|
[स] परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत कषत्रधर्मः पुरा दृष्टॊ यस तु देवैर महात्मभिः तं तवं सात्वत संत्यज्य दस्यु धर्मे कथं रतः पराङ्मुखाय दीनाय नयस्तशस्त्राय याचते कषत्रधर्मरतः पराज्ञः कथं नु परहरेद रणे दवाव एव किल वृष्णीनां तत्र खयातौ महारथौ परद्युम्नश च महाबाहुस तवं चैव युधि सात्वत कथं परायॊपविष्टाय पार्थेन छिन्नबाहवे नृशंसं पतनीयं च तादृशं कृतवान असि शपे सात्वत पुत्राभ्याम इष्टेन सुकृतेन च अनतीताम इमां रात्रिं यदि तवां वीर मानिनम अरक्ष्यमाणं पार्थेन जिष्णुना स सुतानुजम न हन्यां निरये घॊरे पतेयं वृष्णिपांसन एवम उक्त्वा सुसंक्रुद्धः सॊमदत्तॊ महाबलः दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ततः कमलपत्राक्षः सिंहदंष्ट्रॊ महाबलः सात्वतॊ भृशसंक्रुद्धः सॊमदत्तम अथाब्रवीत हतॊ भूरिश्रवा वीरस तव पुत्रॊ महारथः शरश चैव तथा राजन भरातृव्यसनकर्शितः तवां चाप्य अद्य वधिष्यामि सपुत्रपशुबान्धवम तिष्ठेदानीं रणे यत्तः कौरवॊ ऽसि विशेषतः यस्मिन्दानं दमः शौचम अहिंसा हरीर धृतिः कषमा अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे मृदङ्गकेतॊस तस्य तवं तेजसा निहतः पुरा स कर्ण सौबलः संख्ये विनाशं समुपेष्यसि शपे ऽहं कृष्ण चरणैर इष्टापूर्तेन चैव ह यदि तवां ससुतं पापं न हन्यां युधि रॊषितः अपयास्यसि चेत तयक्त्वा ततॊ मुक्तॊ भविष्यसि एवम आभाष्य चान्यॊन्यं करॊधसंरक्तलॊचनौ परवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ ततॊ गजसहस्रेण रथानाम अयुतेन च दुर्यॊधनः सॊमदत्तं परिवार्य वयवस्थितः शकुनिश च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः पुत्रपौत्रैः परिवृतॊ भरातृभिश चेन्द्र विक्रमैः सयालस तव महाबाहुर वज्रसंहननॊ युवा साग्रं शतसहस्रं तु हयानां तस्य धीमतः सॊमदत्तं महेष्वासं समन्तात पर्यरक्षत रक्ष्यमाणश च बलिभिश छादयाम आस सात्यकिम तं छाद्यमानं विशिखैर दृष्ट्वा संनतपर्वभिः धृष्टद्युम्नॊ ऽभययात करुद्धः परगृह्य महतीं चमूम चण्डवाताभिसृष्टानाम उदधीनाम इव सवनः आसीद राजन बलौघानाम अन्यॊन्यम अभिनिघ्नताम विव्याध सॊमदत्तस तु सात्वतं नवभिः शरैः सात्यकिर दशभिश चैनम अवधीत कुरुपुंगवम सॊ ऽतिविद्धॊ बलवता समरे दृढधन्विना रथॊपस्थं समासाद्य मुमॊह गतचेतनः तं विमूढं समालक्ष्य सारथिस तवरयान्वितः अपॊवाह रणाद वीरं सॊमदत्तं महारथम तं विसंज्ञं समालॊक्य युयुधान शरार्दितम दरौणिर अभ्यद्रवत करुद्धः सात्वतं रणमूर्धनि तम आपतन्तं संप्रेक्ष्य शैनेयस्य रथं परति भैमसेनिः सुसंक्रुद्धः परत्यमित्रम अवारयत कार्ष्णायसमयं घॊरम ऋक्षचर्मावृतं महत युक्तं गजनिभैर वाहैर न हयैर नापि वा गजैः विक्षिप्तम अष्टचक्रेण विवृताक्षेण कूजता धवजेनॊच्छ्रिततुण्डेन गृध्रराजेन राजता लॊहितार्द्र पताकं तम अन्त्र माला विभूषितम अष्टचक्रसमायुक्तम आस्थाय विपुलं रथम शूलमुद्गर धारिण्या शैलपादप हस्तया रक्षसां घॊररूपाणाम अक्षैहिण्या समावृतः तम उद्यतमहाचापं निशाम्य वयथिता नृपाः युगान्तकालसमये दण्डहस्तम इवान्तकम भयार्दिता पचुक्षॊभ पुत्रस्य तव वाहिनी वायुना कषॊभितावर्ता गङ्गेवॊर्ध्व तरङ्गिणी गटॊत्कच परयुक्तेन सिंहनादेन भीषिताः परसुस्रुवुर गजा मूत्रं विव्यथुश च नरा भृशम ततॊ ऽशमवृष्टिर अत्यर्थम आसीत तत्र समन्ततः संध्याकालाधिक बलैः परमुक्ता राक्षसैः कषितौ आयसानि च चक्राणि भुशुण्ड्यः परासतॊमराः पतन्त्य अविरलाः शूलाः शतघ्न्यः पट्टिशास तथा तद उग्रम अतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः तनयास तव कर्णश च वयथिताः पराद्रवन दिशः तत्रैकॊ ऽसत्रबलश्लाघी दरौणिर मानी न विव्यथे वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम निहतायां तु मायायाम अमर्षी स घटॊत्कचः विससर्ज शरान घॊरांस ते ऽशवत्थामानम आविशन भुजगा इव वेगेन वल्मीकं करॊधमूर्छिताः ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वती सुतम विविशुर धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः अश्वत्थामा तु संक्रुद्धॊ लघुहस्तः परतापवान घटॊत्कचम अभिक्रुद्धं बिभेद दशभिः शरैः घटॊत्कचॊ ऽतिविद्धस तु दरॊणपुत्रेण मर्मसु चक्रं शतसहस्रारम अगृह्णाद वयथितॊ भृशम कषुरान्तं बालसूर्याभं मणिवज्र विभूषितम अश्वत्थाम्नस तु चिक्षेप भैमसेनिर जिघांसया वेगेन महता गच्छद विक्षिप्तं दरौणिना शरैः अभाग्यस्येव संकल्पस तन मॊघं नयपतद भुवि घटॊत्कचस ततस तूर्णं दृष्ट्वा चक्रं निपातितम दरौणिं पराच्छादयद बाणैः सवर्भानुर इव भास्करम घटॊत्कच सुतः शरीमान भिन्नाञ जनचयॊपमः रुरॊध दरौणिम आयान्तं परभञ्जनम इवाद्रिराट पौत्रेण भीमसेनस्य शरैः सॊ ऽञजन पर्वणा बभौ मेघेन धाराभिर घिरिर मेरुर इवार्दितः अश्वत्थामा तव असंभ्रान्तॊ रुद्रॊपेन्द्रेन्द्र विक्रमः धवजम एकेन बाणेन चिच्छेदाञ्जनपर्वणः दवाभ्यां तु रथयन्तारं तरिभिश चास्य तरिवेणुकम धनुर एकेन चिच्छेद चतुर्भिश चतुरॊ हयान विरथस्यॊद्यतं हस्ताद धेमबिन्दुभिर आचितम विशिखेन सुतीक्ष्णेन खड्गम अस्य दविधाकरॊत गदा हेमाङ्गदा राजंस तूर्णं हैडिम्ब सूनुना भराम्यॊत्क्षिप्ता शरैः सापि दरौणिनाभ्याहतापतत ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नदन ववर्षाञ्जन पर्वा स दरुमवर्षं नभस्तलात ततॊ मायाधरं दरौणिर घटॊत्कच सुतं दिवि मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः सॊ ऽवतीर्य पुनस तस्थौ रथे हेमपरिष्कृते महीधर इवात्युच्चः शरीमान अञ्जन पर्वतः तम अयस्मय वर्माणं दरौणिर भीमात्मजात्मजम जघानाञ्जन पर्वाणं महेश्वर इवान्धकम अथ दृष्ट्वा हतं पुत्रम अश्वत्थाम्ना महाबलम दरौणेः सकाशम अभ्येत्य रॊषात पचलिताङ्गदः पराह वाक्यम असंभ्रान्तॊ वीरं शारद्वती सुतम दहन्तं पाण्डवानीकं वनम अग्निम इवॊद्धतम तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि तवाम अद्य निहनिष्यामि करौञ्चम अग्निसुतॊ यथा [अष्व] गच्छ वत्स सहान्यैस तवं युध्यस्वामर विक्रम न हि पुत्रेण हैडिम्बे पिता नयाय्यं परबाधितुम कामं खलु न मे रॊषॊ हैडिम्बे विद्यते तवयि किं तु रॊषान्वितॊ जन्तुर हन्याद आत्मानम अप्य उत [स] शरुत्वैतत करुध ताम्राक्षः पुत्रशॊकसमन्वितः अश्वत्थामानम आयस्तॊ भैमसेनिर अभाषत किम अहं कातरॊ दरौणे पृथग्जन इवाहवे भीमात खल्व अहम उत्पन्नः कुरूणां विपुले कुले पाण्डवानाम अहं पुत्रः समरेष्व अनिवर्तिनाम रक्षसाम अधिराजॊ ऽहं दशग्रीव समॊ बले तिष्ठ तिष्ठ न मे जीवन दरॊणपुत्र गमिष्यसि युद्धश्रद्धाम अहं ते ऽदय विनेष्यामि रणाजिरे इत्य उक्त्वा रॊषताम्राक्षॊ राक्षसः सुमहाबलः दरौणिम अभ्यद्रवत करुद्धॊ गजेन्द्रम इव केसरी रथाक्षमात्रैर इषुभिर अभ्यवर्षद घटॊत्कचः रथिनाम ऋषभं दरौणिं धाराभिर इव तॊयदः शरवृष्टिं शरैर दरौणिर अप्राप्तां तां वयशातयत ततॊ ऽनतरिक्षे बाणानां संग्रामॊ ऽनय इवाभवत अथास्त्र संघर्षकृतैर विस्फुलिङ्गैः समाबभौ विभावरी मुखे वयॊम खद्यॊतैर इव चित्रितम निशाम्य निहतं मायां दरौणिना रणमानिना घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः सॊ ऽभवद गिरिर इत्य उच्चः शिखरैस तरुसंकटैः शूलप्रासासि मुसलजलप्रस्रवणॊ महान तम अञ्जन चयप्रख्यं दरौणिर दृष्ट्वा महीधरम परपतद्भिश च बहुभिः शस्त्रसंघैर न चुक्षुभे ततः समयन्न इव दरौणिर वज्रम अस्त्रम उदीरयत स तेनास्त्रेण शैलेन्द्रः कषिप्तः कषिप्रम अनश्यत ततः स तॊयदॊ भूत्वा नीलः सेन्द्रायुधॊ दिवि अश्मवृष्टिभिर अत्युग्रॊ दरौणिम आच्छादयद रणे अथ संधाय वायव्यम अस्त्रम अस्त्रविदां वरः वयधमद दरॊण तनयॊ नीलमेघं समुत्थितम स मार्गणगणैर दरौणिर दिशः परच्छाद्य सर्वतः शतं रथसहस्राणां जघान दविपदां वरः स दृष्ट्वा पुनर आयान्तं रथेनायत कार्मुकम घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम सिंहशार्दूलसदृशैर मत्तद्विरदविक्रमैः गजस्थैश च रथस्थैश च वाजिपृष्ठ गतैर अपि विवृतास्य शिरॊग्रीवैर हैडिम्बानुचरैः सह पौलस्त्यैर यातुधानैश च तामसैश चॊग्रविक्रमैः नानाशस्त्रधरैर वीरैर नाना कवचभूषणैः महाबलैर भीमरवैः संरम्भॊद्वृत्त लॊचनैः उपस्थितैस ततॊ युद्धे राक्षसैर युद्धदुर्मदैः विषण्णम अभिसंप्रेक्ष्य पुत्रं ते दरौणिर अब्रवीत तिष्ठ दुर्यॊधनाद्य तवं न कार्यः संभ्रमस तवया सहैभिर भरातृभिर वीरैः पार्थिवैश चेन्द्र विक्रमैः निहनिष्याम्य अमित्रांस ते न तवास्ति पराजयः सत्यं ते परतिजानामि पर्याश्वासय वाहिनीम [दुर] न तव एतद अद्भुतं मन्ये यत ते महद इदं मनः अस्मासु च परा भक्तिस तव गौतमिनन्दन [स] अश्वत्थामानम उक्त्वैवं ततः सौबलम अब्रवीत वृतः शतसहस्रेण रथानां रणशॊभिनाम षष्ट्या गजसहस्रैश च परयाहि तवं धनंजयम कर्णश च वृषसेनश च कृपॊ नीलस तथैव च उदीच्याः कृतवर्मा च पुरुमित्रः शरुतार्पणः दुःशासनॊ निकुम्भश च कुण्ड भेदी उरु करमः पुरंजयॊ दृढरथः पताकी हेमपङ्कजः शल्यारुणीन्द्र सेनाश च संजयॊ विजयॊ जयः कमलाक्षः पुरुः कराथी जय वर्मा सुदर्शनः एते तवाम अनुयास्यन्ति पत्तीनाम अयुतानि षट जहि भीमं यमौ चॊभौ धर्मराजं च मातुल असुरान इव देवेन्द्रॊ जयाशा मे तवयि सथिता दारितान दरौणिना बाणैर भृशं विक्षत विग्रहान अझि मातुलकौन्तेयान असुरान इव पावकिः एवम उक्तॊ ययौ शीघ्रं पुत्रेण तव सौबलः पिप्रीषुस ते सुतान राजन दिधक्षुश चैव पाण्डवान अथ परववृते युद्धं दरौणिराक्षसयॊर मृधे विभावर्यां सुतुमुलं शक्र परह्रादयॊर इव ततॊ घटॊत्कचॊ बाणैर दशभिर गौतमी सुतम जघानॊरसि संक्रुद्धॊ विषाग्निप्रतिमैर दृढैः स तैर अभ्याहतॊ गाढं शरैर भीमसुतेरितैः चचाल रथमध्यस्थॊ वातॊद्धूत इव दरुमः भूयश चाञ्जलिकेनास्य मार्गणेन महाप्रभम दरौणिहस्तस्थितं चापं चिच्छेदाशु घटॊत्कचः ततॊ ऽनयद दरौणिर आदाय धनुर भारसहं महत ववर्ष विशिखांस तीक्ष्णान वारिधारा इवाम्बुदः ततः शारद्वती पुत्रः परेषयाम आस भारत सुवर्णपुङ्खाञ शत्रुघ्नान खचरान खचरान परति तद बाणैर अर्दितं यूथं रक्षसां पीनवक्षसाम सिंहैर इव बभौ मत्तं गजानाम आकुलं कुलम विधम्य राक्षसान बाणैः साश्वसूत रथान विभुः ददाह भगवान वह्निर भूतानीव युगक्षये स दग्ध्वाक्षौहिणीं बाणैर नैरृतान रुरुचे भृशम पुरेव तरिपुरं दग्ध्वा दिवि देवॊ महेश्वरः युगान्ते सर्वभूतानि दग्ध्वेव वसुर उल्बणः रराज जयतां शरेष्ठॊ दरॊणपुत्रस तवाहितान तेषु राजसहस्रेषु पाण्डवेयेषु भारत नैनं निरीक्षितुं कश चिच छक्नॊति दरौणिम आहवे ऋते घटॊत्कचाद वीराद राक्षसेन्द्रान महाबलात स पुनर भरतश्रेष्ठ करॊधाद रक्तान्तलॊचनः तलं तलेन संहत्य संदश्य दशनच छदम सवसूतम अब्रवीत करुद्धॊ दरॊणपुत्राय मां वह स ययौ घॊररूपेण तेन जैत्र पताकिना दवैरथं दरॊण रूपेण पुनर अप्य अरिसूदनः स चिक्षेप ततः करुद्धॊ दरॊणपुत्राय राक्षसः अष्टचक्रां महारौद्राम अशनीं रुद्र निर्मिताम ताम अवप्लुत्य जग्राह दरौणिर नयस्य रथे धनुः चिक्षेप चैनां तस्यैव सयन्दनात सॊ ऽवपुप्लुवे साश्वसूत धवजं वाहं भस्मकृत्वा महाप्रभा विवेश वसुधं भित्त्वा साशनिर भृशदारुणा दरौणेस तत कर्म दृष्ट्वा तु सर्वभूतान्य अपूजयन यद अवप्लुत्य जग्राह घॊरां शंकर निर्मिताम धृष्टद्युम्न रथं गत्वा भैमसेनिस ततॊ नृप मुमॊच निशितान बाणान पुनर दरौणेर महॊरसि धृष्टद्युम्नॊ ऽपय असंभ्रान्तॊ मुमॊचाशीविषॊपमान सुवर्णपुङ्खान विशिखान दरॊणपुत्रस्य वक्षसि ततॊ मुमॊच नाराचान दरौणिस ताभ्यां सहस्रशः ताव अप्य अग्निशिखा परख्यैर जघ्नतुस तस्य मार्गणान अतितीव्रम अभूद युद्धं तयॊः पुरुषसिंहयॊः यॊधानां परीतिजननं दरौणेश च भरतर्षभ ततॊ रथसहस्रेण दविरदानां शतैस तरिभिः षड्भिर वाजिसहस्रैश च भीमस तं देशम आव्रजत ततॊ भीमात्मजं रक्षॊ धृष्टद्युम्नं च सानुगम अयॊधयत धर्मात्मा दरौणिर अक्लिष्टकर्मकृत तत्राद्भुततमं दरौणिर दर्शयाम आस विक्रमम अशक्यं कर्तुम अन्येन सर्वभूतेषु भारत निमेषान्तरमात्रेण साश्वसूत रथद्विपाम अक्षौहिणीं राक्षसानां शितैर बाणैर अशातयत मिषतॊ भीमसेनस्य हैडिम्बेः पार्षतस्य च यमयॊर धर्मपुत्रस्य विजयस्याच्युतस्य च परगाढम अञ्जॊ गतिभिर नाराचैर अभिताडिताः निपेतुर दविरदा भूमौ दविशृङ्गा इव पर्वताः निकृत्तैर हस्तिहस्तैश च विचलद्भिर इतस ततः रराज वसुधा कीर्णा विसर्पद्भिर इवॊरगैः कषिप्तैः काञ्चनदण्डैश च नृपच छत्रैः कषितिर बभौ दयौर इवॊदित चन्द्रार्का गरहाकीर्णा युगक्षये परवृद्धध्वजमण्डूकां भेरी विस्तीर्णकच्चपाम छत्रहंसावली जुष्टां फेनचामरमालिनीम कङ्कगृध्रमहाग्राहां नैकायुध झषाकुलाम रथक्षिप्त महावप्रां पताका रुचिरद्रुमाम शरमीनां महारौद्रां परासशक्त्युग्रडुण्डुभाम मज्जा मांसमहापङ्कां कबन्धावर्जितॊडुपाम केशशैवलकल्माषां भीरूणां कश्मलावहाम नागेन्द्र हययॊधानां शरीरव्यय संभवाम शॊणितौघमहावेगां दरौणिः परावर्तयन नदीम यॊधार्तरव निर्घॊषां कषतजॊर्मि समाकुलाम परायाद अतिमहाघॊरं यमक्षयमहॊदधिम निहत्य राक्षसान बाणैर दरौणिर हैडिम्बम आर्दयत पुनर अप्य अतिसंक्रुद्धः स वृकॊदर पार्षतान स नाराचगणैः पार्थान दरौणिर विद्ध्वा महाबलः जघान सुरथं नाम दरुपदस्य सुतं विभुः पुनः शरुतंजयं नाम सुरथस्यानुजं रणे बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान शरुताह्वयं च राजेन्द्र दरौणिर निन्ये यमक्षयम तरिभिश चान्यैः शरैस तीक्ष्णैः सुपुङ्खै रुक्ममालिनाम शत्रुंजयं च बलिनं शक्र लॊकं निनाय ह जघान स पृषध्रं च चन्द्र देवं च मानिनम कुन्तिभॊजसुतांश चाजौ दशभिर दश जघ्निवान अश्वत्थामा सुसंक्रुद्धः संधायॊग्रम अजिह्मगम मुमॊचाकर्ण पूर्णेन धनुषा शरम उत्तमम यमदण्डॊपमं गॊरम उद्दिश्याशु घटॊत्कचम स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः विवेश वसुधां शीघ्रं स पुङ्खः पृथिवीपते तं हतं पतितं जञात्वा धृष्टद्युम्नॊ महारथः दरौणेः सकाशाद राजेन्द्र अपनिन्ये रथान्तरम तथा पराङ्मुख रथं सैन्यं यौधिष्ठिरं नृप पराजित्य रणे वीरॊ दरॊणपुत्रॊ ननाद ह पूजितः सर्वभूतैश च तव पुत्रैश च भारत अथ शरशतभिन्नकृत्तदेहैर; हतपतितैः कषणदाचरैः समन्तात निधनम उपगतैर महीकृताभूद; गिरिशिखरैर इव दुर्गमातिरौद्रा तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरॊ वयांसि रक्षॊगणा भूतगणाश च दरौणिम; अपूजयन्न अप्सरसः सुराश च |
[s] prāyopaviṣṭe tu hate putre sātyakinā tataḥ somadatto bhṛśaṃ kruddhaḥ sātyaktiṃ vākyam abravīt kṣatradharmaḥ purā dṛṣṭo yas tu devair mahātmabhiḥ taṃ tvaṃ sātvata saṃtyajya dasyu dharme kathaṃ rataḥ parāṅmukhāya dīnāya nyastaśastrāya yācate kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe dvāv eva kila vṛṣṇīnāṃ tatra khyātau mahārathau pradyumnaś ca mahābāhus tvaṃ caiva yudhi sātvata kathaṃ prāyopaviṣṭāya pārthena chinnabāhave nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi śape sātvata putrābhyām iṣṭena sukṛtena ca anatītām imāṃ rātriṃ yadi tvāṃ vīra māninam arakṣyamāṇaṃ pārthena jiṣṇunā sa sutānujam na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt hato bhūriśravā vīras tava putro mahārathaḥ śaraś caiva tathā rājan bhrātṛvyasanakarśitaḥ tvāṃ cāpy adya vadhiṣyāmi saputrapaśubāndhavam tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ yasmindānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire mṛdaṅgaketos tasya tvaṃ tejasā nihataḥ purā sa karṇa saubalaḥ saṃkhye vināśaṃ samupeṣyasi śape 'haṃ kṛṣṇa caraṇair iṣṭāpūrtena caiva ha yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ apayāsyasi cet tyaktvā tato mukto bhaviṣyasi evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau tato gajasahasreṇa rathānām ayutena ca duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ śakuniś ca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ putrapautraiḥ parivṛto bhrātṛbhiś cendra vikramaiḥ syālas tava mahābāhur vajrasaṃhanano yuvā sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ somadattaṃ maheṣvāsaṃ samantāt paryarakṣata rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ āsīd rājan balaughānām anyonyam abhinighnatām vivyādha somadattas tu sātvataṃ navabhiḥ śaraiḥ sātyakir daśabhiś cainam avadhīt kurupuṃgavam so 'tividdho balavatā samare dṛḍhadhanvinā rathopasthaṃ samāsādya mumoha gatacetanaḥ taṃ vimūḍhaṃ samālakṣya sārathis tvarayānvitaḥ apovāha raṇād vīraṃ somadattaṃ mahāratham taṃ visaṃjñaṃ samālokya yuyudhāna śarārditam drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani tam āpatantaṃ saṃprekṣya śaineyasya rathaṃ prati bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā dhvajenocchritatuṇḍena gṛdhrarājena rājatā lohitārdra patākaṃ tam antra mālā vibhūṣitam aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham śūlamudgara dhāriṇyā śailapādapa hastayā rakṣasāṃ ghorarūpāṇām akṣaihiṇyā samāvṛtaḥ tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ yugāntakālasamaye daṇḍahastam ivāntakam bhayārditā pacukṣobha putrasya tava vāhinī vāyunā kṣobhitāvartā gaṅgevordhva taraṅgiṇī gaṭotkaca prayuktena siṃhanādena bhīṣitāḥ prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ saṃdhyākālādhika balaiḥ pramuktā rākṣasaiḥ kṣitau āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ tanayās tava karṇaś ca vyathitāḥ prādravan diśaḥ tatraiko 'strabalaślāghī drauṇir mānī na vivyathe vyadhamac ca śarair māyāṃ ghaṭotkaca vinirmitām nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ visasarja śarān ghorāṃs te 'śvatthāmānam āviśan bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ te śarā rudhirābhyaktā bhittvā śāradvatī sutam viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ ghaṭotkaco 'tividdhas tu droṇaputreṇa marmasu cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam kṣurāntaṃ bālasūryābhaṃ maṇivajra vibhūṣitam aśvatthāmnas tu cikṣepa bhaimasenir jighāṃsayā vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ abhāgyasyeva saṃkalpas tan moghaṃ nyapatad bhuvi ghaṭotkacas tatas tūrṇaṃ dṛṣṭvā cakraṃ nipātitam drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram ghaṭotkaca sutaḥ śrīmān bhinnāñ janacayopamaḥ rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ pautreṇa bhīmasenasya śaraiḥ so 'ñjana parvaṇā babhau meghena dhārābhir ghirir merur ivārditaḥ aśvatthāmā tv asaṃbhrānto rudropendrendra vikramaḥ dhvajam ekena bāṇena cicchedāñjanaparvaṇaḥ dvābhyāṃ tu rathayantāraṃ tribhiś cāsya triveṇukam dhanur ekena ciccheda caturbhiś caturo hayān virathasyodyataṃ hastād dhemabindubhir ācitam viśikhena sutīkṣṇena khaḍgam asya dvidhākarot gadā hemāṅgadā rājaṃs tūrṇaṃ haiḍimba sūnunā bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat tato 'ntarikṣam utpatya kālamegha ivonnadan vavarṣāñjana parvā sa drumavarṣaṃ nabhastalāt tato māyādharaṃ drauṇir ghaṭotkaca sutaṃ divi mārgaṇair abhivivyādha dhanaṃ sūrya ivāṃśubhiḥ so 'vatīrya punas tasthau rathe hemapariṣkṛte mahīdhara ivātyuccaḥ śrīmān añjana parvataḥ tam ayasmaya varmāṇaṃ drauṇir bhīmātmajātmajam jaghānāñjana parvāṇaṃ maheśvara ivāndhakam atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam drauṇeḥ sakāśam abhyetya roṣāt pacalitāṅgadaḥ prāha vākyam asaṃbhrānto vīraṃ śāradvatī sutam dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi tvām adya nihaniṣyāmi krauñcam agnisuto yathā [aṣv] gaccha vatsa sahānyais tvaṃ yudhyasvāmara vikrama na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi kiṃ tu roṣānvito jantur hanyād ātmānam apy uta [s] śrutvaitat krudha tāmrākṣaḥ putraśokasamanvitaḥ aśvatthāmānam āyasto bhaimasenir abhāṣata kim ahaṃ kātaro drauṇe pṛthagjana ivāhave bhīmāt khalv aham utpannaḥ kurūṇāṃ vipule kule pāṇḍavānām ahaṃ putraḥ samareṣv anivartinām rakṣasām adhirājo 'haṃ daśagrīva samo bale tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ drauṇim abhyadravat kruddho gajendram iva kesarī rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat athāstra saṃgharṣakṛtair visphuliṅgaiḥ samābabhau vibhāvarī mukhe vyoma khadyotair iva citritam niśāmya nihataṃ māyāṃ drauṇinā raṇamāninā ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ śūlaprāsāsi musalajalaprasravaṇo mahān tam añjana cayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam prapatadbhiś ca bahubhiḥ śastrasaṃghair na cukṣubhe tataḥ smayann iva drauṇir vajram astram udīrayat sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe atha saṃdhāya vāyavyam astram astravidāṃ varaḥ vyadhamad droṇa tanayo nīlameghaṃ samutthitam sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ sa dṛṣṭvā punar āyāntaṃ rathenāyata kārmukam ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam siṃhaśārdūlasadṛśair mattadviradavikramaiḥ gajasthaiś ca rathasthaiś ca vājipṛṣṭha gatair api vivṛtāsya śirogrīvair haiḍimbānucaraiḥ saha paulastyair yātudhānaiś ca tāmasaiś cogravikramaiḥ nānāśastradharair vīrair nānā kavacabhūṣaṇaiḥ mahābalair bhīmaravaiḥ saṃrambhodvṛtta locanaiḥ upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ viṣaṇṇam abhisaṃprekṣya putraṃ te drauṇir abravīt tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramas tvayā sahaibhir bhrātṛbhir vīraiḥ pārthivaiś cendra vikramaiḥ nihaniṣyāmy amitrāṃs te na tavāsti parājayaḥ satyaṃ te pratijānāmi paryāśvāsaya vāhinīm [dur] na tv etad adbhutaṃ manye yat te mahad idaṃ manaḥ asmāsu ca parā bhaktis tava gautaminandana [s] aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām ṣaṣṭyā gajasahasraiś ca prayāhi tvaṃ dhanaṃjayam karṇaś ca vṛṣasenaś ca kṛpo nīlas tathaiva ca udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ duḥśāsano nikumbhaś ca kuṇḍa bhedī uru kramaḥ puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ śalyāruṇīndra senāś ca saṃjayo vijayo jayaḥ kamalākṣaḥ puruḥ krāthī jaya varmā sudarśanaḥ ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula asurān iva devendro jayāśā me tvayi sthitā dāritān drauṇinā bāṇair bhṛśaṃ vikṣata vigrahān ajhi mātulakaunteyān asurān iva pāvakiḥ evam ukto yayau śīghraṃ putreṇa tava saubalaḥ piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe vibhāvaryāṃ sutumulaṃ śakra prahrādayor iva tato ghaṭotkaco bāṇair daśabhir gautamī sutam jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ cacāla rathamadhyastho vātoddhūta iva drumaḥ bhūyaś cāñjalikenāsya mārgaṇena mahāprabham drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat vavarṣa viśikhāṃs tīkṣṇān vāridhārā ivāmbudaḥ tataḥ śāradvatī putraḥ preṣayām āsa bhārata suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam vidhamya rākṣasān bāṇaiḥ sāśvasūta rathān vibhuḥ dadāha bhagavān vahnir bhūtānīva yugakṣaye sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam pureva tripuraṃ dagdhvā divi devo maheśvaraḥ yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ rarāja jayatāṃ śreṣṭho droṇaputras tavāhitān teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata nainaṃ nirīkṣituṃ kaś cic chaknoti drauṇim āhave ṛte ghaṭotkacād vīrād rākṣasendrān mahābalāt sa punar bharataśreṣṭha krodhād raktāntalocanaḥ talaṃ talena saṃhatya saṃdaśya daśanac chadam svasūtam abravīt kruddho droṇaputrāya māṃ vaha sa yayau ghorarūpeṇa tena jaitra patākinā dvairathaṃ droṇa rūpeṇa punar apy arisūdanaḥ sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ aṣṭacakrāṃ mahāraudrām aśanīṃ rudra nirmitām tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve sāśvasūta dhvajaṃ vāhaṃ bhasmakṛtvā mahāprabhā viveśa vasudhaṃ bhittvā sāśanir bhṛśadāruṇā drauṇes tat karma dṛṣṭvā tu sarvabhūtāny apūjayan yad avaplutya jagrāha ghorāṃ śaṃkara nirmitām dhṛṣṭadyumna rathaṃ gatvā bhaimasenis tato nṛpa mumoca niśitān bāṇān punar drauṇer mahorasi dhṛṣṭadyumno 'py asaṃbhrānto mumocāśīviṣopamān suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi tato mumoca nārācān drauṇis tābhyāṃ sahasraśaḥ tāv apy agniśikhā prakhyair jaghnatus tasya mārgaṇān atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ yodhānāṃ prītijananaṃ drauṇeś ca bharatarṣabha tato rathasahasreṇa dviradānāṃ śatais tribhiḥ ṣaḍbhir vājisahasraiś ca bhīmas taṃ deśam āvrajat tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt tatrādbhutatamaṃ drauṇir darśayām āsa vikramam aśakyaṃ kartum anyena sarvabhūteṣu bhārata nimeṣāntaramātreṇa sāśvasūta rathadvipām akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca yamayor dharmaputrasya vijayasyācyutasya ca pragāḍham añjo gatibhir nārācair abhitāḍitāḥ nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ nikṛttair hastihastaiś ca vicaladbhir itas tataḥ rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ kṣiptaiḥ kāñcanadaṇḍaiś ca nṛpac chatraiḥ kṣitir babhau dyaur ivodita candrārkā grahākīrṇā yugakṣaye pravṛddhadhvajamaṇḍūkāṃ bherī vistīrṇakaccapām chatrahaṃsāvalī juṣṭāṃ phenacāmaramālinīm kaṅkagṛdhramahāgrāhāṃ naikāyudha jhaṣākulām rathakṣipta mahāvaprāṃ patākā ruciradrumām śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām majjā māṃsamahāpaṅkāṃ kabandhāvarjitoḍupām keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām nāgendra hayayodhānāṃ śarīravyaya saṃbhavām śoṇitaughamahāvegāṃ drauṇiḥ prāvartayan nadīm yodhārtarava nirghoṣāṃ kṣatajormi samākulām prāyād atimahāghoraṃ yamakṣayamahodadhim nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat punar apy atisaṃkruddhaḥ sa vṛkodara pārṣatān sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinām śatruṃjayaṃ ca balinaṃ śakra lokaṃ nināya ha jaghāna sa pṛṣadhraṃ ca candra devaṃ ca māninam kuntibhojasutāṃś cājau daśabhir daśa jaghnivān aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam mumocākarṇa pūrṇena dhanuṣā śaram uttamam yamadaṇḍopamaṃ goram uddiśyāśu ghaṭotkacam sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ viveśa vasudhāṃ śīghraṃ sa puṅkhaḥ pṛthivīpate taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ drauṇeḥ sakāśād rājendra apaninye rathāntaram tathā parāṅmukha rathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa parājitya raṇe vīro droṇaputro nanāda ha pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata atha śaraśatabhinnakṛttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt nidhanam upagatair mahīkṛtābhūd; giriśikharair iva durgamātiraudrā taṃ siddhagandharvapiśācasaṃghā; nāgāḥ suparṇāḥ pitaro vayāṃsi rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca |