|
[वैषम्पायन] अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे गुडाकेशॊ हृषीकेशम अभ्यभाषत पाण्डवः जञातिशॊकाभिसंतप्तॊ धर्मराजः परंतपः एष शॊकार्णवे मग्नस तम आश्वासय माधव सर्वे सम ते संशयिताः पुनर एव जनार्दन अस्य शॊकं महाबाहॊ परणाशयितुम अर्हसि एवम उक्तस तु गॊविन्दॊ विजयेन महात्मना पर्यवर्तत राजानं पुण्डरीकेक्षणॊ ऽचयुतः अनतिक्रमणीयॊ हि धर्मराजस्य केशवः बाल्यात परभृति गॊविन्दः परीत्या चाभ्यधिकॊ ऽरजुनात संप्रगृह्य महाबाहुर भुजं चन्दनभूषितम शैलस्तम्भॊपमं शौरिर उवाचाभिविनॊदयन शुशुभे वदनं तस्य सुदंष्ट्रं चारुलॊचनम वयाकॊशम इव विस्पष्टं पद्मं सूर्यविबॊधितम मा कृथाः पुरुषव्याघ्र शॊकं तवं गात्रशॊषणम न हि ते सुलभा भूयॊ ये हतास्मिन रणाजिरे सवप्नलब्धा यथा लाभा वि तथाः परतिबॊधने एवं ते कषत्रिया राजन ये वयतीता महारणे सर्वे हय अभिमुखाः शूरा विगता रणशॊभिनः नैषां कश चित पृष्ठतॊ वा पलायन वापि पातितः सर्वे तयक्त्वात्मनः पराणान युद्ध्वा वीरा महाहवे शस्त्रपूता दिवं पराप्ता न ताञ शॊचितुम अर्हसि अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम सृञ्जयं पुत्रशॊकार्तं यथायं पराह नारदः सुखदुःखैर अहं तवं च परजाः सर्वाश च सृञ्जय अविमुक्तं चरिष्यामस तत्र का परिदेवना महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु गच्छावधानं नृपते ततॊ दुःखं परहास्यसि मृतान महानुभावांस तवं शरुत्वैव तु महीपतीन शरुत्वापनय संतापं शृणु विस्तरशश च मे आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि यस्य सेन्द्राः स वरुणा बृहस्पतिपुरॊगमाः देवा विश्वसृजॊ राज्ञॊ यज्ञम ईयुर महात्मनः यः सपर्धाम अनयच छक्रं देवराजं शतक्रतुम शक्र परियैषी यं विद्वान परत्याचष्ट बृहस्पतिः संवर्तॊ याजयाम आस यं पीडार्थं बृहस्पतेः यस्मिन परशासति सतां नृपतौ नृपसत्तम अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी आविक्षितस्य वै सत्रे विश्वे देवाः सभा सदः मरुतः परिवेष्टारः साध्याश चासन महात्मनः मरुद्गणा मरुत्तस्य यत सॊमम अपिबन्त ते देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः सुहॊत्रं चेद वैतिथिनं मृतं सृञ्जय शुश्रुम यस्मै हिरण्यं ववृषे मगह्वान परिवत्सरम सत्यनामा वसुमती यं पराप्यासीज जनाधिप हिरण्यम अवहन नद्यस तस्मिञ जनपदेश्वरे कूर्मान कर्कटकान नक्रान मकराञ शिंशुकान अपि नदीष्व अपातयद राजन मघवा लॊकपूजितः हैरण्यान पतितान दृष्ट्वा मत्स्यान मकरकच्छपान सहस्रशॊ ऽथ शतशस ततॊ ऽसमयत वैतिथिः तद धिरण्यम अपर्यन्तम आवृत्तं कुरुजाङ्गले ईजानॊ वितते यज्ञे बराह्मणेभ्यः समाहितः स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः अदक्षिणम अयज्वानं शवैत्य संशाम्य मा शुचः अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय यः सहस्रं सहस्राणां शवेतान अश्वान अवासृजत सहस्रं च सहस्राणां कन्या हेमविभूषिताः ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत शतं शतसहस्राणां वृषाणां हेममालिनाम गवां सहस्रानुचरं दक्षिणाम अत्यकालयत अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः न जातॊ जनिता चान्यः पुमान यस तत परदास्यति यद अङ्गः परददौ वित्तं सॊमसंस्थासु सप्तसु स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः शिबिम औशीनरं चैव मृतं शुश्रुम सृञ्जय य इमां पृथिवीं कृत्स्नां चर्मवत समवेष्टयत महता रथघॊषेण पृथिवीम अनुनादयन एकछत्रां महीं चक्रे जैत्रेणैक रथेन यः यावद अद्य गवाश्वं सयाद आरण्यैः पशुभिः सह तावतीः परददौ गाः स शिबिर औशीनरॊ ऽधवरे नॊद्यन्तारं धुरं तस्य कं चिन मेने परजापतिः न भूतं न भविष्यन्तं सर्वराजसु भारत अन्यत्रौशीनराच छैब्याद राजर्षेर इन्द्र विक्रमात स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः अदक्षिणम अयज्वानं तं वै संशाम्य मा शुचः भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम शाकुन्तलिं महेष्वासं भूरि दरविण तेजसम यॊ बद्ध्वा तरिंशतॊ हय अश्वान देवैभ्यॊ यमुनाम अनु सरस्वतीं विंशतिं च गङ्गाम अनु चतुर्दश अश्वमेध सहस्रेण राजसूय शतेन च इष्टवान स महातेजा दौःषन्तिर भरतः पुरा भरतस्य महत कर्म सर्वराजसु पार्थिवाः खं मर्त्या इव बाहुभ्यां नानुगन्तुम अशक्नुवन परं सहस्राद यॊ बद्ध्वा हयान वेदीं विचित्य च सहस्रं यत्र पद्मानां कण्वाय भरतॊ ददौ स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय यॊ ऽनवकम्पत वै नित्यं परजाः पुत्रान इवौरसान विधवा यस्य विषये नानाथाः काश चनाभवन सर्वस्यासीत पितृसमॊ रामॊ राज्यं यदान्वशात कालवर्षाश च पर्जन्याः सस्यानि रसवन्ति च नित्यं सुभिक्षम एवासीद रामे राज्यं परशासति पराणिनॊ नाप्सु मज्जन्ति नानर्थे पावकॊ ऽदहत न वयालजं भयं चासीद रामे राज्यं परशासति आसन वर्षसहस्राणि तथा पुत्रसहस्रिकाः अरॊगाः सर्वसिद्धार्थाः परजा रामे परशासति नान्यॊन्येन विवादॊ ऽभूत सत्रीणाम अपि कुतॊ नृणाम धर्मनित्याः परजाश चासन रामे राज्यं परशासति नित्यपुष्पफलाश चैव पादपा निरुपद्रवाः सर्वा दरॊण दुघा गावॊ रामे राज्यं परशासति स चतुर्दश वर्षाणि वने परॊष्य महातपाः दशाश्वमेधाञ जारूथ्यान आजहार निरर्गलान शयामॊ युवा लॊहिताक्षॊ मत्तवारणविक्रमः दशवर्षसहस्राणि रामॊ राज्यम अकारयत स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः भगीरथं च राजानं मृतं शुश्रुम सृञ्जय यस्येद्न्रॊ वितते यज्ञे सॊमं पीत्वा मदॊत्कटः असुराणां सहस्राणि बहूनि सुरसत्तमः अजयद बाहुवीर्येण भगवान पाकशासनः यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः रथे रथे शतं नागाः पद्मिनॊ हेममालिनः सहस्रम अश्वा एकैकं हस्तिनं पृष्ठतॊ ऽनवयुः गवां सहस्रम अश्वे ऽशवे सहस्रं गव्य अजाविकम उपह्वरे निवसतॊ यस्याङ्के निषसाद ह गङ्गा भागीरथी तस्माद उर्वशी हय अभवत पुरा भूरिदक्षिणम इक्ष्वाकुं यजमानं भगीरथम तरिलॊकपथ गा गङ्गा दुहितृत्वम उपेयिषी स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय यस्य कर्माणि भूरीणि कथयन्ति दविजातयः इमां वै वसु संपन्नां वसुधां वसुधाधिपः ददौ तस्मिन महायज्ञे बराह्मणैभ्यः समाहितः तस्येह यजमानस्य यज्ञे यज्ञे पुरॊहितः सहस्रं वारणान हैमान दक्षिणाम अत्यकालयत यस्य यज्ञे महान आसीद यूपः शरीमान हिरण्मयः तं देवाः कर्म कुर्वाणाः शक्र जयेष्ठा उपाश्रयन चषालॊ यस्य सौवर्णस तस्मिन यूपे हिरण्मये ननृतुर देवगन्धर्वाः षट सहस्राणि सप्तधा अवादयत तत्र वीणां मध्ये विश्वावसुः सवयम सर्वभूतान्य अमन्यन्त मम वादयतीत्य अयम एतद राज्ञॊ दिलीपस्य राजानॊ नानुचक्रिरे यत सत्रियॊ हेमसंपन्नाः पथि मत्ताः सम शेरते राजानम उग्रधन्वानं दिलीपं सत्यवादिनम ये ऽपश्यन सुमहात्मानं ते ऽपि सवर्गजितॊ नराः तरयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने सवाध्यायघॊषॊ जयाघॊषॊ दीयताम इति चैव हि स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः मांधातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय यं देवा मरुतॊ गर्भं पितुः पार्श्वाद अपाहरन संवृद्धॊ युवनाश्वस्य जठरे यॊ महात्मनः पृषद आज्यॊद्भवः शरीमांस तरिलॊकविजयी नृपः यं दृष्ट्वा पितुर उत्सङ्गे शयानं देवरूपिणम अन्यॊन्यम अब्रुवन देवाः कम अयं धास्यतीति वै माम एव धास्यतीत्य एवम इन्द्रॊ अभ्यवपद्यत मांधातेति ततस तस्य नाम चक्रे शतक्रतुः ततस तु पयसॊ धारां पुष्टि हेतॊर महात्मनः तस्यास्ये यौवनाश्वस्य पाणिर इन्द्रस्य चास्रवत तं पिबन पाणिम इन्द्रस्य समाम अह्ना वयवर्धत स आसीद दवादश समॊ दवादशाहेन पार्थिव तम इयं पृथिवी सर्वा एकाह्ना समपद्यत धर्मात्मानं महात्मानं शूरम इन्द्रसमं युधि य आङ्गारं हि नृपतिं मरुत्तम असितं गयम अङ्गं बृहद्रथं चैव मांधाता समरे ऽजयत यौवनाश्वॊ यदाङ्गारं समरे समयॊधयत विस्फारैर धनुषॊ देवा दयौर अभेदीति मेनिरे यतः सूर्य उदेति सम यत्र च परतितिष्ठति सर्वं तद यौवनाश्वस्य मांधातुः कषेत्रम उच्यते अश्वमेध शतेनेष्ट्वा राजसूय शतेन च अददाद रॊहितान मत्स्यान बराह्मणैभ्यॊ महीपतिः हैरण्यान यॊजनॊत्सेधान आयतान दशयॊजनम अतिरिक्तान दविजातिभ्यॊ वयभजन्न इतरे जनाः स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय य इमां पृथिवीं सर्वां विजित्य सह सागराम शम्या पातेनाभ्यतीयाद वेदीभिश चित्रयन नृप ईजानः करतुभिः पुण्यैः पर्यगच्छद वसुंधराम इष्ट्वा करतुसहस्रेण वाजिमेधशतेन च तर्पयाम आस देवेन्द्रं तरिभिः काञ्चनपर्वतैः वयूढे देवासुरे युद्धे हत्वा दैतेय दानवान वयभजत पृथिवीं कृत्स्नां ययातिर नहुषात्मजः अन्तेषु पुत्रान निक्षिप्य यदुद्रुह्यु पुरॊगमान पूरुं राज्ये ऽभिषिच्य सवे सदारः परस्थितॊ वनम स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय यं परजा वव्रिरे पुण्यं गॊप्तारं नृपसत्तम यः सहस्रं सहस्राणां राज्ञाम अयुत याजिनाम ईजानॊ वितते यज्ञे बराह्मणैभ्यः समाहितः नैतत पूर्वे जनाश चक्रुर न करिष्यन्ति चापरे इत्य अम्बरीषं नाभागम अन्वमॊदन्त दक्षिणाः शतं राजसहस्राणि शतं राजशतानि च सर्वे ऽशवमेधैर ईजानास ते ऽभययुर दक्षिणायनम स चेन ममार सृञ्जय चतुर्भद्र तरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय यस्य भार्या सहस्राणां शतम आसीन महात्मनः सहस्रं तु सहस्राणां यस्यासञ शाश बिन्दवः हिरण्यकवचाः सर्वे सर्वे चॊत्तमधन्विनः शतं कन्या राजपुत्रम एकैकं पृष्ठतॊ ऽनवयुः कन्यां कन्यां शतं नागा नागं नागं शतं रथाः रथं रथं शतं चाश्वा देशजा हेममालिनः अश्वम अश्वं शतं गावॊ गां गां तद्वद अजाविकम एतद धनम अपर्यन्तम अश्वमेधे महामखे शशबिन्दुर महाराज बराह्मणैभ्यः समादिशत स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः गयम आमूर्तरयसं मृतं शुश्रुम सृञ्जय यः स वर्षशतं राजा हुतशिष्टाशनॊ ऽभवत यस्मै वह्निर वरान परादात ततॊ वव्रे वरान गयः ददतॊ मे ऽकषया चास्तु धर्मे शरद्धा च वर्धताम मनॊ मे रमतां सत्ये तवत्प्रसादाद धुताशन लेभे च कामांस तान सर्वान पावकाद इति नः शरुतम दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः अयजत स महातेजाः सहस्रं परिवत्सरान शतं गवां सहस्राणि शतम अश्वशतानि च उत्थायॊत्थाय वै परादात सहस्रं परिवत्सरान तर्पयाम आस सॊमेन देवान वित्तैर दविजान अपि पितॄन सवधाभिः कामैश च सत्रियः सवाः पुरुषर्षभ सौवर्णां पृथिवीं कृत्वा दशव्यामां दविर आयताम दक्षिमाम अददद राजा वाजिमेधमहामखे यावत्यः सिकता राजन गङ्गायाः पुरुषर्षभ तावतीर एव गाः परादाद आमूर्तरयसॊ गयः स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः रन्ति देवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय सम्यग आराध्य यः शक्रं वरं लेभे महायशाः अन्नं च नॊ बहु भवेद अतिथींश च लभेमहि शरद्धा च नॊ मा वयगमन मा च याचिष्म कं चन उपातिष्ठन्त पशवः सवयं तं संशितव्रतम गराम्यारण्या महात्मानं रन्ति देवं यशस्विनम महानदी चर्म राशेर उत्क्लेदात सुस्रुवे यतः ततश चर्मण्वतीत्य एवं विख्याता सा महानदी बराह्मणैभ्यॊ ददौ निष्कान सदसि परतते नृपः तुभ्यं तुभ्यं निष्कम इति यत्राक्रॊशन्ति वै दविजाः सहस्रं तुभ्यम इत्य उक्त्वा बराह्मणान सम परपद्यते अन्वाहार्यॊपकरणं दरव्यॊपकरणं च यत घटाः सथाल्यः कटाहाश च पात्र्यश च पिठरा अपि न तत किं चिद असौवर्णं रन्ति देवस्य धीमतः साङ्कृते रन्ति देवस्य यां रात्रिम अवसद गृहे आलभ्यन्त शतं गावः सहस्राणि च विंशतिः तत्र सम सूदाः करॊशन्ति सुमृष्टमणिकुण्डलाः सूपभूयिष्ठम अश्नीध्वं नाद्य मांसं यथा पुरा स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ऐक्ष्वाकं पुरुषव्याघ्रम अति मानुषविक्रमम षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतॊ ऽनवयुः नक्षत्रराजं वर्षान्ते वयभ्रे जयॊतिर गणा इव एकछत्रा मही यस्य परणता हय अभवत पुरा यॊ ऽशवमेध सहस्रेण तर्पयाम आस देवताः यः परादात काञ्चनस्तम्भं परासादं सर्वकाञ्चनम पूर्णं पद्मदलाक्षीणां सत्रीणां शयनसंकुलम दविजातिभ्यॊ ऽनुरूपैभ्यः कामान उच्चावचांस तथा यस्यादेशेन तद वित्तं वयभजन्त दविजातयः खानयाम आस यः कॊपात पृथिवीं सागराङ्किताम यस्य नाम्ना समुद्रश च सागरत्वम उपागतः स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय यम अभ्यषिञ्चन संभूय महारण्ये महर्षयः परथयिष्यति वै लॊकान पृथुर इत्य एव शब्दितः कषताच च नस तरायतीति स तस्मात कषत्रियः समृतः पृथुं वैन्यं परजा दृष्ट्वा रक्ताः समेति यद अब्रुवन ततॊ राजेति नामास्य अनुरागाद अजायत अकृष्टपच्या पृथिवी पुटके पुटके मधु सर्वा दरॊण दुघा गावॊ वैन्यस्यासन परशासतः अरॊगाः सर्वसिद्धार्था मनुष्या अकुतॊभयाः यथाभिकामम अवसन कषेत्रेषु च गृहेषु च आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः सरितश चानुदीर्यन्त धवजसङ्गश च नाभवत हैरण्यांस तरिनलॊत्सेधान पर्वतान एकविंशतिम बराह्मणैभ्यॊ ददौ राजा यॊ ऽशवमेधे महामखे स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः किं वै तूष्णीं धयायसि सृञ्जय तवं; न मे राजन वाचम इमां शृणॊषि न चेन मॊघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षॊर इव सम्यग उक्तम [सृन्जय] शृणॊमि ते नारद वाचम एतां; विचित्रार्थां सरजम इव पुण्यगन्धाम राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शॊकनिर्णाशनार्थम न ते मॊघं विप्रलप्तं महर्षे; दृष्ट्वैव तवां नारदाहं वि शॊकः शुश्रूषे ते वचनं बरह्मवादिन; न ते तृप्याम्य अमृतस्येव पानात अमॊघदर्शिन मम चेत परसादं; सुताघ दग्धस्य विभॊ परकुर्याः मृतस्य संजीवनम अद्य मे सयात; तव परसादात सुत संगमश च [नारद] यस ते पुत्रॊ दयितॊ ऽयं वियातः; सवर्णष्ठीवी यम अदात पर्वतस ते पुनस ते तं पुत्रम अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च |
[vaiṣampāyana] avyāharati kaunteye dharmaputre yudhiṣṭhire guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ eṣa śokārṇave magnas tam āśvāsaya mādhava sarve sma te saṃśayitāḥ punar eva janārdana asya śokaṃ mahābāho praṇāśayitum arhasi evam uktas tu govindo vijayena mahātmanā paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ anatikramaṇīyo hi dharmarājasya keśavaḥ bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt saṃpragṛhya mahābāhur bhujaṃ candanabhūṣitam śailastambhopamaṃ śaurir uvācābhivinodayan śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam na hi te sulabhā bhūyo ye hatāsmin raṇājire svapnalabdhā yathā lābhā vi tathāḥ pratibodhane evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ naiṣāṃ kaś cit pṛṣṭhato vā palāyan vāpi pātitaḥ sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave śastrapūtā divaṃ prāptā na tāñ śocitum arhasi atraivodāharantīmam itihāsaṃ purātanam sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāś ca sṛñjaya avimuktaṃ cariṣyāmas tatra kā paridevanā mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi mṛtān mahānubhāvāṃs tvaṃ śrutvaiva tu mahīpatīn śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaś ca me āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi yasya sendrāḥ sa varuṇā bṛhaspatipurogamāḥ devā viśvasṛjo rājño yajñam īyur mahātmanaḥ yaḥ spardhām anayac chakraṃ devarājaṃ śatakratum śakra priyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ saṃvarto yājayām āsa yaṃ pīḍārthaṃ bṛhaspateḥ yasmin praśāsati satāṃ nṛpatau nṛpasattama akṛṣṭapacyā pṛthivī vibabhau caityamālinī āvikṣitasya vai satre viśve devāḥ sabhā sadaḥ marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmanaḥ marudgaṇā maruttasya yat somam apibanta te devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma yasmai hiraṇyaṃ vavṛṣe magahvān parivatsaram satyanāmā vasumatī yaṃ prāpyāsīj janādhipa hiraṇyam avahan nadyas tasmiñ janapadeśvare kūrmān karkaṭakān nakrān makarāñ śiṃśukān api nadīṣv apātayad rājan maghavā lokapūjitaḥ hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān sahasraśo 'tha śataśas tato 'smayata vaitithiḥ tad dhiraṇyam aparyantam āvṛttaṃ kurujāṅgale ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ ījāno vitate yajñe dakṣiṇām atyakālayat śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat aṅgasya yajamānasya tadā viṣṇupade girau amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ na jāto janitā cānyaḥ pumān yas tat pradāsyati yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat mahatā rathaghoṣeṇa pṛthivīm anunādayan ekachatrāṃ mahīṃ cakre jaitreṇaika rathena yaḥ yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare nodyantāraṃ dhuraṃ tasya kaṃ cin mene prajāpatiḥ na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata anyatrauśīnarāc chaibyād rājarṣer indra vikramāt sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma śākuntaliṃ maheṣvāsaṃ bhūri draviṇa tejasam yo baddhvā triṃśato hy aśvān devaibhyo yamunām anu sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa aśvamedha sahasreṇa rājasūya śatena ca iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā bharatasya mahat karma sarvarājasu pārthivāḥ khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān vidhavā yasya viṣaye nānāthāḥ kāś canābhavan sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati prāṇino nāpsu majjanti nānarthe pāvako 'dahat na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati āsan varṣasahasrāṇi tathā putrasahasrikāḥ arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati nityapuṣpaphalāś caiva pādapā nirupadravāḥ sarvā droṇa dughā gāvo rāme rājyaṃ praśāsati sa caturdaśa varṣāṇi vane proṣya mahātapāḥ daśāśvamedhāñ jārūthyān ājahāra nirargalān śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ daśavarṣasahasrāṇi rāmo rājyam akārayat sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya yasyednro vitate yajñe somaṃ pītvā madotkaṭaḥ asurāṇāṃ sahasrāṇi bahūni surasattamaḥ ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ ījāno vitate yajñe dakṣiṇām atyakālayat sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ gavāṃ sahasram aśve 'śve sahasraṃ gavy ajāvikam upahvare nivasato yasyāṅke niṣasāda ha gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham trilokapatha gā gaṅgā duhitṛtvam upeyiṣī sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ imāṃ vai vasu saṃpannāṃ vasudhāṃ vasudhādhipaḥ dadau tasmin mahāyajñe brāhmaṇaibhyaḥ samāhitaḥ tasyeha yajamānasya yajñe yajñe purohitaḥ sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ taṃ devāḥ karma kurvāṇāḥ śakra jyeṣṭhā upāśrayan caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye nanṛtur devagandharvāḥ ṣaṭ sahasrāṇi saptadhā avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam sarvabhūtāny amanyanta mama vādayatīty ayam etad rājño dilīpasya rājāno nānucakrire yat striyo hemasaṃpannāḥ pathi mattāḥ sma śerate rājānam ugradhanvānaṃ dilīpaṃ satyavādinam ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ trayaḥ śabdā na jīryante dilīpasya niveśane svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ māṃdhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ pṛṣad ājyodbhavaḥ śrīmāṃs trilokavijayī nṛpaḥ yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai mām eva dhāsyatīty evam indro abhyavapadyata māṃdhāteti tatas tasya nāma cakre śatakratuḥ tatas tu payaso dhārāṃ puṣṭi hetor mahātmanaḥ tasyāsye yauvanāśvasya pāṇir indrasya cāsravat taṃ piban pāṇim indrasya samām ahnā vyavardhata sa āsīd dvādaśa samo dvādaśāhena pārthiva tam iyaṃ pṛthivī sarvā ekāhnā samapadyata dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam aṅgaṃ bṛhadrathaṃ caiva māṃdhātā samare 'jayat yauvanāśvo yadāṅgāraṃ samare samayodhayat visphārair dhanuṣo devā dyaur abhedīti menire yataḥ sūrya udeti sma yatra ca pratitiṣṭhati sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate aśvamedha śateneṣṭvā rājasūya śatena ca adadād rohitān matsyān brāhmaṇaibhyo mahīpatiḥ hairaṇyān yojanotsedhān āyatān daśayojanam atiriktān dvijātibhyo vyabhajann itare janāḥ sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya ya imāṃ pṛthivīṃ sarvāṃ vijitya saha sāgarām śamyā pātenābhyatīyād vedībhiś citrayan nṛpa ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām iṣṭvā kratusahasreṇa vājimedhaśatena ca tarpayām āsa devendraṃ tribhiḥ kāñcanaparvataiḥ vyūḍhe devāsure yuddhe hatvā daiteya dānavān vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ anteṣu putrān nikṣipya yadudruhyu purogamān pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama yaḥ sahasraṃ sahasrāṇāṃ rājñām ayuta yājinām ījāno vitate yajñe brāhmaṇaibhyaḥ samāhitaḥ naitat pūrve janāś cakrur na kariṣyanti cāpare ity ambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ śataṃ rājasahasrāṇi śataṃ rājaśatāni ca sarve 'śvamedhair ījānās te 'bhyayur dakṣiṇāyanam sa cen mamāra sṛñjaya caturbhadra taras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya yasya bhāryā sahasrāṇāṃ śatam āsīn mahātmanaḥ sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśa bindavaḥ hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam etad dhanam aparyantam aśvamedhe mahāmakhe śaśabindur mahārāja brāhmaṇaibhyaḥ samādiśat sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat yasmai vahnir varān prādāt tato vavre varān gayaḥ dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām mano me ramatāṃ satye tvatprasādād dhutāśana lebhe ca kāmāṃs tān sarvān pāvakād iti naḥ śrutam darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ ayajat sa mahātejāḥ sahasraṃ parivatsarān śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca utthāyotthāya vai prādāt sahasraṃ parivatsarān tarpayām āsa somena devān vittair dvijān api pitṝn svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvir āyatām dakṣimām adadad rājā vājimedhamahāmakhe yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ ranti devaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ annaṃ ca no bahu bhaved atithīṃś ca labhemahi śraddhā ca no mā vyagaman mā ca yāciṣma kaṃ cana upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam grāmyāraṇyā mahātmānaṃ ranti devaṃ yaśasvinam mahānadī carma rāśer utkledāt susruve yataḥ tataś carmaṇvatīty evaṃ vikhyātā sā mahānadī brāhmaṇaibhyo dadau niṣkān sadasi pratate nṛpaḥ tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ sahasraṃ tubhyam ity uktvā brāhmaṇān sma prapadyate anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api na tat kiṃ cid asauvarṇaṃ ranti devasya dhīmataḥ sāṅkṛte ranti devasya yāṃ rātrim avasad gṛhe ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya aikṣvākaṃ puruṣavyāghram ati mānuṣavikramam ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ nakṣatrarājaṃ varṣānte vyabhre jyotir gaṇā iva ekachatrā mahī yasya praṇatā hy abhavat purā yo 'śvamedha sahasreṇa tarpayām āsa devatāḥ yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam dvijātibhyo 'nurūpaibhyaḥ kāmān uccāvacāṃs tathā yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ khānayām āsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām yasya nāmnā samudraś ca sāgaratvam upāgataḥ sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣayaḥ prathayiṣyati vai lokān pṛthur ity eva śabditaḥ kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan tato rājeti nāmāsya anurāgād ajāyata akṛṣṭapacyā pṛthivī puṭake puṭake madhu sarvā droṇa dughā gāvo vainyasyāsan praśāsataḥ arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ saritaś cānudīryanta dhvajasaṅgaś ca nābhavat hairaṇyāṃs trinalotsedhān parvatān ekaviṃśatim brāhmaṇaibhyo dadau rājā yo 'śvamedhe mahāmakhe sa cen mamāra sṛñjaya caturbhadrataras tvayā putrāt puṇyataraś caiva mā putram anutapyathāḥ kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ; na me rājan vācam imāṃ śṛṇoṣi na cen moghaṃ vipralaptaṃ mayedaṃ; pathyaṃ mumūrṣor iva samyag uktam [sṛnjaya] śṛṇomi te nārada vācam etāṃ; vicitrārthāṃ srajam iva puṇyagandhām rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ; kīrtyā yuktāṃ śokanirṇāśanārtham na te moghaṃ vipralaptaṃ maharṣe; dṛṣṭvaiva tvāṃ nāradāhaṃ vi śokaḥ śuśrūṣe te vacanaṃ brahmavādin; na te tṛpyāmy amṛtasyeva pānāt amoghadarśin mama cet prasādaṃ; sutāgha dagdhasya vibho prakuryāḥ mṛtasya saṃjīvanam adya me syāt; tava prasādāt suta saṃgamaś ca [nārada] yas te putro dayito 'yaṃ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te punas te taṃ putram ahaṃ dadāmi; hiraṇyanābhaṃ varṣasahasriṇaṃ ca |