|
[स] निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः ननाद विविधान नादान वाहिन्याः परमुखे सथितः तस्य तं तुमुलं शब्दं शरुत्वा कुञ्जरकम्पनम तावकानां महाराज भयम आसीत सुदारुणम अलायुध विषक्तं तु भैमसेनिं महाबलम दृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाद्रवत दशभिर दशभिर बाणैर धृष्टद्युम्न शिखण्डिनौ दृढैः पूर्णायतॊत्सृष्टैर बिभेद नतपर्वभिः ततः परमनाराचैर युधामन्यूत्तमौजसौ सात्यकिं च रथॊदारं कम्पयाम आस मार्गणैः तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम मण्डलान्य एव चापानि वयदृश्यन्त जनाधिप तेषां जयातलनिर्घॊषॊ रथनेमि सवनश च ह मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन तद उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः विध्वंसयाम आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्दित भिन्नदेहाः के चिद विसूता विहयाश च के चिद; वैकर्तनेनाशु कृता बभूवुः अविन्दमानास तव अथ शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपद्यन तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे आस्थाय तं काञ्चनरत्नचित्रं; रथॊत्तमं सिंह इवॊननाद वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः तौ कर्णिनाराच शिलीमुखैश; च नालीकदण्डैश च स वत्सदन्तैः वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेदतुः खम तद बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः तयॊर हि वीरॊत्तमयॊर न कश चिद; ददर्श तस्मिन समरे विशेषम अतीव तच चित्रम अतीव रूपं; बभूव युद्धं रविभीम सून्वॊः समाकुलं शस्त्रनिपात घॊरं; दिवीव राह्वंशुमतॊः परतप्तम घटॊत्कचॊ यदा कर्णं न विशेषयते नृप तदा परादुश्चकारॊग्रम अस्त्रम अस्त्रविदां वरः तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः सारथिं चैव हैडिम्बः कषिप्रम अन्तरधीयत [धृ] तथा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय [स] अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रॊशन कुरवः सर्व एव कथं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽदृश्यमानः ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा दिशॊ वयावृणॊद बाणजालैः न वै किं चिद वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे न चाददानॊ न च संदधानॊ; न चेषुधी सपृशमानः कराग्रैः अदृश्यद वै लाघवात सूतपुत्रः; सर्वं बाणैश छादयानॊ ऽनतरिक्षम ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां दारुणां राक्षसेन संपश्यामॊ लॊहिताभ्र परकाशां; देदीप्यन्तीम अग्निशिखाम इवॊग्राम ततस तस्या विद्युतः परादुरासन्न; उल्काश चापि जवलिताः कौरवेन्द्र घॊषश चान्यः परादुरासीत सुघॊरः; सहस्रशॊ नदतां दुन्दुभीनाम ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि परश्वधास तैलधौताश च खड्गाः; परदीप्ताग्राः पट्टिशास तॊमराश च मयूखिनः परिघा लॊहबद्धा; गदाश चित्राः शितधाराश च शूलाः गुर्व्यॊ गदा हेमपट्टावनद्धाः; शतघ्न्यश च परादुरासन समन्तात महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः चक्राणि चानेक शतक्षुराणि; परादुर्बभूवुर जवलनप्रभाणि तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुद्गराणाम वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम शिला हतानां च महारथानां; महान निनादः पततां बभूव सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात दौर्यॊधनं तद बलम आर्तरूपम; आवर्तमानं ददृशे भरमन्तम हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तदानीम तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम दृष्ट्वा बलौघांश च निपात्यमानान; महद भयं तव पुत्रान विवेश शिवाश च वैश्वानरदीप्तजिह्वाः; सुभीम नादाः शतशॊ नदन्त्यः रक्षॊगणान नर्दतश चाभिवीक्ष्य; नरेन्द्र यॊधा वयथिता बभूवुः ते दीप्तजिह्वानन तीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाश कायाः नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम तैर आहतास ते शरशक्तिशूलैर; गदाभिर उग्रैः परिघैश च दीप्तैः वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मथिताश च पेतुः हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सथूणाश च कार्ष्णायस पट्टनद्धाः अवाकिरंस तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं परादुरासीत निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रथाः शिलाभिः एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम तस्मिन घॊरे कुरुवीरावमर्दे; कालॊत्सृष्टे कषत्रियाणाम अभावे ते वै भग्नाः सहसा वयद्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव पलायध्वं कुरवॊ नैतद अस्ति; सेन्द्रा देवा घनन्ति नः पाण्डवार्थे तथा तेषां मज्जतां भारतानां; न सम दवीपस तत्र कश चिद बभूव तस्मिन संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा निर्मर्यादे विद्रवे घॊररूपे; सर्वा दिशः परेक्षमाणाः सम शून्याः तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम ततॊ बाणैर आवृणॊद अन्तरिक्षं; दिव्यां मायां यॊधयन राक्षसस्य हरीमान कुर्वन दुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः ततॊ भीताः समुदैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान ते जानुभिर जगतीम अन्वपद्यन; गतासवॊ निर्दशनाक्षि जिह्वाः ततॊ हताश्वाद अवरुह्य वाहाद; अन्तर मनाः कुरुषु पराद्रवत्सु दिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं दृष्ट्वा घॊररूपां च मायाम शक्त्या रक्षॊ जहि कर्णाद य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः करिष्यतः किं च नॊ भीम पार्थौ; पतन्तम एनं जहि रक्षॊ निशीथे यॊ नः संग्रामाद घॊररूपाद विमुच्येत; स नः पार्थान समरे यॊधयेत तस्माद एनं राक्षसं घॊररूपं; जहि शक्त्या दत्तया वासवेन मा कौरवाः सर्व एवेन्द्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः स वध्यमानॊ रक्षसा वै निशीथे; दृष्ट्वा राजन नश्यमानं बलं च महच च शरुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमॊक्षाय कर्णः स वै करुद्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाददे तस्य वधं चिकीर्षन यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य यां वै परादात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय तां वै शक्तिं लेलिहानां परदीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊद राक्षसाय ताम उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर बाहुसंस्थां जवलन्तीम भीतं रक्षॊ विप्रदुद्राव राजन; कृत्वात्मानं विन्ध्यपादप्रमाणम दृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्थां; नेदुर भूतान्य अन्तरिक्षे नरेन्द्र ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती युद्ध्वा चित्रैर विविधैः शस्त्रपूगैर; दिव्यैर वीरॊ मानुषै राक्षसैश च नदन नादान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या इदं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः ततॊ ऽनतरिक्षाद अपतद गतासुः; स राक्षसेन्द्रॊ भुवि भिन्नदेहः अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महद आस्थाय रूपम स तद रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात हतॊ ऽपय एवं तव सैन्य एकदेशम; अपॊथयत कौरवान भीषयाणः ततॊ मिश्राः पराणदन सिंहनादैर; भेर्यः शङ्खा मुरजाश चानकाश च दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः पराणदन कौरवेयाः ततः कर्णः कुरुभिः पूज्यमानॊ; यथा शक्रॊ वृत्रवधे मरुद्भिः अन्वारूढस तव पुत्रं रथस्यं; हृष्टश चापि पराविशत सवं स सैन्यम |
[s] nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam tāvakānāṃ mahārāja bhayam āsīt sudāruṇam alāyudha viṣaktaṃ tu bhaimaseniṃ mahābalam dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat daśabhir daśabhir bāṇair dhṛṣṭadyumna śikhaṇḍinau dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ tataḥ paramanārācair yudhāmanyūttamaujasau sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇaiḥ teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam maṇḍalāny eva cāpāni vyadṛśyanta janādhipa teṣāṃ jyātalanirghoṣo rathanemi svanaś ca ha meghānām iva gharmānte babhūva tumulo niśi jyānemighoṣastanayitnumān vai; dhanus taḍin maṇḍalaketuśṛṅgaḥ śaraughavarṣākula vṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan tad udhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī tato 'tulair vajranipāta kalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ śatrūn vyapohat samare mahātmā; vaikartanaḥ putra hite ratas te saṃchinnabhinna dhvajinaś ca ke cit; ke cic charair ardita bhinnadehāḥ ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvuḥ avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre āsthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonanāda vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkaiḥ tau karṇinārāca śilīmukhaiś; ca nālīkadaṇḍaiś ca sa vatsadantaiḥ varāhakarṇaiḥ sa viṣāṇa śṛṅgaiḥ; kṣurapra varṣaiś ca vinedatuḥ kham tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja suvarṇapuṅkha jvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ samaṃ hi tāv āpratima prabhāvāv; anyonyam ājaghnatur uttamāstraiḥ tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīma sūnvoḥ samākulaṃ śastranipāta ghoraṃ; divīva rāhvaṃśumatoḥ prataptam ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa tadā prāduścakārogram astram astravidāṃ varaḥ tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata [dhṛ] tathā hy antarhite tasmin kūṭayodhini rākṣase māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya [s] antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamānaḥ tataḥ karṇo laghucitrāstra yodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamo bhūte sāyakair antarikṣe na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena saṃpaśyāmo lohitābhra prakāśāṃ; dedīpyantīm agniśikhām ivogrām tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyāḥ prāsā musalāny āyudhāni paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ cakrāṇi cāneka śatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi tāṃ śaktipāṣāṇa paraśvadhānāṃ; prāsāsivajrāśanimudgarāṇām vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum śarāhatānām atatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām śilā hatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva subhīma nānāvidha śastrapātair; ghaṭotkacenābhihataṃ samantāt dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam te tv ārya bhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa śivāś ca vaiśvānaradīptajihvāḥ; subhīma nādāḥ śataśo nadantyaḥ rakṣogaṇān nardataś cābhivīkṣya; narendra yodhā vyathitā babhūvuḥ te dīptajihvānana tīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ śailanikāśa kāyāḥ nabhogatāḥ śaktiviṣakta hastā; meghā vyamuñcann iva vṛṣṭimārgam tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ huḍā bhuśuṇḍyo 'śmaguḍāḥ śatadhnyaḥ; sthūṇāś ca kārṣṇāyasa paṭṭanaddhāḥ avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhiḥ evaṃ mahac chastra varṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ māyāḥ sṛṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya hrīmān kurvan duṣkaram ārya karma; naivāmuhyat saṃyuge sūtaputraḥ tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣi jihvāḥ tato hatāśvād avaruhya vāhād; antar manāḥ kuruṣu prādravatsu divye cāstre māyayā vadhyamāne; naimāmuhyac cintayan prāptakālam tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām śaktyā rakṣo jahi karṇād ya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ kariṣyataḥ kiṃ ca no bhīma pārthau; patantam enaṃ jahi rakṣo niśīthe yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena mā kauravāḥ sarva evendra kalpā; rātrī mukhe karṇa neśuḥ sa yodhāḥ sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇaḥ sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam dṛṣṭvā śaktiṃ karṇa bāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra vavur tāvās tumulāś cāpi rājan; sa nirghātā cāśānir gāṃ jagāma sā tāṃ māyāṃ bhasmakṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭāṃs tyājitaḥ śakra śaktyā idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya tasmin kāle śaktinirbhinna marmā; babhau rājan meghaśailaprakāśaḥ tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta hato 'py evaṃ tava sainy ekadeśam; apothayat kauravān bhīṣayāṇaḥ tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ anvārūḍhas tava putraṃ rathasyaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam |