|
[स] तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत कषणेन स रथस तस्य स धवजः सह सारथिः नादृश्यत महाराज पार्षतस्य शरैश चितः दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः नाशकत परमुखे सथातुं शरजालप्रपीडितः स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम सॊदर्याणां तरयश चैव त एनं पर्यवारयन तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत तौ परस्परम आसाद्य समिप्पे कुरु माधवौ हसमानौ नृशार्दूलाव अभीतौ समगच्छताम बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत परियं सखायं सततं गर्हयन वृत्तम आत्मनः धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव तवं हि पराणैः परियतरॊ ममाहं च सदा तव समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत तं तथा वादिनं राजन सात्यकिः परत्यभाषत परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित नेयं सभा राजपुत्र न चाचार्य निवेशनम यत्र करीडितम अस्माभिस तदा राजन समागतैः [दुर] कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया यत्र युध्यामहे सर्वे धनलॊभात समागताः [सम्जय] तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः शरैश चावाकिरद राजञ शैनेयं तनयस तव ततः परववृते युद्धं कुरु माधव सिंहयॊः अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह तस्य संधधतश चेषून संहितेषुं च कार्मुकम अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात विसृजन्न इषुजालानि युयुधान रथं परथि तथैव सात्यकिर बाणान दुर्यॊधन रथं परति परततं वयसृजद राजंस तत संकुलम अवर्तत तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः अग्नेर इव महाकक्षे शब्दः समभवन महान तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव न तु तं मर्षयाम आस भीमसेनॊ महाबलः अभ्ययात तवरितः कर्णं विसृजन सायकान बहून तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः धवजं धनुश च सूतं च संममर्दाहवे रिपॊः अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः भीमसेनपुरॊगाश च एकतः पर्यवारयन आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम कौरवेयांस ततः पार्थः सहसा समुपाद्रवत पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा दरॊणास्त्रेण महाराज वध्यमानाः परे युधि नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि पाण्डवेया महाराज नाशंसुर विजयं तदा कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित समिद्धः शिशिरापाये दहन कक्षम इवानलः न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन अपि वृत्रहणा युद्धे रथयूथप यूथपः आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम तं हतं संयुगे कश चिद अस्मै शंसतु मानवः एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः ततॊ भीमॊ महाबाहुर अनीके सवे महागजम जघान गदया राजन्न अश्वत्थामानम इत्य उत भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे अश्वत्थामा हत इति शब्दम उच्चैश चकार ह अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै हतः स इति च शरुत्वा नैव धैर्याद अकम्पत स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान शिरांस्य अपातयच चापि पाञ्चालानां महामृधे तथैव परिघाकारान बाहून कनकभूषणान ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः कुञ्जराणां च पततां हयौघानां च भारत अगम्यरूपा पृथिवी मांसशॊणितकर्दमा हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान वसु दानस्य भल्लेन शिरः कायाद अपाहरत पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम अधर्मतः कृतं युद्धं समयॊ निधनस्य ते नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च बराह्मणस्य विशेषेण तवैतन नॊपपद्यते नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे इति तेषां वचः शरुत्वा भीमसेन वचश च तत धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः सत्यं बरवीमि ते सेना विनाशं समुपैष्यति स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम शरुत्वैव तं महाराज वधॊपायं महात्मनः गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः दरॊणाय निहतं शंस राजञ शारद्वती सुतम तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः भावित्वाच च महाराज वक्तुं समुपचक्रमे तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत आगः कृतम इवात्मानं पाण्डवानां महात्मनाम ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः पार्षतेन परामृष्टं जवलन्तम इव तद धनुः अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः तम इषुं संहितं तेन भारद्वाजः परतापवान दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः शरांश च शरवर्षेण महता समवाकिरत ततस तं शरवर्षेण महता समवाकिरत वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः धवजं धनुश च निशितैः सारथिं चाप्य अपातयत धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे भल्लेन शितधारेण चिच्छेदास्य महद धनुः यच चास्य बाणं विकृतं धनूंषि च विशां पते सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः पारावत सवर्णाश च शॊणाश च भरतर्षभ यथा स विद्युतॊ मेघा नदन्तॊ जललागमे तथा रेजुर महाराज मिश्रिता रणमूर्धनि ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः उत्तमाम आपदं पराप्य गदां वीरः परामृशत ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः विमलं खड्गम आदत्त शतचन्द्रं च भानुमत असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः ततः सवरथनीडस्थः सवरथस्य रथेषया अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च शॊणानां जघनार्धेषु तत सैन्याः समपूजयन तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन संपातं समुदीर्णं च दर्शयाम आस पार्षतः ततः शरसहस्रेण शतचन्द्रम अपातयत खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः अथास्येषुं समाधत्त दृढं परमसंशितम अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम दरॊणकर्णान्तर गतं कृपस्यापि च भारत अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ धनंजयस ततः कृष्णम अब्रवीत पश्य केशव आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन |
[s] tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat sa tu rukmarathāsakto duḥśāsana śarārditaḥ amarṣāt tava putrasya śarair vāhān avākirat kṣaṇena sa rathas tasya sa dhvajaḥ saha sārathiḥ nādṛśyata mahārāja pārṣatasya śaraiś citaḥ duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ kirañ śarasahasrāṇi droṇam evābhyayād raṇe pratyapadyata hārdikyaḥ kṛtavarmā tadantaram sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam saṃprahāram akurvaṃs te sarve sapta mahārathāḥ amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ āryaṃ yuddham akurvanta parasparajigīṣavaḥ śuklābhijana karmāṇo matimanto janādhipāḥ dharmayuddham ayudhyanta prekṣanto gatim uttamām na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca nātra karṇī na nālīko na lipto na ca vastakaḥ na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmagaḥ ṛjūny eva viśuddhāni sarve śastrāṇy adhārayan suyuddhena parāṁl lokān īpsantaḥ kīrtim eva ca tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ samasajjanta catvāro vātāḥ parvatayor iva dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat duryodhano mahārāja kirañ śoṇitabhojanān taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata tau parasparam āsādya samippe kuru mādhavau hasamānau nṛśārdūlāv abhītau samagacchatām bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ atha duryodhano rājā sātyakiṃ pratyabhāṣata priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ dhik krodhaṃ dhik sakhe lobhaṃ dhin mohaṃ dhig amarṣitam dhig astu kṣātram ācāraṃ dhig astu balam aurasam yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava smarāmi tāni sarvāṇi bālye vṛttāni yāni nau tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata taṃ tathā vādinaṃ rājan sātyakiḥ pratyabhāṣata prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit neyaṃ sabhā rājaputra na cācārya niveśanam yatra krīḍitam asmābhis tadā rājan samāgataiḥ [dur] kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ [samjaya] taṃ tathā vādinaṃ tatra rājānaṃ mādhavo 'bravīt evaṃvṛtthaṃ sadā kṣatraṃ yad dhantīha gurūn api yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ tvatkṛte sukṛtāṁl lokān gaccheyaṃ bharatarṣabha yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ śaraiś cāvākirad rājañ śaineyaṃ tanayas tava tataḥ pravavṛte yuddhaṃ kuru mādhava siṃhayoḥ anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ pañcāśatā punaś cājau triṃśatā daśabhiś ca ha tasya saṃdhadhataś ceṣūn saṃhiteṣuṃ ca kārmukam acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram duryodhano mahārāja dāśārha śarapīḍitaḥ samāśvasya tu putras te sātyakiṃ punar abhyayāt visṛjann iṣujālāni yuyudhāna rathaṃ prathi tathaiva sātyakir bāṇān duryodhana rathaṃ prati pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ agner iva mahākakṣe śabdaḥ samabhavan mahān tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn tasya karṇaḥ śitān bāṇān pratihanya hasann iva dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charaiḥ bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripoḥ amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge saṃkule vartamāne tu rājā dharmasuto 'bravīt pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ tatra gacchata yatraite yudhyante māmakā rathāḥ kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān te rājñā coditā vīrā yotsyamānā mahārathāḥ caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayuḥ pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ bhīmasenapurogāś ca ekataḥ paryavārayan āsaṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam abhidravārjuna kṣipraṃ kurūn droṇād anānuda tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi nātrasanta raṇe droṇāt sattvavanto mahārathāḥ vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā droṇam evābhyayur yuddhe mohayanto mahāratham teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā kac cid droṇo na naḥ sarvān kṣapayet paramāstravit samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum na cainam arjuno jātu pratiyudhyeta dharmavit trastān kuntīsutān dṛṣṭvā droṇa sāyakapīḍitān matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana api vṛtrahaṇā yuddhe rathayūthapa yūthapaḥ āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ aśvatthāmni hate naiṣa yudhyed iti matir mama taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānavaḥ etan nārocayad rājan kuntīputro dhanaṃjayaḥ anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ tato bhīmo mahābāhur anīke sve mahāgajam jaghāna gadayā rājann aśvatthāmānam ity uta bhīmasenas tu savrīḍam upetya droṇam āhave aśvatthāmā hata iti śabdam uccaiś cakāra ha aśvattmāmeti hi gajaḥ khyāto nāmnā hato 'bhavat kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā bhīmasena vacaḥ śrutvā droṇas tatparamapriyam manasā sannagātro 'bhūd yathā saikatam ambhasi śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai hataḥ sa iti ca śrutvā naiva dhairyād akampata sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat anucintyātmanaḥ putram aviṣahyam arātibhiḥ sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ tathā carantaṃ saṃgrāme sarvato vyakirac charaiḥ tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ tato vyarocata droṇo vinighnan sarvasomakān śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe tathaiva parighākārān bāhūn kanakabhūṣaṇān te vadhyamānāḥ samare bhāradvājena pārthivāḥ medinyām anvakīryanta vātanunnā iva drumāḥ kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata agamyarūpā pṛthivī māṃsaśoṇitakardamā hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān vasu dānasya bhallena śiraḥ kāyād apāharat punaḥ pañcaśatān mastyān ṣaṭ sahasrāṃś ca sṛñjayān hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam ṛṣayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣavaḥ sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ ta enam abruvan sarve droṇam āhavaśobhinam adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi vedavedāṅgaviduṣaḥ satyadharmaparasya ca brāhmaṇasya viśeṣeṇa tavaitan nopapadyate nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe iti teṣāṃ vacaḥ śrutvā bhīmasena vacaś ca tat dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam trayāṇām api lokānām aiśvaryārthe kathaṃ cana tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ satyaṃ bravīmi te senā vināśaṃ samupaiṣyati sa bhavāṃs trātuno droṇāt satyāj jyāyo 'nṛtaṃ bhavet anṛtaṃ jīvitasyārthe vacan na spṛśyate 'nṛtaiḥ tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ gāhamānasya te senāṃ mālavasyendra varmaṇaḥ aśvatthāmeti vikhyāto gajaḥ śakra gajopamaḥ nihato yudhi vikramya tato 'haṃ droṇam abruvam aśvatthāmā hato brahman nivartasvāhavād iti nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ sa tvaṃ govinda vākyāni mānayasva jayaiṣiṇaḥ droṇāya nihataṃ śaṃsa rājañ śāradvatī sutam tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ satyavān hi nṛloke 'smin bhavān khyāto janādhipa tasya tad vacanaṃ śrutvā kṛṣṇa vākyapracoditaḥ bhāvitvāc ca mahārāja vaktuṃ samupacakrame tam atathya bhaye magno jaye sakto yudhiṣṭhiraḥ avyaktam abravīd rājan hataḥ kuñjara ity uta tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ putravyasanasaṃtapto nirāśo jīvite 'bhavat āgaḥ kṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat ya iṣṭvā manujendreṇa drupadena mahāmakhe labdhvā droṇa vināśāya samiddhād dhavyavāhanāt sadhanur jaitram ādāya ghoraṃ jaladanisvanam dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam tasya rūpaṃ śarasyāsīd dhanurjyā maṇḍalāntare dyotato bhāskarasyeva ghanānte pariveśinaḥ pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ antakālam iva prāptaṃ menire vīkṣya sainikāḥ tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān dṛṣṭvāmanyata dehasya kālaparyāyam āgatam tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ tasya tv ahāni catvāri kṣapā caikāsyato gatā tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇaḥ sa śarakṣayam āsādya putraśokena cārditaḥ vividhānāṃ ca divyānām astrāṇām aprasannatām utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ tejasā preryamāṇaś ca yuyudhe so 'timānuṣam athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ śarāṃś ca śaravarṣeṇa mahatā samavākirat tatas taṃ śaravarṣeṇa mahatā samavākirat vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam śitena cainaṃ bāṇena pratyavidhyat stanāntare so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ jīvitāntakaraiḥ kruddhaiḥ kruddha rūpaṃ paraṃtapaḥ dhṛṣṭadyumna rathasyāśvān svarathāśvair mahārathaḥ amiśrayad ameyātmā brāhmam astram udīrayan te miśrā bahv aśobhanta javanā vātaraṃhasaḥ pārāvata savarṇāś ca śoṇāś ca bharatarṣabha yathā sa vidyuto meghā nadanto jalalāgame tathā rejur mahārāja miśritā raṇamūrdhani īṣā bandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ sa chinnadhanvā viratho hatāśvo hatasārathiḥ uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat asaṃśayaṃ tathā bhūte pāñcālyaḥ sādhv amanyata vadham ācārya mukhyasya prāptakālaṃ mahātmanaḥ tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā agacchad asim udyamya śatacandraṃ ca bhānumat cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ nāpaśyad antaraṃ doṇas tad adbhutam ivābhavat kṣipraṃ śyenasya carato yathaivāmiṣa gṛddhinaḥ tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ śoṇāś ca paryamucyanta rathabandhād viśāṃ pate tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ droṇam abhyapatad rājan vainateya ivoragam tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe so 'cirad vividhān mārgān prakārān ekaviṃśatim bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam parivṛttaṃ nivṛttaṃca khaḍgaṃ carma ca dhārayan saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣataḥ tataḥ śarasahasreṇa śatacandram apātayat khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ te tu vaitastikā nāma śarā hy āsanna ghātinaḥ nikṛṣṭa yuddhe droṇasya nānyeṣāṃ santi te śarāḥ śāradvatasya pārthasya drauṇer vaikartanasya ca pradyumna yuyudhānābhyām abhimanyoś ca te śarāḥ athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam antevāsinam ācāryo jighāṃsuḥ putra saṃmitam taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ paśyatas tava putrasya karṇasya ca mahātmanaḥ grastam ācārya mukhyena dhṛṭṣadyumnam amocayat carantaṃ rathamārgeṣu sātyakiṃ satyavikramam droṇakarṇāntara gataṃ kṛpasyāpi ca bhārata apaśyetāṃ mahātmānau viṣvaksena dhanaṃjayau apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam abhipatya tataḥ senāṃ viṣvaksena dhanaṃjayau dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava ācārya varamukhyānāṃ madhye krīḍan madhūdvahaḥ ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ ajayyaṃ samare dṛṣṭvā sāhu sādhv iti sātvatam yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan |