|
[धृ] तस्मिन्न अतिरथे दरॊणे निहते तत्र संजय मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम [स] तस्मिन्न अतिरथे दरॊणे निहते पार्षतेन वै कौरवेषु च भग्नेषु कुन्तीपुत्रॊ धनंजयः दृष्ट्वा सुमहद आश्चर्यम आत्मनॊ विजयावहम यदृच्छयागतं वयासं पप्रच्छ भरतर्षभ संग्रामे निघ्नतः शत्रूञ शरौघैर विमलैर अहम अग्रतॊ लक्षये यान्तं पुरुषं पावकप्रभम जवलन्तं शूलम उद्यम्य यां दिशं परतिपद्यते तस्यां दिशि विशीर्यन्ते शत्रवॊ मे महामुने न पद्भ्यां सपृशते भूमिं न च शूलं विमुञ्चति शूलाच छूलसहस्राणि निष्पेतुस तस्य तेजसा तेन भग्नान अरीन सर्वान मद भग्नान मन्यते जनः तेन दग्धानि सैन्यानि पृष्ठतॊ ऽनुदहाम्य अहम भगवंस तन ममाचक्ष्व कॊ वै स पुरुषॊत्तमः शूलपाणिर महान कृष्ण तेजसा सूर्यसंनिभः [व] परजापतीनां परथमं तेजसं पुरुषं विभुम भुवनं भूर भुवं देवं सर्वलॊकेश्वरं परभुम ईशानं वरदं पार्थ दृष्टवान असि शंकरम तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम महादेवं महात्मानम ईशानं जटिलं शिवम तर्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम दातारं चैव भक्तानां परसादविहितान वरान तस्य ते पार्षदा दिव्या रूपैर नानाविधैर विभॊः वामना जटिला मुण्डा हरस्वग्रीवा महॊदराः महाकाया महॊत्साहा महाकर्णास तथापरे आननैर विकृतैः पादैः पार्थ वेषैश च वैकृतैः ईदृशैः स महादेवः पूज्यमानॊ महेश्वरः स शिवस तात तेजस्वी परसादाद याति ते ऽगरतः तस्मिन घॊरे तदा पार्थ संग्रामे लॊमहर्षणे दरॊणकर्णकृपैर गुप्तां महेष्वासैः परहारिभिः कस तां सेनां तदा पार्थ मनसापि परधर्षयेत ऋते देवान महेष्वासाद बहुरूपान महेश्वरात सथातुम उत्सहते कश चिन न तस्मिन्न अग्रतः सथिते न हि भूतं समं तेन तरिषु लॊकेषु विद्यते गन्धेनापि हि संग्रामे तस्य करुद्धस्य शत्रवः विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च तस्मै नमस तु कुर्वन्तॊ देवास तिष्ठन्ति वै दिवि ये चान्ये मानवा लॊके ये च सवर्गजितॊ नराः ये भक्ता वरदं देवं शिवं रुद्रम उपा पतिम इह लॊके सुखं पराप्य ते यान्ति परमां गतिम नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे कपर्दिने करालाय हर्यक्ष्णे वरदाय च याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च काम्याय हरि नेत्राय सथाणवे पुरुषाय च हरि केशाय मुण्डाय कृशायॊत्तरणाय च भास्कराय सुतीर्थाय देवदेवाय रंहसे बहुरूपाय शर्वाय परियाय परियवाससे उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय परशान्ताय पतये चीरवाससे हिरण्यबाहवे चैव उग्राय पतये दिशाम पर्जन्यपतये चैव भूतानां पतये नमः वृक्षाणां पतये चैव अपां च पतये तथा वृक्षैर आवृतकायाय सेनान्ये मध्यमाय च सरुव हस्ताय देवाय धन्विने भार्गवाय च बहुरूपाय विश्वस्य पतये चीरवाससे सहस्रशिरसे चैव सहस्रनयनाय च सहस्रबाहवे चैव सहस्रचरणाय च शरणं पराप्य कौन्तेय वरदं भुवनेश्वरम उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम परजानां पतिम अव्यग्रं भूतानां पतिम अव्ययम कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम वृषाङ्कं वृषभॊदारं वृषभं वृषभेक्षणम वृषायुधं वृषशरं वृषभूतं महेश्वरम महॊदरं महाकायं दवीपिचर्म निवासिनम लॊकेशं वरदं मुण्डं बरह्मण्यं बराह्मण परियम तरिशूलपाणिं वरदं खड्गचर्म धरं परभुम पिनाकिनं खण्ड परशुं लॊकानां पतिम ईश्वरम परपद्ये शरणं देवं शरण्यं चीरवाससम नमस तस्मै सुरेशाय यस्य वैश्वरणः सखा सुवाससे नमॊ नित्यं सुव्रताय सुधन्विने सरुव हस्ताय देवाय सुखधन्वाय धन्विने धन्वन्तराय धनुषे धन्वाचार्याय धन्विने उग्रायुधाय देवाय नमः सुरवराय च नमॊ ऽसतु बहुरूपाय नमश च बहुधन्विने नमॊ ऽसतु सथाणवे नित्यं सुव्रताय सुधन्विने नमॊ ऽसतु तरिपुरघ्नाय भग घनाय च वै नमः वनस्पतीनां पतये नराणां पतये नमः अपां च पतये नित्यं यज्ञानां पतये नमः पूष्णॊ दन्तविनाशाय तर्यक्षाय वरदाय च नीलकण्ठाय पिङ्गाय सवर्णकेशाय वै नमः कर्माणि चैव दिव्यानि महादेवस्य धीमतः तानि ते कीर्तयिष्यामि यथा परज्ञं यथा शरुतम न सुरा नासुरा लॊके न गन्धर्वा न राक्षसाः सुखम एधन्ति कुपिते तस्मिन्न अपि गुहा गताः विव्याध कुपितॊ यज्ञं निर्भयस तु भवस तदा धनुषा बाणम उत्सृज्य स घॊषं विननाद च ते न शर्म कुतः शान्तिं लेभिरे सम सुरास तदा विद्रुते सहसा यज्ञे कुपिते च महेश्वरे तेन जयातलघॊषेण सर्वे लॊकाः समाकुलाः बभूवुर वशगाः पार्थ निपेतुश च सुरासुराः आपश चुक्षुभिरे सर्वाश चकम्पे च वसुंधरा पर्वताश च वयशीर्यन्त दिशॊ नागाश च मॊहिताः अन्धाश च तमसा लॊका न परकाशन्त संवृताः जघ्निवान सह सूर्येण सर्वेणां जयॊतिषां परभाः चुक्रुशुर भयभीताश च शान्तिं चक्रुस तथैव च ऋषयः सर्वभूतानाम आत्मनश च सुखैषिणः पूषाणम अभ्यद्रवत शंकरः परहसन्न इव पुरॊडाशं भक्षयतॊ दशनान वै वयशातयत ततॊ निश्चक्रमुर देवा वेपमाना नताः सम तम पुनश च संदधे दीप्तं देवानां निशितं शरम रुद्रस्य यज्ञभागं च विशिष्टं ते नव अकल्पयन भयेन तरिदशा राजञ शरणं च परपेदिरे तेन चैवातिकॊपेन स यज्ञः संधितस तदा यत्ताश चापि सुरा आसन यत्ताश चाद्यापि तं परति असुराणां पुराण्य आसंस तरीणि वीर्यवतां दिवि आयसं राजतं चैव सौवर्णम अपरं महत आयसं तारकाक्षस्य कमलाक्षस्य राजतम सौवर्णं परमं हय आसीद विद्युन्मालिन एव च न शक्तस तानि मघवान भेत्तुं सर्वायुधैर अपि अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम अर्दिताः ते तम ऊचुर महात्मानं सर्वे देवाः स वासवाः रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु निपातयिष्यसे चैनान असुरान भुवनेश्वर स तथॊक्तस तथेत्य उक्त्वा देवानां हितकाम्यया अतिष्ठत सथाणुभूतः स सहस्रं परिवत्सरान यदा तरीणि समेतानि अन्तरिक्षे पुराणि वै तरिपर्वणा तरिशल्येन तेन तानि बिभेद सः पुराणि न च तं शेकुर दानवाः परतिवीक्षितुम शरं कालाग्निसंयुक्तं विष्णुसॊमसमायुतम बालम अङ्कगतं कृत्वा सवयं पञ्च शिखं पुनः उमा जिज्ञासमाना वै कॊ यम इत्य अब्रवीत सुरान बाहुं सवज्रं शक्रस्य करुद्धस्यास्तम्भयत परभु स एष भगवान देवः सर्वलॊकेश्वरः परभुः न संबुबुधिरे चैनं देवास तं भुवनेश्वरम स परजापतयः सर्वे बालार्कसदृशप्रभम अथाभ्येत्य ततॊ बरह्मा दृष्ट्वा च स महेश्वरम अयं शरेष्ठ इति जञात्वा ववन्दे तं पितामहः ततः परसादयाम आसुर उमां रुद्रं च ते सुराः अभवच च पुनर बाहुर यथा परकृतिवज्रिणः तेषां परसन्नॊ भगवान सपत्नीकॊ वृषध्वजः देवानां तरिदशश्रेष्ठॊ दक्षयज्ञविनाशनः स वै रुद्रः स च शिवः सॊ ऽगनिः शर्वः स सर्ववित स चेन्द्रश चैव वायुश च सॊ ऽशविनौ स च विद्युतः स भवः स च पर्जन्यॊ महादेवः स चानघः स चन्द्रमाः स चेशानः स सूर्यॊ वरुणश च सः स कालः सॊ ऽनतकॊ मृत्युः स यमॊ रात्र्यहानि च मासार्ध मासा ऋतवः संध्ये संवत्सरश च सः स च धाता विधाता च विश्वात्मा विश्वकर्मकृत सर्वासां देवतानां च धारयत्य अवपुर वपुः सर्वैर देवैः सतुतॊ देवः सैकदा बहुधा च सः शतधा सहस्रधा चैव तथा शतसहस्रधा ईदृशः स महादेवॊ भूयश च भगवान अजः न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः सर्वैर गरहैर गृहीतान वै सर्वपापसमन्वितान स मॊचयति सुप्रीतः शरण्यः शरणागतान आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः सेन्द्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते स चैव वयाहृते लॊके मनुष्याणां शुभाशुभे ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते महेश्वरश च भूतानां महताम ईश्वरश च सः बहुभिर बहुधा रूपैर विश्वं वयाप्नॊति वै जगत अस्य देवस्य यद वक्त्रं समुद्रे तद अतिष्ठत एष चैव शमशानेषु देवॊ वसति नित्यशः यजन्त्य एनं जनास तत्र वीर सथान इतीश्वरम अस्य दीप्तानि रूपाणि घॊराणि च बहूनि च लॊके यान्य अस्य कुर्वन्ति मनुष्याः परवदन्ति च नामधेयानि लॊकेषु बहून्य अत्र यथार्थवत निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा वेदे चास्य समाम्नातं शतरुद्रीयम उत्तमम नाम्ना चानन्त रुद्रेति उपस्थानं महात्मनः स कामानां परभुर देवॊ ये दिव्या ये च मानुषाः स विभुः स परभुर देवॊ विश्वं वयाप्नुवते महत जयेष्ठं भूतं वदन्त्य एनं बराह्मणा मुनयस तथा परथमॊ हय एष देवानां मुखाद अस्यानलॊ ऽभवत सर्वथा यत पशून पाति तैश च यद रमते पुनः तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम महयन्ति च लॊकाश च महेश्वर इति समृतः ऋषयश चैव देवाश च गन्धर्वाप्सरसस तथा लिङ्गम अस्यार्चयन्ति सम तच चाप्य ऊर्ध्वं समास्थितम पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः सुखी परीतश च भवति परहृष्टश चैव शंकरः यद अस्य बहुधा रूपं भूतभव्य भवत सथितम सथावरं जङ्गमं चैव बहुरूपस ततः समृतः एकाक्षॊ जाज्वलन्न आस्ते सर्वतॊ ऽकषिमयॊ ऽपि वा करॊधाद्यश चाविशल लॊकांस तस्माच छर्व इति समृतः धूम्रं रूपं च यत तस्य धूर्जटिस तेन उच्यते विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः तिस्रॊ देवीर यदा चैव भजते भुवनेश्वरः दयाम अपः पृथिवीं चैव तर्यम्बकश च ततः समृतः समेधयति यन नित्यं सर्वार्थान सर्वकर्मसु शिवम इच्छन मनुष्याणां तस्माद एश शिवः समृतः सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा यच च विश्वं महत पाति महादेवस ततः समृतः दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत सथितलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः विषमस्थः शरीरेषु समश च पराणिनाम इह स वायुर विषमस्थेषु पराणापानशरीरिषु पूजयेद विग्रहं यस तु लिङ्गं वापि समर्चयेत लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते ऊरुभ्याम अर्धम आग्नेयं सॊमार्धं च शिवा तनुः आत्मनॊ ऽरधं च तस्याग्निः सॊमॊ ऽरधं पुनर उच्यते तैजसी महती दीप्ता देवेभ्यश च शिवा तनुः भास्वती मानुषेष्व अस्य तनुर घॊराग्निर उच्यते बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तया यास्य घॊरतरा मूर्तिः सर्वान अत्ति तयेश्वरः यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते एष देवॊ महादेवॊ यॊ ऽसौ पार्थ तवाग्रतः संग्रामे शात्रवान निघ्नंस तवया दृष्टः पिनाक धृक एष वै भगवान देवः संग्रामे यति ते ऽगरतः येन दत्तानि ते ऽसत्राणि यैस तवया दानवा हताः धन्यं यशस्यम आयुष्यं पुण्यं वेदैश च संज्ञितम देवदेवस्य ते पार्थ वयाख्यात्म शतरुद्रियम सर्वार्थसाधकं पुण्यं सर्वकिल्बिष नाशनम सर्वपापप्रशमनं सर्वदुःखभयापहम चतुर्विधम इदं सतॊत्रं यः शृणॊति नरः सदा विजित्य सर्वाञ शत्रून स रुद्र लॊके महीयते चरितं महात्मनॊ दिव्यं सांग्रामिकम इदं शुभम पठन वै शतरुद्रीयं शृण्वंश च सततॊत्थितः भक्तॊ विश्वेश्वरं देवं मानुषेषु तु यः सदा वरान स कामाँल लभते परसन्ने तर्यम्बके नरः गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः यस्य मन्त्री च गॊप्ता च पार्श्वतस ते जनार्दनः [स] एवम उक्त्वार्जुनं संख्ये पराशर सुतस तदा जगाम भरतश्रेष्ठ यथागतम अरिंदम |
[dhṛ] tasminn atirathe droṇe nihate tatra saṃjaya māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param [s] tasminn atirathe droṇe nihate pārṣatena vai kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ dṛṣṭvā sumahad āścaryam ātmano vijayāvaham yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate tasyāṃ diśi viśīryante śatravo me mahāmune na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati śūlāc chūlasahasrāṇi niṣpetus tasya tejasā tena bhagnān arīn sarvān mad bhagnān manyate janaḥ tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ [v] prajāpatīnāṃ prathamaṃ tejasaṃ puruṣaṃ vibhum bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam dātāraṃ caiva bhaktānāṃ prasādavihitān varān tasya te pārṣadā divyā rūpair nānāvidhair vibhoḥ vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ mahākāyā mahotsāhā mahākarṇās tathāpare ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ sa śivas tāta tejasvī prasādād yāti te 'grataḥ tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet ṛte devān maheṣvāsād bahurūpān maheśvarāt sthātum utsahate kaś cin na tasminn agrataḥ sthite na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca tasmai namas tu kurvanto devās tiṣṭhanti vai divi ye cānye mānavā loke ye ca svargajito narāḥ ye bhaktā varadaṃ devaṃ śivaṃ rudram upā patim iha loke sukhaṃ prāpya te yānti paramāṃ gatim namaskuruṣva kaunteya tasmai śāntāya vai sadā rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase kapardine karālāya haryakṣṇe varadāya ca yāmyāyāvyakta keśāya sadvṛtte śaṃkarāya ca kāmyāya hari netrāya sthāṇave puruṣāya ca hari keśāya muṇḍāya kṛśāyottaraṇāya ca bhāskarāya sutīrthāya devadevāya raṃhase bahurūpāya śarvāya priyāya priyavāsase uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe giriśāya praśāntāya pataye cīravāsase hiraṇyabāhave caiva ugrāya pataye diśām parjanyapataye caiva bhūtānāṃ pataye namaḥ vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā vṛkṣair āvṛtakāyāya senānye madhyamāya ca sruva hastāya devāya dhanvine bhārgavāya ca bahurūpāya viśvasya pataye cīravāsase sahasraśirase caiva sahasranayanāya ca sahasrabāhave caiva sahasracaraṇāya ca śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram mahodaraṃ mahākāyaṃ dvīpicarma nivāsinam lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇa priyam triśūlapāṇiṃ varadaṃ khaḍgacarma dharaṃ prabhum pinākinaṃ khaṇḍa paraśuṃ lokānāṃ patim īśvaram prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam namas tasmai sureśāya yasya vaiśvaraṇaḥ sakhā suvāsase namo nityaṃ suvratāya sudhanvine sruva hastāya devāya sukhadhanvāya dhanvine dhanvantarāya dhanuṣe dhanvācāryāya dhanvine ugrāyudhāya devāya namaḥ suravarāya ca namo 'stu bahurūpāya namaś ca bahudhanvine namo 'stu sthāṇave nityaṃ suvratāya sudhanvine namo 'stu tripuraghnāya bhaga ghnāya ca vai namaḥ vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ pūṣṇo dantavināśāya tryakṣāya varadāya ca nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ karmāṇi caiva divyāni mahādevasya dhīmataḥ tāni te kīrtayiṣyāmi yathā prajñaṃ yathā śrutam na surā nāsurā loke na gandharvā na rākṣasāḥ sukham edhanti kupite tasminn api guhā gatāḥ vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā dhanuṣā bāṇam utsṛjya sa ghoṣaṃ vinanāda ca te na śarma kutaḥ śāntiṃ lebhire sma surās tadā vidrute sahasā yajñe kupite ca maheśvare tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ jaghnivān saha sūryeṇa sarveṇāṃ jyotiṣāṃ prabhāḥ cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat tato niścakramur devā vepamānā natāḥ sma tam punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan bhayena tridaśā rājañ śaraṇaṃ ca prapedire tena caivātikopena sa yajñaḥ saṃdhitas tadā yattāś cāpi surā āsan yattāś cādyāpi taṃ prati asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat āyasaṃ tārakākṣasya kamalākṣasya rājatam sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca na śaktas tāni maghavān bhettuṃ sarvāyudhair api atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ te tam ūcur mahātmānaṃ sarve devāḥ sa vāsavāḥ rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu nipātayiṣyase cainān asurān bhuvaneśvara sa tathoktas tathety uktvā devānāṃ hitakāmyayā atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān yadā trīṇi sametāni antarikṣe purāṇi vai triparvaṇā triśalyena tena tāni bibheda saḥ purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam bālam aṅkagataṃ kṛtvā svayaṃ pañca śikhaṃ punaḥ umā jijñāsamānā vai ko yam ity abravīt surān bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhu sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram sa prajāpatayaḥ sarve bālārkasadṛśaprabham athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ abhavac ca punar bāhur yathā prakṛtivajriṇaḥ teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca māsārdha māsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ sarvair devaiḥ stuto devaḥ saikadā bahudhā ca saḥ śatadhā sahasradhā caiva tathā śatasahasradhā īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ sarvair grahair gṛhītān vai sarvapāpasamanvitān sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ sendrādiṣu ca deveṣu tasya caiśvaryam ucyate sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat asya devasya yad vaktraṃ samudre tad atiṣṭhata eṣa caiva śmaśāneṣu devo vasati nityaśaḥ yajanty enaṃ janās tatra vīra sthāna itīśvaram asya dīptāni rūpāṇi ghorāṇi ca bahūni ca loke yāny asya kurvanti manuṣyāḥ pravadanti ca nāmadheyāni lokeṣu bahūny atra yathārthavat nirucyante mahattvāc ca vibhutvāt karmabhis tathā vede cāsya samāmnātaṃ śatarudrīyam uttamam nāmnā cānanta rudreti upasthānaṃ mahātmanaḥ sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat sarvathā yat paśūn pāti taiś ca yad ramate punaḥ teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ nityena brahmacaryeṇa liṅgam asya yadā sthitam mahayanti ca lokāś ca maheśvara iti smṛtaḥ ṛṣayaś caiva devāś ca gandharvāpsarasas tathā liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam pūjyamāne tatas tasmin modate sa maheśvaraḥ sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ yad asya bahudhā rūpaṃ bhūtabhavya bhavat sthitam sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ ekākṣo jājvalann āste sarvato 'kṣimayo 'pi vā krodhādyaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ tisro devīr yadā caiva bhajate bhuvaneśvaraḥ dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ samedhayati yan nityaṃ sarvārthān sarvakarmasu śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ sahasrākṣo 'yutākṣo vā sarvato 'kṣimayo 'pi vā yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate taijasī mahatī dīptā devebhyaś ca śivā tanuḥ bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān māṃsaśoṇitamajjādo yat tato rudra ucyate eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pināka dhṛk eṣa vai bhagavān devaḥ saṃgrāme yati te 'grataḥ yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam devadevasya te pārtha vyākhyātma śatarudriyam sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣa nāśanam sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā vijitya sarvāñ śatrūn sa rudra loke mahīyate caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā varān sa kāmāṁl labhate prasanne tryambake naraḥ gaccha yudhyasva kaunteya na tavāsti parājayaḥ yasya mantrī ca goptā ca pārśvatas te janārdanaḥ [s] evam uktvārjunaṃ saṃkhye parāśara sutas tadā jagāma bharataśreṣṭha yathāgatam ariṃdama |