयस्यस्य गुरॊर अपि च संयुगे कुरु कृच्छ्रसहायार्थम अर्जुनस्य नरर्षभ तवं हि सत्यव्रतः शूरॊ मित्राणाम अभयंकरः लॊके विख्यायसे वीरकर्मभिः सत्यवाग इति यॊ हि शैनेय मित्रार्थे युध्यमानस तयजेत तनुम पृथिवीं वा दविजातिभ्यॊ यॊ दद्यात समम एव तत शरुताश च बहवॊ ऽसमाभी राजानॊ ये दिवं गताः दत्त्वेमां पृथिवीं कृत्स्नां बराह्मणेभ्यॊ यथाविधि एवं तवाम अपि धर्मात्मन परयाचे ऽहं कृताञ्जलिः पृथिवी दानतुल्यं सयाद अधिकं वा फलं विभॊ एक एव सदा कृष्णॊ मित्राणाम अभयंकरः रणे संत्यजति पराणान दवितीयस तवं च सात्यके विक्रान्तस्य च वीरस्य युद्धे परार्थयते यशः शूर एव सहायः सयान नेतरः पराकृतॊ जनः ईदृशे तु परामर्दे वर्तमानस्य माधव तवदन्यॊ हि रणे गॊप्ता विजयस्य न विद्यते शलाघन्न एव हि कर्माणि शतशस तव पाण्डवः मम संजनयन हर्षं पुनः पुनर अकीर्तयत लघ्व अस्त्रश चित्रयॊधी च तथा लघुपराक्रमः पराज्ञः सर्वास्त्रविच छूरॊ मुह्यते न च संयुगे महास्कन्धॊ महॊरस्कॊ महाबाहुर महाधनुः महाबलॊ महावीर्यः स महात्मा महारथः शिष्यॊ मम सखा चैव परियॊ ऽसयाहं परियश च मे युयुधानः सहायॊ मे परमथिष्यति कौरवान अस्मदर्थं च राजेन्द्र संनह्येद यदि केशवः रामॊ वाप्य अनिरुद्धॊ वा परद्युम्नॊ वा महारथः गदॊ वा सारणॊ वापि साम्बॊ वा सह वृष्णिभिः सहायार्थं महाराज संग्रामॊत्तम मूर्धनि तथाप्य अहं नरव्याघ्रं शैनेयं सत्यविक्रमम साहाय्ये विनियॊक्ष्यामि नासिन मे ऽनयॊ हि तत समः इति दवैतवने तात माम उवाच धनंजयः परॊक्षं तवद गुणांस तथ्यान कथयन्न आर्य संसदि तस्य तवम एवं संकल्पं न वृथा कर्तुम अर्हसि धनंजयस्य वार्ष्णेय मम भीमस्य चॊभयॊः यच चापि तीर्थानि चरन्न अगच्छं दवारकां परति तत्राहम अपि ते भक्तिम अर्जुनं परति दृष्टवान न तत सौहृदम अन्येषु मया शैनेय लक्षितम यथा तम अस्मान भजसे वर्तमानान उपप्लवे सॊ ऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव सत्यस्य च महाबाहॊ अनुकम्पार्थम एव च अनुरूपं महेष्वास कर्म तवं कर्तुम अर्हसि सॊयॊधनॊ हि सहसा गतॊ दरॊणेन दंशितः पूर्वम एव तु यातास ते कौरवाणां महारथाः सुमहान निनदंश चैव शरूयते विजयं परति स शैनेय जवेनात्र गन्तुम अर्हसि माधव भीमसेनॊ वयं चैव संयत्ताः सह सैनिकाः दरॊणम आवारयिष्यामॊ यदि तवां परति यास्यति पश्य शैनेय सैन्यानि दरवमाणानि संयुगे महान्तं च रणे शब्दं दीर्यमाणां च भारतीम महामारुत वेगेन समुद्रम इव पर्वसु धार्तराष्ट्र बलं तात विक्षिप्तं सव्यसाचिना रथैर विपरिधावद्भिर मनुष्यैश च हयैश च ह सैन्यं रजः समुद्धूतम एत संपरिवर्तते संवृतः सिन्धुसौवीरैर नखरप्रासयॊधिभि अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा नैतद बलम असंवार्य शक्यॊ हन्तुं जयद्रथः एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः शरशक्तिध्वजवनं हयनागसमाकुलम पश्यैतद धार्तराष्ट्राणाम अनीकं सुदुरासदम शृणु दुन्दुभिनिर्घॊषं शङ्खशब्दांश च पुष्कलान सिंहनाद रवांश चैव रथनेमि सवनांस तथा नागानां शृणु शब्दं च पत्तीनां च सहस्रशः सादिनां दरवतां चैव शृणु कम्पयतां महीम पुरस्तात सौन्धवानीकं दरॊणानीकस्य पृष्ठतः बहुत्वाद धि नरव्याघ्र देवेन्द्रम अपि पीडयेत अपर्यन्ते बले मग्नॊ जह्याद अपि च जीवितम तस्मिंश च निहते युद्धे कथं जीवेत मादृशः सर्वथाहम अनुप्राप्तः सुकृच्छ्रं बलजीवितम शयामॊ युवा गुडाकेशॊ दर्शनीयश च पाण्डवः लघ्व अस्त्रश चित्रयॊधी च परविष्टस तात भारतीम सूर्यॊदये महाबाहुर दिवसश चातिवर्तते तन्न जानामि वार्ष्णेय यदि जीवति वा न वा कुरूणां चापि तत सैन्यं सागरप्रतिमं महत एक एव च बीभत्सुः परविष्टस तात भारतीम अविषह्यां महाबाहुः सुरैर अपि महामृधे न च मे वर्तते बुद्धिर अद्य युद्धे कथं चन दरॊणॊ ऽपि रभसॊ युद्धे मम पीडयते बलम परत्यक्षं ते महाबाहॊ यथासौ चरति दविजः युगपच च समेतानां कार्याणां तवं विचक्षणः महार्थं लघु संयुक्तं कर्तुम अर्हसि माधव तस्य मे सर्वकार्येषु कार्यम एतन मतं सदा अर्जुनस्य परित्राणं कर्तव्यम इति संयुगे नाहं शॊचामि दाशार्हं गॊप्तारं जगतः परभुम स हि शक्तॊ रणे तात तरीँल लॊकान अपि संगतान विजेतुं पुरुषव्याघ्र सत्यम एतद बरवीमि ते किं पुनर धार्तराष्ट्रस्य बलम एतत सुदुर्बलम अर्जुनस तव एव बार्ष्णेय पीडितॊ बहुभिर युधि परजह्यात समरे पराणांस तस्माद विन्दामि कश्मलम तस्य तवं पदवीं गच्छ गच्छेयुस तवादृशा यथा तवादृशस्येदृशे काले मादृशेनाभिचॊदितः रणे वृष्णिप्रवीराणां दवाव एवातिरथौ समृतौ परद्युम्नश च महाबाहुस तवं च सात्वत विश्रुतः अस्त्रे नारायण समः संकर्षण समॊ बले वीरतायां नरव्याघ्र धनंजय समॊ हय असि भीष्मद्रॊणाव अतिक्रम्य सर्वयुद्धविशारदम तवाम अद्य पुरुषव्याघ्रं लॊके सन्तः परचक्षते नासाध्यं विद्यते लॊके सात्यकेर इति माधव तत तवां यद अभिवक्ष्यामि तत कुरुष्व महाबल संभावना हि लॊकस्य तव पार्थस्य चॊभयॊः नान्यथा तां महाबाहॊ संप्रकर्तुम इहार्हसि परित्यज्य परियान पराणान रणे विचर वीरवत न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम अयुद्धम अनवस्थानं संग्रामे च पलायनम भीरूणाम असतां मार्गॊ नैष दाशार्ह सेवितः तवार्जुनॊ गुरुस तात धर्मात्मा शिनिपुंगव वासुदेवॊ गुरुश चापि तव पार्थस्य धीमतः कारणद्वयम एतद धि जानानस तवाहम अब्रुवम मावमंस्था वचॊ मह्यं गुरुस तव गुरॊर हय अहम वासुदेव मतं चैतन मम चैवार्जुनस्य च सत्यम एतन मयॊक्तं ते याहि यत्र धनंजयः एतद वचनम आज्ञाय मम सत्यपराक्रम परविशैतद बलं तात धार्तराष्ट्रस्य दुर्मतेः परविश्य च यथान्यायं संगम्य च महारथैः यथार्हम आत्मनः कर्म रणे सात्वत दर्शय |
[dhṛ] bhāradvājaṃ katheṃ yuddhe yuyudhāno 'bhyavārayat saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me [s] śṛṇu rājan mahāprājña saṃgrāmaṃ lomaharṣaṇam droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhāna purogamaiḥ vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam tam āpatantaṃ sahasā bhāradvājaṃ mahāratham sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ avidhyat pañcabhis tūrṇaṃhema puṅkhaiḥ śilāśitaiḥ te varma bhittvā sudṛḍhaṃ dviṣat piśita bhojanāḥ abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ bhāradvājo raṇe viddho yuyudhānena sa tvaram sātyakiṃ bahubhir bāṇair yatamānam avidhyata tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ sātvataṃ pīḍayām āsa śatena nataparvaṇā sa vadhyamānaḥ samare bhāradvājena sātyakiḥ nābhyapadyata kartavyaṃ kiṃ cid eva viśāṃ pate viṣaṇṇavadanaś cāpi yuyudhāno 'bhavan nṛpa bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān taṃ tu saṃprekṣya te putrāḥ sainikāś ca viśāṃ pate prahṛṣṭamanaso bhūtvā siṃhavad vyanadan muhuḥ taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam yudhiṣṭiro 'bravīd rājan sarvasainyāni bhārata eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt grasyate yudhi vīreṇa bhānumān iva rāhuṇā abhidravata gacchadhvaṃ sātyakir yatra yudhyate dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata na paśyasi bhayaṃ ghoraṃ droṇān naḥ samupasthitam asau droṇo maheṣvāso yuyudhānena saṃyuge krīḍate sūtrabaddhena pakṣiṇā bālako yathā tatraiva sarve gacchantu bhīmasenamukhā rathāḥ tvayaiva sahitā yattā yuyudhāna rathaṃ prati pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ saha sainikaḥ sātyakiṃ mokṣayasvādya yama daṃṣṭrāntaraṃ gatam evam uktvā tato rājā sarvasainyena pāṇḍavaḥ abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ te sametya naravyāghrā bhāradvājaṃ mahāratham abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇa vājitaḥ smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam atithīn āgatān yadvat salilenāsanena ca tarpitās te śarais tasya bhāradvājasya dhanvinaḥ ātitheya gṛhaṃ prāpya nṛpate 'tithayo yathā bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum madhyaṃ dinam anuprāptaṃ sahasrāṃśum iva prabho tāṃs tu sarvān maheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ atāpayac charavrātair gabhastibhir ivāṃśumān vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayās tathā trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ ghabhastaya ivārkasya pratapantaḥ samantataḥ tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ droṇas tasthau mahārāja vyāditāsya ivāntakaḥ pāñcālān sṛñjayān matsyān kekayān pāṇḍavān api droṇo 'jayan mahābāhuḥ śataśo 'tha sahasraśaḥ teṣāṃ samabhavac chabdo vadhyatāṃ droṇa sāyakaiḥ vanaukasām ivāraṇye dahyatāṃ dhūmaketunā tatra devāḥ sa gandharvāḥ pitaraś cābruvan nṛpa ete dravanti pāñcālāḥ pāṇḍavāś ca sa sainikāḥ taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ vartamāne tathā raudre tasmin vīravarakṣaye aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam pūrito vāsudevena śaṅkharāṭ svanate bhṛśam yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ kauravāś ca yathā hṛṣṭā vinadanti muhur muhuḥ evaṃ saṃcintayitvā tu vyākulenāntar ātmanā ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata bāṣpagadgadayā vācā muhyamāno muhur muhuḥ kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ sāmparāye suhṛt kṛtye tasya kālo 'yam āgataḥ sarveṣv api ca yodheṣu cintayañ śinipuṃgava tvattaḥ suhṛttamaṃ kaṃ cin nābhijānāmi sātyake yo hi prītamanā nityaṃ yaś ca nityam anuvrataḥ sa kārye sāmparāye tu niyojya iti me matiḥ yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam tathā tvam api vārṣṇeya kṛṣṇa tulyaparākramaḥ so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge kuru kṛcchrasahāyārtham arjunasya nararṣabha tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ loke vikhyāyase vīrakarmabhiḥ satyavāg iti yo hi śaineya mitrārthe yudhyamānas tyajet tanum pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat śrutāś ca bahavo 'smābhī rājāno ye divaṃ gatāḥ dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ pṛthivī dānatulyaṃ syād adhikaṃ vā phalaṃ vibho eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ raṇe saṃtyajati prāṇān dvitīyas tvaṃ ca sātyake vikrāntasya ca vīrasya yuddhe prārthayate yaśaḥ śūra eva sahāyaḥ syān netaraḥ prākṛto janaḥ īdṛśe tu parāmarde vartamānasya mādhava tvadanyo hi raṇe goptā vijayasya na vidyate ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ mama saṃjanayan harṣaṃ punaḥ punar akīrtayat laghv astraś citrayodhī ca tathā laghuparākramaḥ prājñaḥ sarvāstravic chūro muhyate na ca saṃyuge mahāskandho mahorasko mahābāhur mahādhanuḥ mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaś ca me yuyudhānaḥ sahāyo me pramathiṣyati kauravān asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ sahāyārthaṃ mahārāja saṃgrāmottama mūrdhani tathāpy ahaṃ naravyāghraṃ śaineyaṃ satyavikramam sāhāyye viniyokṣyāmi nāsin me 'nyo hi tat samaḥ iti dvaitavane tāta mām uvāca dhanaṃjayaḥ parokṣaṃ tvad guṇāṃs tathyān kathayann ārya saṃsadi tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ yac cāpi tīrthāni carann agacchaṃ dvārakāṃ prati tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān na tat sauhṛdam anyeṣu mayā śaineya lakṣitam yathā tam asmān bhajase vartamānān upaplave so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca sauhṛdasya ca vīryasya kulīnatvasya mādhava satyasya ca mahābāho anukampārtham eva ca anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi soyodhano hi sahasā gato droṇena daṃśitaḥ pūrvam eva tu yātās te kauravāṇāṃ mahārathāḥ sumahān ninadaṃś caiva śrūyate vijayaṃ prati sa śaineya javenātra gantum arhasi mādhava bhīmaseno vayaṃ caiva saṃyattāḥ saha sainikāḥ droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati paśya śaineya sainyāni dravamāṇāni saṃyuge mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm mahāmāruta vegena samudram iva parvasu dhārtarāṣṭra balaṃ tāta vikṣiptaṃ savyasācinā rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha sainyaṃ rajaḥ samuddhūtam eta saṃparivartate saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhi atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ śaraśaktidhvajavanaṃ hayanāgasamākulam paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃś ca puṣkalān siṃhanāda ravāṃś caiva rathanemi svanāṃs tathā nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm purastāt saundhavānīkaṃ droṇānīkasya pṛṣṭhataḥ bahutvād dhi naravyāghra devendram api pīḍayet aparyante bale magno jahyād api ca jīvitam tasmiṃś ca nihate yuddhe kathaṃ jīveta mādṛśaḥ sarvathāham anuprāptaḥ sukṛcchraṃ balajīvitam śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ laghv astraś citrayodhī ca praviṣṭas tāta bhāratīm sūryodaye mahābāhur divasaś cātivartate tanna jānāmi vārṣṇeya yadi jīvati vā na vā kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe na ca me vartate buddhir adya yuddhe kathaṃ cana droṇo 'pi rabhaso yuddhe mama pīḍayate balam pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ yugapac ca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ mahārthaṃ laghu saṃyuktaṃ kartum arhasi mādhava tasya me sarvakāryeṣu kāryam etan mataṃ sadā arjunasya paritrāṇaṃ kartavyam iti saṃyuge nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum sa hi śakto raṇe tāta trīṁl lokān api saṃgatān vijetuṃ puruṣavyāghra satyam etad bravīmi te kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam arjunas tv eva bārṣṇeya pīḍito bahubhir yudhi prajahyāt samare prāṇāṃs tasmād vindāmi kaśmalam tasya tvaṃ padavīṃ gaccha gaccheyus tvādṛśā yathā tvādṛśasyedṛśe kāle mādṛśenābhicoditaḥ raṇe vṛṣṇipravīrāṇāṃ dvāv evātirathau smṛtau pradyumnaś ca mahābāhus tvaṃ ca sātvata viśrutaḥ astre nārāyaṇa samaḥ saṃkarṣaṇa samo bale vīratāyāṃ naravyāghra dhanaṃjaya samo hy asi bhīṣmadroṇāv atikramya sarvayuddhaviśāradam tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate nāsādhyaṃ vidyate loke sātyaker iti mādhava tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ nānyathā tāṃ mahābāho saṃprakartum ihārhasi parityajya priyān prāṇān raṇe vicara vīravat na hi śaineya dāśārhā raṇe rakṣanti jīvitam ayuddham anavasthānaṃ saṃgrāme ca palāyanam bhīrūṇām asatāṃ mārgo naiṣa dāśārha sevitaḥ tavārjuno gurus tāta dharmātmā śinipuṃgava vāsudevo guruś cāpi tava pārthasya dhīmataḥ kāraṇadvayam etad dhi jānānas tvāham abruvam māvamaṃsthā vaco mahyaṃ gurus tava guror hy aham vāsudeva mataṃ caitan mama caivārjunasya ca satyam etan mayoktaṃ te yāhi yatra dhanaṃjayaḥ etad vacanam ājñāya mama satyaparākrama praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ yathārham ātmanaḥ karma raṇe sātvata darśaya |