|
[य] सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः यॊगमार्गॊ यथान्यायं शिष्यायेह हितैषिणा सांख्ये तवेदानीं कार्त्स्न्येन विधिं परब्रूहि पृच्छते तरिषु लॊकेषु यज जञानं सर्वं तद वितिदं हि ते [भी] शृणु मे तवम इदं शुद्धं सांख्यानां विदितात्मनाम विहितं यतिभिर बुद्धैः कपिलादिभिर ईश्वरैः यस्मिन न विभ्रमाः के चिद दृश्यन्ते मनुजर्षभ गुणाश च यस्मिन बहवॊ दॊषहानिश च केवला जञानेन परिसंख्याय सदॊषान विषयान नृप मानुषान दुर्जयान कृत्स्नान पैशाचान विषयांस तथा राक्षसान विषयाञ जञात्वा यक्षाणां विषयांस तथा विषयान औरगाञ जञात्वा गान्धर्वविषयांस तथा पितॄणां विषयाञ जञात्वा तिर्यक्षु चरतां नृप सुपर्णविषयाञ जञात्वा मरुतां विषयांस तथा राजर्षिविषयाञ जञात्वा बरह्मर्षिविषयांस तथा आसुरान विषयाञ जञात्वा वैश्वदेवांस तथैव च देवर्षिविषयाञ जञात्वा यॊगानान अपि चेश्वरान विषयांश च परजेशानां बरह्मणॊ विषयांस तथा आयुषश च परं कालं लॊके विज्ञाय तत्त्वतः सुखस्य च परं तत्त्वं विज्ञाय वदतां वर पराप्ते काले च यद दुःखं पततां विषयैषिणाम तिर्यक च पततां दुःख्म पततां नरके च यत सवर्गस्य च गुणान कृत्स्नान दॊषान सर्वांश च भारत वेदवादे च ये दॊषा गुणा ये चापि वैदिकाः जञानयॊगे च ये दॊषा गुणा यॊगे च ये नृप सांख्यज्ञाने च ये दॊषास तथैव च गुणा नृप सत्त्वं दशगुणं जञात्वा रजॊ नव गुणं तथा तमश चास्त गुणं जञात्वा बुद्धिं सप्त गुणां तथा सॊ गुणं च नभॊ जञात्वा मनः पञ्च गुणं तथा बुद्धिं चतुर्गुणां जञात्वा तमश च तरिगुणं महत दविगुणं च रजॊ जञात्वा सत्त्वम एकगुणं पुनः मार्गं विज्ञाय तत्त्वेन परलये परेक्षणं तथा जञानविज्ञानसंपन्नाः कारणैर भाविताः शुभैः पराप्नुवन्ति शुभं मॊक्षं सूक्ष्मा इह नभः परम रूपेण दृष्टिं संयुक्तां घराणं गन्धगुणेन च शब्दे सक्तं तथा शरॊत्रं जिह्वां रसगुणेषु च तनुं सपर्शे तथा सक्तां वायुं नभसि चाश्रितम मॊहं तमसि संसक्तं लॊभम अर्थेषु संश्रितम विष्णुं करान्ते बले शक्रं कॊष्ठे सक्तं तथानलम अप्सु देवीं तथा सक्ताम अपस तेजसि चाश्रिताः तेजॊ वायौ तु संसक्तं वायुं नभसि चाश्रितम नभॊ महति संयुक्तं महद बुद्धौ च संश्रितम बुद्धिं तमसि संसक्तां तमॊ रजसि चाश्रितम रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि सक्तम आत्मानम ईशे च देवे नारायणे तथा देवं मॊक्षे च संसक्तं मॊक्षं सक्तं तु न कव चित जञात्वा सत्त्वयुतं देहं वृतं सॊदशभिर गुणैः सवभावं चेतनां चैव जञात्वा वै देहम आश्रिते मध्यस्थम एकम आत्मानं पापं यस्मिन न विद्यते दवितीयं कर्म विज्ञाय नृपतौ विषयैषिणाम इन्द्रियाणीन्द्रियार्थाश च सर्वान आत्मनि संशृतान पराणापानौ समानं च वयानॊदानौ च तत्त्वतः अवाक्चैवानिलं जञात्वा परवहं चानिलं पुनः सप्त वातांस तथा शेषान सप्तधा विधिवत पुनः परजापतीन ऋषींश चैव मार्गांश च सुबहून वरान सप्तर्षींश च बहूञ जञात्वा राजर्षींश च परंतप सुरर्षीन महतश चान्यान महर्षीन सूर्यसंनिभान ऐश्वर्याच चयाविताञ जञात्वा कालेन महता नृप महतां भूतसंघानां शरुत्वा नाशं च पार्थिव गतिं चाप्य अशुभां जञात्वा नृपते पापकर्मणाम वैतरण्यां च यद दुःखं पतितानां यमक्षये यॊनीषु च विचित्रासु संसारान अशुभांस तथा जथरे चाशुभे वासं शॊनितॊदक भाजने शलेष्म मूत्र पुरीषे च तीव्रगन्धसमन्विते शुक्रशॊनित संघाते मज्जास्नायुपरिग्रहे सिरा शतसमाकीर्णे नवद्वारे पुरे ऽशुचौ विज्ञायाहितम आत्मानं यॊगांश च विविधान नृप तामसानां च जन्तूनां रमणीयावृतात्मनाम सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ गर्हितं महताम अर्थे सांख्यानां विदितात्मनाम उपप्लवांस तथा घॊराञ शशिनस तेजसस तथा ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम दवन्द्वानां विप्रयॊगं च विज्ञाय कृपणं नृप अन्यॊन्यभक्षणं दृष्ट्वा भूतानाम अपि चाशुभम बाल्ये मॊहं च विज्ञाय कषयं देहस्य चाशुभम रागे मॊहे च संप्राप्ते कव चित सत्त्वं समाश्रितम सहस्रेषु नरः कश चिन मॊक्षबुद्धिं समाश्रितः दुर्लभत्वं च मॊक्षस्य विज्ञाय शरुतिपूर्वकम बहुमानम अलब्धेषु लब्धे मध्यस्थतां पुनः विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः गतासूनां च कौन्तेय देहान दृष्ट्वा तथाशुभान वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत बरह्मघ्नानां गतिं जञात्वा पतितानां सुदारुणाम सुरा पाने च सक्तानां बराह्मणानां दुरात्मनाम गुरु दारप्रसक्तानां गतिं विज्ञाय चाशुभाम जननीषु च वर्तन्ते ये न सम्यग युधिष्ठिर सदेवकेषु लॊकेषु ये न वर्तन्ति मानवाः तेन जञानेन विज्ञाय गतिं चाशुभ कर्मणाम तिर्यग्यॊनिगतानां च विज्ञाय गतयः पृथक वेदवादांस तथा चित्रान ऋतूनां पर्ययांस तथा कषयं संवत्सराणां च मासानां परक्षयं तथा पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम कषयं वृद्धिं च चन्द्रस्य दृष्ट्वा परत्यक्षतस तथा वृद्धिं दृष्ट्वा समुद्राणां कषयं तेषां तथा पुनः कषयं धनानां च तथा पुनर वृद्धिं तथैव च समॊगानां कषयं दृष्ट्वा युगानां च विशेषतः कषयं च दृष्ट्वा शैलानां कषयं च सरितां तथा वर्णानां च कषयं दृष्ट्वा कषयान्तं च पुनः पुनः जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह देहदॊषांस तथा जञात्वा तेषां दुःखं च तत्त्वतः देव विक्लवतां चैव सम्यग विज्ञाय भारत आत्मदॊषांश च विज्ञाय सर्वान आत्मनि संश्रितान सवदेहाद उत्थितान गन्धांस तथा विज्ञाय चाशुभम [य] कान सवगात्रॊद्भवान दॊषान पश्यस्य अमितविक्रम एतन मे संशयं कृत्स्नं वक्तुम अर्हसि तत्त्वतः [भी] पञ्च दॊषान परभॊ देहे परवदन्ति मनीषिणः मार्गज्ञाः कापिलाः सांख्याः शृणु तान अरिसूदन कामक्रॊधौ भयं निद्रा पञ्चमः शवास उच्यते एते दॊषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम छिन्दन्ति कषमया करॊधं कामं संकल्पवर्जनात सत्त्वसंशीलनान निद्राम अप्रमादाद भयं तथा छिन्दन्ति पञ्चमं शवासं लघ्व आहारतया नृप गुणान गुणशतैर जञात्वा दॊषान दॊषशतैर अपि हेतून हेतुशतैश चित्रैश चित्रान विज्ञाय तत्त्वतः अपां फेनॊपमं लॊकं विष्णॊर माया शतैर वृतम चित्तभित्ति परतीकाशं नल सारम अनर्थकम तमः शवभ्र निभं दृष्ट्वा वर्षबुद्बुद संनिभम नाश परायं सुखाद धीनं नाशॊत्तरम अभावगम रजस तमसि संमग्नं पङ्के दविपम इवावशम सांख्या राजन महाप्राज्ञास तयक्त्वा देहं परजा कृतम जञानज्ञेयेन सांख्येन वयापिना महता नृप राजसान अशुभान गन्धांस तामसांश च तथाविधान पुण्यांश च सात्त्विकान गन्धान सपर्शजान देहसंश्रितान छित्त्वाशु जञानशस्त्रेण तपॊ दन्देन भारत ततॊ दुःखॊदकं घॊरं चिन्ताशॊकमहाह्रदम वयाधिमृत्युमहाग्राहं महाभयमहॊरगम तमः कूर्मं रजॊ मीनं परज्ञया संतरन्त्य उत सनेहपङ्कं जरा दुर्गं सपर्शद्वीपम अरिंदम कर्मागाधं सत्यतीरं सथितव्रतम इदं नृप हिंसा शीघ्रमहावेगं नाना रसमहाकरम नाना परीतिमहारत्नं दुःखज्वर समीरणम शॊकतृष्णा महावर्तं तीस्क्न वयाधिमहागजम अस्थि संघातसंघातं शलेष्म फेनम अरिंदम दानम उक्ताकरं भीमं शॊनित हरद विद्रुतम हसितॊत्क्रुष्ट निर्घॊषं नाना जञानसुदुस्तरम रॊदनाश्रु मलक्षारं सङ्गत्यागपरायनम पुनर आ जन्म लॊकौघं पुत्र बान्धवपत्तनम अहिंसा सत्यमर्यादं पराण तयागमहॊर्मिणम वेदान्तगमन दवीपं सर्वभूतदयॊदधिम मॊक्षदुष्प्राप विषयं वदवा मुखसागरम तरन्ति मुनयः सिद्धा जञानयॊगेन भारत तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ततस तान सुकृतीन सांख्यान सूर्यॊ वहति रश्मिभिः पद्मतन्तुवद आविश्य परवहन विषयान नृप तत्र तान परवहॊ वायुः परतिगृह्णाति भारत वीतरागान यतीन सिद्धान वीर्ययुक्तांस तपॊधनान सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश च भारत सप्तानां मरुतां शरेष्ठॊ लॊकान गच्छति यः शुभान स तान वहति कौन्तेय नभसः परमां गतिम नभॊ वहति लॊकेश रजसः परमां गतिम रजॊ वहति राजेन्द्र सत्त्वस्य परमां गतिम सत्त्वं वहति शुद्धात्मन परं नारायणं परभुम परभुर वहति शुद्धात्मा परमात्मानम आत्मना परमात्मानम आसाद्य तद भूतायतनामलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभॊ परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम [य] सथानम उत्तमम आसाद्य भगवन्तं सथिरव्रताः आजन्म मरणं वा ते समरन्त्य उप न वानघ यद अत्र तथ्यं तन मे तवं यथावद वक्तुम अर्हसि तवदृते मानवं नान्यं परस्तुम अर्हामि कौरव मॊक्षदॊषॊ महान एष पराप्य सिद्धिं गतान ऋषीन यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे परवृत्ति लक्षणं धर्मं पश्यामि परमं नृप मग्नस्य हि परे जञाने किं नु दुःखतरं भवेत [भी] यथान्यायं तवया तात परश्नः पृष्टः सुसंकटः बुद्धानाम अपि संमॊहः परश्ने ऽसमिन भरतर्षभ अत्रापि तत्त्वं परमं शृणु सम्यग भयेरितम बुद्धिश च परमा यत्र कापिलानां महात्मनाम इन्द्रियाण्य अपि बुध्यन्ते सवदेहं देहिनॊ नृप कारणाय आत्मनस तानि सूक्ष्मः पश्यति तैस तु सः आत्मना विप्रहीनानि काष्ठ कुन्द्य समानि तु विनश्यन्ति न संदेहः फेना इव महार्णवे इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन सूक्ष्मश चरति सर्वत्र नभसीव समीरणः स पश्यति यथान्यायं सपर्शान सपृशति चाभिभॊ बुध्यमानॊ यथापूर्वम अखिलेनेह भारत इन्द्रियाणीह सर्वाणि सवे सवे सथाने यथाविधि अनीशत्वात परलीयन्ते सर्पा हतविषा इव इन्द्रियाणां तु सर्वेषां सवस्थानेष्व एव सर्वशः आक्रम्य गतयः सूक्ष्माश चरत्य आत्मा न संशयः सत्त्वस्य च गुणान कृत्स्नान रजसश च गुणान पुनः गुणांश च तमसः सर्वान गुणान बुद्धेश च भारत गुणांश च मनसस तद्वन नभसश च गुणांस तथा गुणान वायॊश च धर्मात्मंस तेजसश च गुणान पुनः अपां गुणांस तथा पार्थ पार्थिवांश च गुणान अपि सर्वात्मना गुणैर वयाप्य कषेत्रज्ञः स युधिष्ठिर आत्मा च याति कषेत्रज्ञं कर्मणी च शुभाशुभे शिष्या इव महात्मानम इन्द्रियाणि च तं विभॊ परकृतिं चाप्य अतिक्रम्य गच्छत्य आत्मानम अव्ययम परं नारायणात्मानं निर्द्वन्द्वं परकृतेः परम विमुक्तः पुण्यपापेभ्यः परविष्टस तम अनामयम परमात्मानम अगुणं न निवर्तति भारत शिष्टं तव अत्र मनस तात इन्द्रियाणि च भारत आगच्छन्ति यथाकालं गुरॊः संदेशकारिणः शक्यं चाल्पेन कालेन शान्तिं पराप्तुं गुणार्थिना एवं युक्तेन कौन्तेय युक्तज्ञानेन मॊक्षिणा सांख्या राजन महाप्राज्ञा गच्छन्ति परमां गतिम जञानेनानेन कौन्तेय तुल्यं जञानं न विद्यते अत्र ते संशयॊ मा भूज जञानं सांख्यं परं मतम अक्षरं धरुवम अव्यक्तं पूर्वं बरह्म सनातनम अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम कूतस्थं चैव नित्यं च यद वदन्ति शमात्मकाः यतः सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः यच च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः सर्वे विप्राश च देवाश च तथागमविदॊ जनाः बरह्मण्यं परमं देवम अनन्तं परतॊ ऽचयुतम परार्थयन्तश च तं विप्रा वदन्ति गुणबुद्दयः सम्यग युक्तास तथा यॊगाः सांख्याश चामितदर्शनाः अमूर्तेस तस्य कौन्तेय सांख्यं मूर्तिर इति शरुतिः अभिज्ञानानि तस्याहुर मतं हि भरतर्षभ दविविधानीह भूतानि पृथिव्यां पृथिवीपते जङ्गमागम संज्ञानि जङ्गमं तु विशिष्यते जञानं महद यद धि महत्सु राजन; वेदेषु सांख्येषु तथैव यॊगे यच चापि दृष्टं विविधं पुराणं; सांख्यागतं तन निखिलं नरेन्द्र यच चेतिहासेषु महत्सु दृष्टं; यच चार्थशास्त्रे नृप शिष्टजुष्टे जञानं च लॊके यद इहास्ति किं चित; सांख्यागतं तच च महन महात्मन शमश च दृष्टः परमं बलं च; जञानं च सूक्ष्मं च यथावद उक्तम तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद विहितानि राजन विपर्यये तस्य हि पार्थ देवान; गच्छन्ति सांख्याः सततं सुखेन तांश चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः हित्वा च देहं परविशन्ति मॊक्षं; दिवौकसॊ दयाम इव पार्थ सांख्याः ततॊ ऽधिकं ते ऽभिरता महार्हे; सांख्ये दविजाः पार्थिव शिष्टजुष्टे तेषां न तिर्यग गमनं हि दृष्टं; नावाग गतिः पापकृतां निवासः न चाबुधानाम अपि ते दविजातयॊ; ये जञानम एतन नृपते ऽनुरक्ताः सांक्यं विशालं परमं पुराणं; महार्णवं विमलम उदारकान्तम कृत्स्नं च सांख्यं नृपते महात्मा; नारायणॊ धारयते ऽपरमेयम एतन मयॊक्तं नरदेव तत्त्वं; नारायणॊ विश्वम इदं पुराणम स सर्ग काले च करॊति सर्गं; संहार काले च तद अत्ति भूयः |
[y] samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā sāṃkhye tvedānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate triṣu lokeṣu yaj jñānaṃ sarvaṃ tad vitidaṃ hi te [bhī] śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha guṇāś ca yasmin bahavo doṣahāniś ca kevalā jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca devarṣiviṣayāñ jñātvā yogānān api ceśvarān viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām tiryak ca patatāṃ duḥkhma patatāṃ narake ca yat svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa sattvaṃ daśaguṇaṃ jñātvā rajo nava guṇaṃ tathā tamaś cāsta guṇaṃ jñātvā buddhiṃ sapta guṇāṃ tathā so guṇaṃ ca nabho jñātvā manaḥ pañca guṇaṃ tathā buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam apsu devīṃ tathā saktām apas tejasi cāśritāḥ tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani saktam ātmānam īśe ca deve nārāyaṇe tathā devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit jñātvā sattvayutaṃ dehaṃ vṛtaṃ sodaśabhir guṇaiḥ svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate dvitīyaṃ karma vijñāya nṛpatau viṣayaiṣiṇām indriyāṇīndriyārthāś ca sarvān ātmani saṃśṛtān prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ avākcaivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā jathare cāśubhe vāsaṃ śonitodaka bhājane śleṣma mūtra purīṣe ca tīvragandhasamanvite śukraśonita saṃghāte majjāsnāyuparigrahe sirā śatasamākīrṇe navadvāre pure 'śucau vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām upaplavāṃs tathā ghorāñ śaśinas tejasas tathā tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam dvandvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām surā pāne ca saktānāṃ brāhmaṇānāṃ durātmanām guru dāraprasaktānāṃ gatiṃ vijñāya cāśubhām jananīṣu ca vartante ye na samyag yudhiṣṭhira sadevakeṣu lokeṣu ye na vartanti mānavāḥ tena jñānena vijñāya gatiṃ cāśubha karmaṇām tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca samogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ deva viklavatāṃ caiva samyag vijñāya bhārata ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān svadehād utthitān gandhāṃs tathā vijñāya cāśubham [y] kān svagātrodbhavān doṣān paśyasy amitavikrama etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ [bhī] pañca doṣān prabho dehe pravadanti manīṣiṇaḥ mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate ete doṣāḥ śarīreṣu dṛśyante sarvadehinām chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā chindanti pañcamaṃ śvāsaṃ laghv āhāratayā nṛpa guṇān guṇaśatair jñātvā doṣān doṣaśatair api hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ apāṃ phenopamaṃ lokaṃ viṣṇor māyā śatair vṛtam cittabhitti pratīkāśaṃ nala sāram anarthakam tamaḥ śvabhra nibhaṃ dṛṣṭvā varṣabudbuda saṃnibham nāśa prāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajā kṛtam jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān chittvāśu jñānaśastreṇa tapo dandena bhārata tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam tamaḥ kūrmaṃ rajo mīnaṃ prajñayā saṃtaranty uta snehapaṅkaṃ jarā durgaṃ sparśadvīpam ariṃdama karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa hiṃsā śīghramahāvegaṃ nānā rasamahākaram nānā prītimahāratnaṃ duḥkhajvara samīraṇam śokatṛṣṇā mahāvartaṃ tīskna vyādhimahāgajam asthi saṃghātasaṃghātaṃ śleṣma phenam ariṃdama dānam uktākaraṃ bhīmaṃ śonita hrada vidrutam hasitotkruṣṭa nirghoṣaṃ nānā jñānasudustaram rodanāśru malakṣāraṃ saṅgatyāgaparāyanam punar ā janma lokaughaṃ putra bāndhavapattanam ahiṃsā satyamaryādaṃ prāṇa tyāgamahormiṇam vedāntagamana dvīpaṃ sarvabhūtadayodadhim mokṣaduṣprāpa viṣayaṃ vadavā mukhasāgaram taranti munayaḥ siddhā jñānayogena bhārata tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ padmatantuvad āviśya pravahan viṣayān nṛpa tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān sa tān vahati kaunteya nabhasaḥ paramāṃ gatim nabho vahati lokeśa rajasaḥ paramāṃ gatim rajo vahati rājendra sattvasya paramāṃ gatim sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum prabhur vahati śuddhātmā paramātmānam ātmanā paramātmānam āsādya tad bhūtāyatanāmalāḥ amṛtatvāya kalpante na nivartanti cābhibho paramā sā gatiḥ pārtha nirdvandvānāṃ mahātmanām [y] sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ ājanma maraṇaṃ vā te smaranty upa na vānagha yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi tvadṛte mānavaṃ nānyaṃ prastum arhāmi kaurava mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn yadi tatraiva vijñāne vartante yatayaḥ pare pravṛtti lakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet [bhī] yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha atrāpi tattvaṃ paramaṃ śṛṇu samyag bhayeritam buddhiś ca paramā yatra kāpilānāṃ mahātmanām indriyāṇy api budhyante svadehaṃ dehino nṛpa kāraṇāy ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ ātmanā viprahīnāni kāṣṭha kundya samāni tu vinaśyanti na saṃdehaḥ phenā iva mahārṇave indriyaiḥ saha suptasya dehinaḥ śatrutāpana sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho budhyamāno yathāpūrvam akhileneha bhārata indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi anīśatvāt pralīyante sarpā hataviṣā iva indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam paraṃ nārāyaṇātmānaṃ nirdvandvaṃ prakṛteḥ param vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam paramātmānam aguṇaṃ na nivartati bhārata śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā evaṃ yuktena kaunteya yuktajñānena mokṣiṇā sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam anādimadhyanidhanaṃ nirdvandvaṃ kartṛ śāśvatam kūtasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ yataḥ sarvāḥ pravartante sarga pralaya vikriyāḥ yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ sarve viprāś ca devāś ca tathāgamavido janāḥ brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam prārthayantaś ca taṃ viprā vadanti guṇabuddayaḥ samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ abhijñānāni tasyāhur mataṃ hi bharatarṣabha dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate jaṅgamāgama saṃjñāni jaṅgamaṃ tu viśiṣyate jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam sa sarga kāle ca karoti sargaṃ; saṃhāra kāle ca tad atti bhūyaḥ |