|
[य] कथं निर्वेदम आपन्नः शुकॊ वैयासकिः पुरा एतद इच्छामि कौरव्य शरॊतुं कौतूहलं हि मे [भी] पराकृतेन सुवृत्तेन चरन्तम अकुतॊभयम अध्याप्य कृत्स्नं सवाध्यायम अन्वशाद वै पिता सुतम धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ कषुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः सत्यम आर्जवम अक्रॊधम अनसूयां दमं तपः अहिंसां चानृशंस्यं च विधिवत परिपालय सत्ये तिष्ठ रतॊ धर्मे हित्वा सर्वम अनार्जवम देवतातिथिशेषेण यात्रां पराणस्य संश्रय फेनपात्रॊपमे देहे जीवे शकुनिवत सथिते अनित्ये परिय संवासे कथं सवपिषि पुत्रक अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु अन्तरं लिप्समानेषु बालस तवं नावबुध्यसे गण्यमानेषु वर्षेषु कषीयमाणे तथायुषि जीविते शिष्यमाणे च किम उत्थाय न धावसि ऐहालौकिकम ईहन्ते मांसशॊनितवर्धनम पारलौकिककार्येषु परसुप्ता भृशनास्तिकाः धर्माय ये ऽभयसूयन्ति बुद्धिमॊहान्विता नराः अपथा गच्छतां तेषाम अनुयातापि पीड्यते ये तु तुष्टाः सुनियताः सत्यागम परायनाः धर्म्यं पन्थानम आरूढास तान उपास्स्व च पृच्छ च उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम नियच्छ परया बुद्ध्या चित्तम उत्पथगामि वै अद्य कालिकया बुद्ध्या दूरे शव इति निर्भयाः सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः धर्मनिःश्रेणिम आस्थाय किं चित किं चित समारुह कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे नास्तिकं भिन्नमर्यादं कूलपातम इवास्थिरम वामतः कुरु विस्रब्धॊ नरं वेनुम इवॊद्धतम कामं करॊधं च मृत्युं च पञ्चेन्द्रिय जलां नदीम नावं धृतिमयीं कृत्वा जन्म दुर्गानि संतर मृत्युनाभ्याहते लॊके जरया परिपीदिते अमॊघासु पतन्तीषु धर्मयानेन संतर तिष्ठन्तं च शयानं च मृत्युर अन्वेषते यदा निर्वृतिं लभसे कस्माद अकस्मान मृत्युनाशितः संचिन्वानकम एवैनं कामानाम अवितृप्तकम वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति करमशः संचितशिखॊ धर्मबुद्धिमयॊ महान अन्धकारे परवेष्टव्ये दिपॊ यत्नेन धार्यते संपतन देहजालानि कदा चिद इह मानुषे बराह्मण्यं लभते जन्तुस तत पुत्र परिपालय बराह्मणस्य हि देहॊ ऽयं न कामार्थाय जायते इह कलेशाय तपसे परेत्य तव अनुपमं सुखम बराह्मण्यं बहुभिर अवाप्यते तपॊभिस; तल लब्ध्वा न परिपनेन हेदितव्यम सवाध्याये तपसि दमे च नित्ययुक्तः; कषेमार्थी कुशलपरः सदा यतस्व अव्यक्तप्रकृतिर अयं कला शरीरः; सूक्ष्मात्मा कषणत्रुतिशॊ निमेष रॊमा ऋत्वास्यः समबलशुक्लकृष्णनेत्रॊ; मानाङ्गॊ दरवति वयॊ हयॊ नराणाम तं दृष्ट्वा परसृतम अजस्रम उग्रवेगं; गच्छन्तं सततम इहाव्यपेक्षमाणम चक्षुस ते यदिन परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य ये ऽमी तु परचलित धर्मकामवृत्ताः; करॊशन्तः सततम अनिष्ट संप्रयॊगाः कलिश्यन्ते परिगत वेदनाशरीरा; बह्वीभिः सुभृशम अधर्मवासनाभिः राजा धर्मपरः सदा शुभगॊप्ता; समीक्ष्य सुकृतिनां दधाति लॊकान बहुविधम अपि चरतः परदिशति; सुखम अनुपगतं निरवद्यम शवानॊ भीसनायॊ मुखानि वयांसि; वद गृध्रकुलपक्षिणां च संघाः नरां कदने रुधिरपा गुरुवचन;नुदम उपरतं विशसन्ति मर्यादा नियताः सवयम्भुवा य इहेमाः; परभिनत्ति दशगुणा मनॊऽनुगत्वात निवसति भृशम असुखं पितृविषय;विपिनम अवगाह्य स पापः यॊ लुब्धः सुभृशं परियानृतश च मनुष्यः; सततनिकृतिवञ्चनारतिः सयात उपनिधिभिर असुखकृत स परमनिरयगॊ; भृशम असुखम अनुभवति दुष्कृत कर्मा उष्मां वैतरणीं महानदीम; अवगाधॊ ऽसि पत्रवनभिन्न गात्रः परशु वनशयॊ निपतितॊ; वसति च महानिरये भृशार्तः महापदानि कत्थसे न चाप्य अवेक्षसे परम चिरस्य मृत्युकारिकाम अनागतां न बुध्यसे परयास्यतां किम आस्यते समुत्थितं महद भयम अतिप्रमाथि दारुणं सुखस्य संविधीयताम पुरा मृतः परनीयसे यमस्य मृत्युशासनात तद अन्तिकाय दारुणैः परयत्नम आर्जवे कुरु पुरा समूल बान्धवं परभुर हरत्य अदुःखवित तवेह जीवितं यमॊ न चास्ति तस्य वारकः पुरा विवाति मारुतॊ यमस्य यः पुरःसरः पुरैक एव नीयसे कुरुष्व साम्परायिकम पुरा सहिक्क एव ते परवाति मारुतॊ ऽनतकः पुरा च विभ्रमन्ति ते दिशॊ महाभयागमे समृतिश च संनिरुध्यते पुरा तवेह पुत्रक समाकुलस्य गच्छतः समाधिम उत्तमं कुरु कृताकृते शुभाशुभे परमादकर्म विप्लुते समरन पुरा न तप्यसे निधत्स्व केवलं निधिम पुरा जरा कलेवरं विजर्जरी करॊति ते बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम पुरा शरीरम अन्तकॊ भिनत्ति रॊगसायकैः परसह्य जीवितक्षये तपॊ महत समाचर पुरा वृका भयंकरा मनुष्यदेहगॊचराः अभिद्रवन्ति सर्वतॊ यतस्व पुण्यशीलने पुरान्धकारम एककॊ ऽनुपश्यसि तवरस्व वै पुरा हिरन मयान नगान निरीक्षसे ऽदरिमूर्धनि पुरा कुसंगतानि ते सुहृन मुखाश च शत्रवः विचालयन्ति दर्शनाद घतस्व पुत्र यत परम धनस्य यस्य राजतॊ भयं न चास्ति चौरतः मृतं च यन न मुञ्चति समर्जयस्व तद धनम न तत्र संविभज्यते सवकर्मभिः परस्परम यद एव यस्य यौतकं तद एव तत्र सॊ ऽशनुते परत्र येन जीव्यते तद एव पुत्र दीयताम धनं यद अक्षयं धरुवं समर्जयस्व तत सवयम न यावद एव पच्यते महाजनस्य यावकम अपक्व एव यावके पुरा परनीयसे तवर न मातृपितृबान्धवा न संस्तुतः परियॊ जनः अनुव्रजन्ति संकते वरजन्तम एकपातिनाम यद एव कर्म केवलं सवयं कृतं शुभाशुभम तद एव तस्य यौतकं भवत्य अमुत्र गच्छतः हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः न तस्य देहसंक्षये भवन्ति कार्यसाधकाः परत्र गामिकस्य ते कृताकृतस्य कर्मणः न साक्षिर आत्मना समॊ नृणाम इहास्ति कश चन मनुष्यदेहशून्यकं भवत्य अमुत्र गच्छतः परपश्य बुद्धिचक्षुषा परदृश्यते हि सर्वतः इहाग्निसूर्यवायवः शरीरम आश्रितास तरयः त एव तस्य साक्षिणॊ भवन्ति धर्मदर्शिनः यथानिशेषु सर्वतः सपृशत्सु सर्वदारिषु परकाशगूढ वृत्तिषु सवधर्मम एव पालय अनेकपारिपन्थिके विरूपरौद्ररक्षिते सवम एव कर्म रक्ष्यतां सवकर्म तत्र गच्छति न तत्र संविभज्यते सवकर्मणा परस्परम यथा कृतं सवकर्मजं तद एव भुज्यते फलम यथाप्सरॊ गणाः फलं सुखं महर्षिभिः सह तथाप्नुवन्ति कर्मतॊ विमानकामगानिमः यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः तद आप्नुवन्ति मानवास तथा विशुद्धयॊनयः परजापतेः सलॊकतां बृहस्पतेः शतक्रतॊः वरजन्ति ते परां गतिं गृहस्थ धर्मसेतुभिः सहस्रशॊ ऽपय अनेकशः परवक्तुम उत्सहामहे अबुद्धि मॊहनं पुनः परभुर विना न यावकम गता दविर अस्तवर्षता धरुवॊ ऽसि पञ्चविंशकः कुरुष्व धर्मसंचयं वयॊ हि ते ऽतिवर्तते पुरा करॊति सॊ ऽनतकः परमादगॊमुखं दमम यथागृहीतम उत्थितं तवरस्व धर्मपालने यदा तवम एव पृष्ठतस तवम अग्रतॊ गमिष्यसि तथागतिं गमिष्यतः किम आत्मना परेण वा यद एकपातिनां सतां भवत्य अमुत्र गच्छताम भयेषु साम्परायिकं निधत्स्व तं महानिधिम सकूल मूलबान्धवं परभुर हरत्य असङ्गवान न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम इदं निदर्शनं मया तवेह पुत्र संमतम सवधर्शनानुमानतः परवर्नितं कुरुष्व तत दधाति यः सवकर्मणा धनानि यस्य कस्य चित अबुद्धि मॊहजैर गुणैः शतैक एव युज्यते शरुतं समर्थम अस्तु ते परकुर्वतः शुभाः करियाः तद एव तत्र दर्शनं कृतज्ञम अर्थसंहितम निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः किं ते धनेन किं बन्धुभिस ते; किं ते पुत्रैः पुत्रक यॊ मरिष्यसि आत्मानम अन्विच्छ गुहां परविष्टं; पितामहास ते कव गताश च सर्वे शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम कॊ हि तद वेद कस्याद्य मृत्युसेना निवेक्ष्यते अनुगम्य शमशानान्तं निवर्तन्तीह बान्धवाः अग्नौ परक्षिप्य पुरुषं जञातयः सुहृदस तथा नास्तिकान निरनुक्रॊशान नरान पापमतौ सथितान वामतः कुरु विश्रब्धं परं परेप्सुर अतन्द्रितः एवम अभ्याहते लॊके कालेनॊपनिपीदिते सुमहद धैर्यम आलम्ब्य धर्मं सर्वात्मना कुरु अथेमं दर्शनॊपायं सम्यग यॊ वेत्ति मानवः सम्यक स धर्मं कृत्वेह परत्र सुखम एधते न देहभेदे मरणं विजानतां; न च परनाशः सवनुपालिते पथि धर्मं हि यॊ वर्धयते स पण्डितॊ; य एव धर्माच चयवते स मुह्यति परयुक्तयॊः कर्म पथि सवकर्मणॊः; फलं परयॊक्ता लभते यथाविधि निहीन कर्मा निरयं परपद्यते; तरिविष्टपं गच्छति धर्मपारगः सॊपानभूतं सवर्गस्य मानुष्यं पराप्य दुर्लभम तथात्मानं समादध्याद भरश्येत न पुनर यथा यस्य नॊत्क्रामति मतिः सवर्गमार्गानुसारिणी तम आहुः पुण्यकर्माणम अशॊच्यं मित्र बान्धवैः यस्य नॊपहता बुद्धिर निश्चयेष्व अवलम्बते सवर्गे कृतावकाशस्य तस्य नास्ति महद भयम तपॊवनेषु ये जातास तत्रैव निधनं गताः तेषाम अल्पतरॊ धर्मः कामभॊगम अजानताम यस तु भॊगान परित्यज्य शरीरेण तपश चरेत न तेन किं चिन न पराप्तं तन मे बहुमतं फलम माता पितृसहस्राणि पुत्रदारशतानि च अनागतान्य अतीतानि कस्य ते कस्य वा वयम न तेषां भवता कार्यं न कार्यं तव तैर अपि सवकृतैस तानि यातानि भवांश चैव गमिष्यति इह लॊके हि धनिनः परॊ ऽपि सवजनायते सवजनस तु दरिद्राणां जीवताम एव नश्यति संचिनॊत्य अशुभं कर्म कलत्रापेक्षया नरः ततः कलेशम अवाप्नॊति परत्रेह तथैव च पश्य तवं छिद्रभूतं हि जीवलॊकं सवकर्मणा तत कुरुष्व तथा पुत्रकृत्स्नं यत समुदाहृतम तद एतत संप्रदृश्यैव कर्मभूमिं परविश्य ताम शुभान्य आचरितव्यानि परलॊकम अभीप्सता मासर्तु संज्ञा परिवर्तकेन; सूर्याङ्गिना रात्रिदिवेन्धनेन सवकर्म निष्ठा फलसाक्षिकेण; भूतानि कालः पचति परसह्य धनेन किं यन न ददाति नाश्नुते; बलेन किं येन रिपून न बाधते शरुतेन किं येन न धर्मम आचरेत; किम आत्मना यॊ न जितेन्द्रियॊ वशी इदं दवैपायन वचॊ हितम उक्तं निशम्य तु शुकॊ गतः परित्यज्य पितरं मॊक्षदेशिकम |
[y] kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me [bhī] prākṛtena suvṛttena carantam akutobhayam adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya satye tiṣṭha rato dharme hitvā sarvam anārjavam devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya phenapātropame dehe jīve śakunivat sthite anitye priya saṃvāse kathaṃ svapiṣi putraka apramatteṣu jāgratsu nityayukteṣu śatruṣu antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi jīvite śiṣyamāṇe ca kim utthāya na dhāvasi aihālaukikam īhante māṃsaśonitavardhanam pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ apathā gacchatāṃ teṣām anuyātāpi pīḍyate ye tu tuṣṭāḥ suniyatāḥ satyāgama parāyanāḥ dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām niyaccha parayā buddhyā cittam utpathagāmi vai adya kālikayā buddhyā dūre śva iti nirbhayāḥ sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha kośakāravad ātmānaṃ veṣṭayan nāvabudhyase nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram vāmataḥ kuru visrabdho naraṃ venum ivoddhatam kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriya jalāṃ nadīm nāvaṃ dhṛtimayīṃ kṛtvā janma durgāni saṃtara mṛtyunābhyāhate loke jarayā paripīdite amoghāsu patantīṣu dharmayānena saṃtara tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ saṃcinvānakam evainaṃ kāmānām avitṛptakam vṛkīvoraṇam āsādya mṛtyur ādāya gacchati kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān andhakāre praveṣṭavye dipo yatnena dhāryate saṃpatan dehajālāni kadā cid iha mānuṣe brāhmaṇyaṃ labhate jantus tat putra paripālaya brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate iha kleśāya tapase pretya tv anupamaṃ sukham brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripanena heditavyam svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva avyaktaprakṛtir ayaṃ kalā śarīraḥ; sūkṣmātmā kṣaṇatrutiśo nimeṣa romā ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; mānāṅgo dravati vayo hayo narāṇām taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam cakṣus te yadina parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya ye 'mī tu pracalita dharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭa saṃprayogāḥ kliśyante parigata vedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam śvāno bhīsanāyo mukhāni vayāṃsi; vada gṛdhrakulapakṣiṇāṃ ca saṃghāḥ narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti maryādā niyatāḥ svayambhuvā ya ihemāḥ; prabhinatti daśaguṇā mano'nugatvāt nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛta karmā uṣmāṃ vaitaraṇīṃ mahānadīm; avagādho 'si patravanabhinna gātraḥ paraśu vanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ mahāpadāni katthase na cāpy avekṣase param cirasya mṛtyukārikām anāgatāṃ na budhyase prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām purā mṛtaḥ pranīyase yamasya mṛtyuśāsanāt tad antikāya dāruṇaiḥ prayatnam ārjave kuru purā samūla bāndhavaṃ prabhur haraty aduḥkhavit taveha jīvitaṃ yamo na cāsti tasya vārakaḥ purā vivāti māruto yamasya yaḥ puraḥsaraḥ puraika eva nīyase kuruṣva sāmparāyikam purā sahikka eva te pravāti māruto 'ntakaḥ purā ca vibhramanti te diśo mahābhayāgame smṛtiś ca saṃnirudhyate purā taveha putraka samākulasya gacchataḥ samādhim uttamaṃ kuru kṛtākṛte śubhāśubhe pramādakarma viplute smaran purā na tapyase nidhatsva kevalaṃ nidhim purā jarā kalevaraṃ vijarjarī karoti te balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim purā śarīram antako bhinatti rogasāyakaiḥ prasahya jīvitakṣaye tapo mahat samācara purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ abhidravanti sarvato yatasva puṇyaśīlane purāndhakāram ekako 'nupaśyasi tvarasva vai purā hiran mayān nagān nirīkṣase 'drimūrdhani purā kusaṃgatāni te suhṛn mukhāś ca śatravaḥ vicālayanti darśanād ghatasva putra yat param dhanasya yasya rājato bhayaṃ na cāsti caurataḥ mṛtaṃ ca yan na muñcati samarjayasva tad dhanam na tatra saṃvibhajyate svakarmabhiḥ parasparam yad eva yasya yautakaṃ tad eva tatra so 'śnute paratra yena jīvyate tad eva putra dīyatām dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam na yāvad eva pacyate mahājanasya yāvakam apakva eva yāvake purā pranīyase tvara na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ anuvrajanti saṃkate vrajantam ekapātinām yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham tad eva tasya yautakaṃ bhavaty amutra gacchataḥ hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ paratra gāmikasya te kṛtākṛtasya karmaṇaḥ na sākṣir ātmanā samo nṛṇām ihāsti kaś cana manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ yathāniśeṣu sarvataḥ spṛśatsu sarvadāriṣu prakāśagūḍha vṛttiṣu svadharmam eva pālaya anekapāripanthike virūparaudrarakṣite svam eva karma rakṣyatāṃ svakarma tatra gacchati na tatra saṃvibhajyate svakarmaṇā parasparam yathā kṛtaṃ svakarmajaṃ tad eva bhujyate phalam yathāpsaro gaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha tathāpnuvanti karmato vimānakāmagānimaḥ yatheha yatkṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ tad āpnuvanti mānavās tathā viśuddhayonayaḥ prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ vrajanti te parāṃ gatiṃ gṛhastha dharmasetubhiḥ sahasraśo 'py anekaśaḥ pravaktum utsahāmahe abuddhi mohanaṃ punaḥ prabhur vinā na yāvakam gatā dvir astavarṣatā dhruvo 'si pañcaviṃśakaḥ kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate purā karoti so 'ntakaḥ pramādagomukhaṃ damam yathāgṛhītam utthitaṃ tvarasva dharmapālane yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi tathāgatiṃ gamiṣyataḥ kim ātmanā pareṇa vā yad ekapātināṃ satāṃ bhavaty amutra gacchatām bhayeṣu sāmparāyikaṃ nidhatsva taṃ mahānidhim sakūla mūlabāndhavaṃ prabhur haraty asaṅgavān na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim idaṃ nidarśanaṃ mayā taveha putra saṃmatam svadharśanānumānataḥ pravarnitaṃ kuruṣva tat dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit abuddhi mohajair guṇaiḥ śataika eva yujyate śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam nibandhanī rajjur eṣā yā grāme vasato ratiḥ chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve śvaḥ kāryam adya kurvīta pūrvāhne cāparāhnikam ko hi tad veda kasyādya mṛtyusenā nivekṣyate anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā nāstikān niranukrośān narān pāpamatau sthitān vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ evam abhyāhate loke kālenopanipīdite sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ samyak sa dharmaṃ kṛtveha paratra sukham edhate na dehabhede maraṇaṃ vijānatāṃ; na ca pranāśaḥ svanupālite pathi dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati prayuktayoḥ karma pathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi nihīna karmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham tathātmānaṃ samādadhyād bhraśyeta na punar yathā yasya notkrāmati matiḥ svargamārgānusāriṇī tam āhuḥ puṇyakarmāṇam aśocyaṃ mitra bāndhavaiḥ yasya nopahatā buddhir niścayeṣv avalambate svarge kṛtāvakāśasya tasya nāsti mahad bhayam tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ teṣām alpataro dharmaḥ kāmabhogam ajānatām yas tu bhogān parityajya śarīreṇa tapaś caret na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam mātā pitṛsahasrāṇi putradāraśatāni ca anāgatāny atītāni kasya te kasya vā vayam na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati iha loke hi dhaninaḥ paro 'pi svajanāyate svajanas tu daridrāṇāṃ jīvatām eva naśyati saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ tataḥ kleśam avāpnoti paratreha tathaiva ca paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā tat kuruṣva tathā putrakṛtsnaṃ yat samudāhṛtam tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām śubhāny ācaritavyāni paralokam abhīpsatā māsartu saṃjñā parivartakena; sūryāṅginā rātridivendhanena svakarma niṣṭhā phalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī idaṃ dvaipāyana vaco hitam uktaṃ niśamya tu śuko gataḥ parityajya pitaraṃ mokṣadeśikam |