|
[धृ] तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना मामका यद अकुर्वन्त तन ममाचक्ष्व संजय [स] सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष अमर्षवशम आपन्नः कृपः शारदतस तदा महता शरवर्षेण पाण्डवं समवाकिरत दरौणिश चाभ्यद्रवत पार्थं रथम आस्थाय फल्गुनम ताव एनं रथिनां शरेष्ठौ रथाभ्यां रथसत्तमम उभाव उभयतस तीक्ष्णैर विशिखैर अभ्यवर्षताम स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः पीड्यमानः पराम आर्तिम अगमद रथिनां वरः सॊ ऽजिघांसुर गुरुं संख्ये गुरॊस तनयम एव च चकाराचार्यकं तत्र कुन्तीपुत्रॊ धनंजयः अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च मन्दवेगान इषूंस ताभ्याम अजिघांसुर अवासृजत ते नातिभृशम अभ्यघ्नन विशिखा जय चॊदिताः बहुत्वात तु पराम आर्तिं शराणां ताव अगच्छताम अथ शारद्वतॊ राजन कौन्तेय शरपीडितः अवासीदद रथॊपस्थे मूर्च्छाम अभिजगाम ह विह्वलं तम अभिज्ञाय भर्तारं शरपीडितम हतॊ ऽयम इति च जञात्वा सारस्थिस तम अपावहत तस्मिन सन्ने महाराजे कृपे शारद्वते युधि अश्वत्थामाप्य अपायासीत पाण्डवेयाद रथान्तरम दृष्ट्वा शारद्वतं पार्थॊ मूर्छितं शरपीडितम रथ एव महेष्वासः कृपणं पर्यदेवयत पश्यन्न इदं महाप्राज्ञः कषत्ता राजानम उक्तवान कुलान्त करणे पापे जातमात्रे सुयॊधने नीयतां परलॊकाय साध्व अयं कुलपांसनः अस्माद धि कुरुमुख्यानां महद उत्पत्स्यते भयम तद इदं समनुप्राप्तं वचनं सत्यवादिनः तत कृते हय अद्य पश्यामि शरतल्पगतं कृपम धिग अस्तु कषात्रम आचारं धिग अस्तु बलपौरुषम कॊ हि बराह्मणम आचार्यम अभिद्रुह्येत मादृशः ऋषिपुत्रॊ ममाचार्यॊ दरॊणस्य दयितः सखा एष शेते रथॊपस्थे मद्बाणैर अभिपीडितः अकामयानेन मया विशिखैर अर्दितॊ भृशम अवासीदद रथॊपस्थे पराणान पीडयतीव मे शरार्दितेन हि मया परेक्षणीयॊ महाद्युतिः परत्यस्तॊ बहुभिर बाणैर दश धर्मगतेन वै शॊचयत्य एष निपतन भूयः पुत्रवधाद धि माम कृपणं सवरथे सन्नं पश्य कृष्ण यथागतम उपाकृत्य तु वै विद्याम आचार्येभ्यॊ नरर्षभाः परयच्छन्तीह ये कामान देवत्वम उपयान्ति ते ये तु विद्याम उपादाय गुरुभ्यः पुरुषाधमाः घनन्ति तान एव दुर्वृत्तास ते वै निरयगामिनः तद इदं नरकायाद्य कृतं कर्म मया धरुवम आचार्यं शरवर्षेण रथे सादयता कृपम यत तत पूर्वम उपाकुर्वन्न अस्त्रं माम अब्रवीत कृपः न कथं चन कौरव्य परहर्तव्यं गुराव इति तद इदं वचनं साधॊर आचार्यस्य महात्मनः नानुष्ठितं तम एवाजौ विशिखैर अभिवर्षताण नमस तस्मै सुपूज्याय गौतमायापलायिने धिग अस्तु मम वार्ष्णेय यॊ हय अस्मै परहराम्य अहम तथा विपलमाने तु सव्यसाचिनि तं परति सैधवं निहतं दृष्ट्वा राधेयः समुपाद्रवत उपायान्तं तु राधेयं दृष्ट्वा पार्थॊ महारथः परहसन देवकीपुत्रम इदं वचनम अब्रवीत एष परयात्य आधिरथिः सात्यकेः सयन्दनं परति न मृष्यति हतं नूनं भूरिश्रवसम आहवे यत्र यात्य एष तत्र तवं चॊदयाश्वाञ जनार्दन मा सॊमदत्तेः पदवीं गमयेत सात्यकिं वृषः एकम उक्तॊ महाबाहुः केशवः सव्यसाचिना परत्युवाच महातेजाः कालयुक्तम इदं वचः अलम एष महाबाहुः कर्णायैकॊ हि पाण्डव किं पुनर दरौपदेयाभ्यां सहितः साततर्षभः न च तावत कषमः पार्थ कर्णेन तव संगरः परज्वलन्ती महॊल्केव तिष्ठत्य अस्य हि वासवी तवदर्थं पूज्यमानैषा रक्ष्यते परवीरहन अतः कर्णः परयात्व अत्र सात्वतस्य यथातथा अहं जञास्यामि कौरव्य कालम अस्य दुरात्मनः [धव] यॊ ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः हते तु भूरिश्रवसि सन्धवे च निपातिते सात्यकिश चापि विरथः कं समारूढवान रथम चक्ररक्षौ च पाञ्चाल्यौ तन ममाचक्ष्व संजय [स] हन्त ते वर्णयिष्यामि यथावृत्तं महारणे शुश्रूषस्व सथिरॊ भूत्वा दुराचरितम आत्मनः पूर्वम एव हि कृष्णस्य मनॊगतम इदं परभॊ विजेतव्यॊ यथा वीरः सात्यकिर यूपकेतुना अतीतानागतं राजन स हि वेत्ति जनार्दनः अतः सूतं समाहूय दारुकं संदिदेश ह रथॊ मे युज्यतां काल्यम इति राजन महाबलः न हि देवा न गन्धर्वा न यक्षॊरग राक्षसाः मानवा वा विजेतारः कृष्णयॊः सन्ति के चन पितामहपुरॊगाश च देवाः सिद्धाश च तं विदुः तयॊः परभावम अतुलं शृणु युद्धं च तद यथा सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम दध्मौ शङ्खं महावेगम आर्षभेणाथ माधवः दारुकॊ ऽवेत्य संदेशं शरुत्वा शङ्खस्य च सवनम रथम अन्वानयत तस्मै सुपर्णॊच्छ्रितकेतनम स केशवस्यानुमते रथं दारुक संयुतम आरुरॊह शिनेः पौत्रॊ जवलनादित्य संनिभम कामगैः सैन्यसुग्रीव मेघपुष्पबलाहकैः हयॊदग्रैर महावेगैर हेमभाण्ड विभूषितैः युक्तं समारुह्य च तं विमानप्रतिमं रथम अभ्यद्रवत राधेयं परवपन सायकान बहून चक्ररक्षाव अपि तदा युधामन्यूत्तमौजसौ धनंजयरथं हित्वा राधेयं परत्युदीययुः राधेयॊ ऽपि महाराज शरवर्षं समुत्सृजन अभ्यद्रवत सुसंक्रुद्धॊ रणे शैनेयम अच्युतम नैव दैवं न गान्धर्वं नासुरॊरग राक्षसम तादृशं भुवि वा युद्धं दिवि वा शरुतम इत्य उत उपारमत तत सैन्यं स रथाश्वनरद्विपम तयॊर दृष्ट्वा महाराज कर्म संमूढचेतनम सर्वे च समपश्यन्त तद युद्धम अतिमानुषम तयॊर नृवरयॊ राजन सारथ्यं दारुकस्य च गतप्रत्यागतावृत्तैर मण्डलैः संनिवर्तनैः सारथेस तु रथस्थस्य काश्यपेयस्य विस्मिताः नभस्तलगताश चैव देवगन्धर्वदानवाः अतीवावहिता दरष्टुं कर्ण शैनेययॊ रणम मित्रार्थे तौ पराक्रान्तौ सपर्धिनौ शुष्मिणौ रणे कर्णश चामरसंकाशॊ युयुधानश च सात्यकिः अन्यॊन्यं तौ महाराज शरवर्षैर अवर्षताम परममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः अमृष्यमाणॊ निधनं कौरव्य जलसंधयॊः कर्णः शॊकसमाविष्टॊ महॊरग इव शवसन स शैनेयं रणे करुद्धः परदहन्न इव चक्षुषा अभ्यद्रवत वेगेन पुनः पुनर अरिंदमः तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः परत्यविध्यत महता शरवर्षेण गजः परतिगजं यथा तौ समेत्य नरव्याघ्रौ वयाघ्राव इव तरस्विनौ अन्यॊन्यं संततक्षाते रणे ऽनुपम विक्रमौ ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः विभेद सर्वगात्रेषु पुनः पुनर अरिंदमः सारथिं चास्य भल्लेन रथनीडाद अपाहरत अश्वांश च चतुरः शवेतान निजघ्ने निशितैः शरैः छित्त्वा धवजं शतेनैव शतधा पुरुषर्षभः चकार विरथं कर्णं तव पुत्रस्य पश्यतः ततॊ विमनसॊ राजंस तावकाः पुरुषर्षभाः वृषसेनः कर्णसुतः शल्यॊ मद्राधिपस तथा दरॊणपुत्रश च शैनेयं सर्वतः पर्यवारयन ततः पर्याकुलं सर्वं न पराज्ञायत किं चन तथा सात्यकिना वीरे विरथे सूतजे कृते हाहाकारस ततॊ राजन सर्वसैन्येषु चाभवत कर्णॊ ऽपि विह्वलॊ राजन सात्वतेनार्दितः शरैः दुर्यॊधन रथं राजन्न आरुरॊह विनिःश्वसन मानयंस तव पुत्रस्य बाल्यात परभृति सौहृदम कृतां राज्यप्रदानेन परतिज्ञां परिपालयन तथा तु विरथे कर्णे पुत्रान वै तव पार्थिव दुःशासन मुखाञ शूरान नावधीत सात्यकिर वशी रक्षन परतिज्ञां च पुनर भीमसेनकृतां पुरा विरथान विह्वलांश चक्रे न तु पराणैर वययॊजयत भीमसेनेन तु वधः पुत्राणां ते परतिश्रुतः पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः वधे तव अकुर्वन यत्नं ते तस्य कर्ण मुखास तदा नाशक्नुवंश च तं हन्तुं सात्यकिं परवरा रथाः दरौणिश च कृतवर्मा च तथैवान्ये महारथाः निर्जिता धनुषैकेन शतशः कषत्रियर्षभाः काङ्क्षता परलॊकं च धर्मराजस्य च परियम कृष्णयॊः सदृशॊ वीर्ये सात्यकिः शत्रुकर्शनः कृष्णॊ वापि भवेल लॊके पार्थॊ वापि धनुर्धरः शैनेयॊ वा नरव्यघ्रश चतुर्थॊ नॊपलभ्यते [धृ] अजय्यं रथम आस्थाय वासुदेवस्य सात्यकिः विरथं कृतवान कर्णं वासुदेव समॊ युवा दारुकेण समायुक्तं सवबाहुबलदर्पितः कच चिद अन्यं समारूढः स रथं सात्यकिः पुनः एतद इच्छाम्य अहं शरॊतुं कुशलॊ हय असि भाषितुम असह्यं तम अहं मन्ये तन ममाचक्ष्व संजय [स] शृणु राजन यथा तस्य रथम अन्यं महामतिः दारुकस्यानुजस तूर्णं कल्पना विधिकल्पितम आयसैः काञ्चनैर्श चापि पट्टैर नद्धं स कूबरम तारा सहस्रखचितं सिंहध्वजपताकिनम अश्वैर वातजवैर युक्तं हेमभाण्ड परिच्छदैः पाण्डुरैर इन्दुसंकाशैः सर्वशब्दातिगैर दृढैः चित्रकाञ्चनसंनाहैर वाजिमुख्यैर विशां पते घण्टाजालाकुल रवं शक्तितॊमरविद्युतम वृतं सांग्रामिकैर दरव्यैर बहुशस्त्रपरिच्छदम रथं संपादयाम आस मेघगम्भीर निस्वनम तं समारुह्य शैनेयस तव सैन्यम उपाद्रवत दारुकॊ ऽपि यथाकामं परययौ केशवान्तिकम कर्णस्यापि महाराज शङ्खगॊक्षीर पाण्डुरैः चित्रकाञ्चनसंनाहैः सदश्वैर वेगवत्तरैः हेमकक्ष्या धवजॊपेतं कॢप्त यन्त्रपताकिनम अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम उपाजह्रुस तम आस्थाय कर्णॊ ऽपय अभ्यद्रवद रिपून एतत ते सरम आख्यातं यन मां तवं परिपृच्छसि भूयश चापि निबॊध तवं तवापनयजं कषयम एकत्रिंशत तव सुता भीमसेनेन पातिताः दुर्मुखं परमुखे कृत्वा सततं चित्रयॊधिनम शतशॊ निहताः शूराः सात्वतेनार्जुनेन च भीष्मं परमुखतः कृत्वा भगदत्तं च मारिष एवम एष कषयॊ वृत्तॊ राजन दुर्मन्त्रिते तव |
[dhṛ] tasmin vinihate vīre saindhave savyasācinā māmakā yad akurvanta tan mamācakṣva saṃjaya [s] saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa amarṣavaśam āpannaḥ kṛpaḥ śāradatas tadā mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat drauṇiś cābhyadravat pārthaṃ ratham āsthāya phalgunam tāv enaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ so 'jighāṃsur guruṃ saṃkhye guros tanayam eva ca cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca mandavegān iṣūṃs tābhyām ajighāṃsur avāsṛjat te nātibhṛśam abhyaghnan viśikhā jaya coditāḥ bahutvāt tu parām ārtiṃ śarāṇāṃ tāv agacchatām atha śāradvato rājan kaunteya śarapīḍitaḥ avāsīdad rathopasthe mūrcchām abhijagāma ha vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam hato 'yam iti ca jñātvā sārasthis tam apāvahat tasmin sanne mahārāje kṛpe śāradvate yudhi aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān kulānta karaṇe pāpe jātamātre suyodhane nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ asmād dhi kurumukhyānāṃ mahad utpatsyate bhayam tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ tat kṛte hy adya paśyāmi śaratalpagataṃ kṛpam dhig astu kṣātram ācāraṃ dhig astu balapauruṣam ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā eṣa śete rathopasthe madbāṇair abhipīḍitaḥ akāmayānena mayā viśikhair ardito bhṛśam avāsīdad rathopasthe prāṇān pīḍayatīva me śarārditena hi mayā prekṣaṇīyo mahādyutiḥ pratyasto bahubhir bāṇair daśa dharmagatena vai śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathāgatam upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ prayacchantīha ye kāmān devatvam upayānti te ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ ghnanti tān eva durvṛttās te vai nirayagāminaḥ tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ na kathaṃ cana kauravya prahartavyaṃ gurāv iti tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatāṇ namas tasmai supūjyāya gautamāyāpalāyine dhig astu mama vārṣṇeya yo hy asmai praharāmy aham tathā vipalamāne tu savyasācini taṃ prati saidhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ prahasan devakīputram idaṃ vacanam abravīt eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṃ prati na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave yatra yāty eṣa tatra tvaṃ codayāśvāñ janārdana mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ ekam ukto mahābāhuḥ keśavaḥ savyasācinā pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava kiṃ punar draupadeyābhyāṃ sahitaḥ sātatarṣabhaḥ na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ prajvalantī maholkeva tiṣṭhaty asya hi vāsavī tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan ataḥ karṇaḥ prayātv atra sātvatasya yathātathā ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ [dhv] yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ hate tu bhūriśravasi sandhave ca nipātite sātyakiś cāpi virathaḥ kaṃ samārūḍhavān ratham cakrarakṣau ca pāñcālyau tan mamācakṣva saṃjaya [s] hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho vijetavyo yathā vīraḥ sātyakir yūpaketunā atītānāgataṃ rājan sa hi vetti janārdanaḥ ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha ratho me yujyatāṃ kālyam iti rājan mahābalaḥ na hi devā na gandharvā na yakṣoraga rākṣasāḥ mānavā vā vijetāraḥ kṛṣṇayoḥ santi ke cana pitāmahapurogāś ca devāḥ siddhāś ca taṃ viduḥ tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam ratham anvānayat tasmai suparṇocchritaketanam sa keśavasyānumate rathaṃ dāruka saṃyutam āruroha śineḥ pautro jvalanāditya saṃnibham kāmagaiḥ sainyasugrīva meghapuṣpabalāhakaiḥ hayodagrair mahāvegair hemabhāṇḍa vibhūṣitaiḥ yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham abhyadravata rādheyaṃ pravapan sāyakān bahūn cakrarakṣāv api tadā yudhāmanyūttamaujasau dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan abhyadravat susaṃkruddho raṇe śaineyam acyutam naiva daivaṃ na gāndharvaṃ nāsuroraga rākṣasam tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ity uta upāramata tat sainyaṃ sa rathāśvanaradvipam tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam sarve ca samapaśyanta tad yuddham atimānuṣam tayor nṛvarayo rājan sārathyaṃ dārukasya ca gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ sārathes tu rathasthasya kāśyapeyasya vismitāḥ nabhastalagatāś caiva devagandharvadānavāḥ atīvāvahitā draṣṭuṃ karṇa śaineyayo raṇam mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe karṇaś cāmarasaṃkāśo yuyudhānaś ca sātyakiḥ anyonyaṃ tau mahārāja śaravarṣair avarṣatām pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ amṛṣyamāṇo nidhanaṃ kauravya jalasaṃdhayoḥ karṇaḥ śokasamāviṣṭo mahoraga iva śvasan sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā abhyadravata vegena punaḥ punar ariṃdamaḥ taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā tau sametya naravyāghrau vyāghrāv iva tarasvinau anyonyaṃ saṃtatakṣāte raṇe 'nupama vikramau tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ vibheda sarvagātreṣu punaḥ punar ariṃdamaḥ sārathiṃ cāsya bhallena rathanīḍād apāharat aśvāṃś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ tato vimanaso rājaṃs tāvakāḥ puruṣarṣabhāḥ vṛṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā droṇaputraś ca śaineyaṃ sarvataḥ paryavārayan tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃ cana tathā sātyakinā vīre virathe sūtaje kṛte hāhākāras tato rājan sarvasainyeṣu cābhavat karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ duryodhana rathaṃ rājann āruroha viniḥśvasan mānayaṃs tava putrasya bālyāt prabhṛti sauhṛdam kṛtāṃ rājyapradānena pratijñāṃ paripālayan tathā tu virathe karṇe putrān vai tava pārthiva duḥśāsana mukhāñ śūrān nāvadhīt sātyakir vaśī rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā virathān vihvalāṃś cakre na tu prāṇair vyayojayat bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ punardyūte ca pārthena vadhaḥ karṇasya śaṃśrutaḥ vadhe tv akurvan yatnaṃ te tasya karṇa mukhās tadā nāśaknuvaṃś ca taṃ hantuṃ sātyakiṃ pravarā rathāḥ drauṇiś ca kṛtavarmā ca tathaivānye mahārathāḥ nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ śaineyo vā naravyaghraś caturtho nopalabhyate [dhṛ] ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ virathaṃ kṛtavān karṇaṃ vāsudeva samo yuvā dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ kac cid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ etad icchāmy ahaṃ śrotuṃ kuśalo hy asi bhāṣitum asahyaṃ tam ahaṃ manye tan mamācakṣva saṃjaya [s] śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ dārukasyānujas tūrṇaṃ kalpanā vidhikalpitam āyasaiḥ kāñcanairś cāpi paṭṭair naddhaṃ sa kūbaram tārā sahasrakhacitaṃ siṃhadhvajapatākinam aśvair vātajavair yuktaṃ hemabhāṇḍa paricchadaiḥ pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate ghaṇṭājālākula ravaṃ śaktitomaravidyutam vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam rathaṃ saṃpādayām āsa meghagambhīra nisvanam taṃ samāruhya śaineyas tava sainyam upādravat dāruko 'pi yathākāmaṃ prayayau keśavāntikam karṇasyāpi mahārāja śaṅkhagokṣīra pāṇḍuraiḥ citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ hemakakṣyā dhvajopetaṃ kḷpta yantrapatākinam agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam upājahrus tam āsthāya karṇo 'py abhyadravad ripūn etat te saram ākhyātaṃ yan māṃ tvaṃ paripṛcchasi bhūyaś cāpi nibodha tvaṃ tavāpanayajaṃ kṣayam ekatriṃśat tava sutā bhīmasenena pātitāḥ durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam śataśo nihatāḥ śūrāḥ sātvatenārjunena ca bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa evam eṣa kṣayo vṛtto rājan durmantrite tava |