|
[य] शराध काले च दैवे च धर्मे चापि पितामह इच्छामीह तवयाख्यातं विहितं यत सुरर्षिभिः [भ] दैवं पूर्वाह्णिके कुर्याद अपराह्णे तु पैतृकम मङ्गलाचार संपन्नः कृतशौचः परयत्नवान मनुष्याणां तु मध्याह्ने परदद्याद उपपत्तितः कालहीनं तु यद दानं तं भागं रक्षसां विदुः लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम रजस्वराभिर दृष्टं च तं भागं सक्षसां विदुः अवघुष्टं च यद भुक्तम अव्रतेन च भारत परामृष्टं शुना चैव तं भागं रक्षसां विदुः केशकीतावपतितं कषुतं शवभिर अवेक्षितम रुदितं चावधूतं च तं भागं रक्षसां विदुः निर ओंकारेण यद भुक्तं स शस्त्रेण च भारत दुरात्मना च यद भुक्तं तं भागं रक्षसां विदुः परॊच्छिष्टं च यद भुक्तं परिभुक्तं च यद भवेत दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः गर्हितं निन्दितं चैव परिविष्टं स मन्युना दैवं वाप्य अथ वा पैत्र्यं तं भागं रक्षसां विदुः मन्त्रहीनं करिया हीनं यच छराधं परिविष्यते तरिभिर वर्णैर नरश्रेष्ठ तं भागं रक्षसां विदुः आज्याहुतिं विना चैव यत किं चित परिविष्यते दुराचारैश च यद भुक्तं तं भागं रक्षसां विदुः ये भागा रक्षसां परॊक्तास त उक्ता भरतर्षभ अत ऊर्ध्वं विसर्गस्य परीक्षां बराह्मणे शृणु यावन्तः पतिता विप्रा जडॊन्मत्तास तथैव च दैवे वाप्य अथ वा पित्र्ये राजन नार्हन्ति केतनम शवित्री कुष्ठी च कलीबश च तथा यक्ष्म हतश च यः अपस्मारी च यश चान्धॊ राजन नार्हन्ति सत्कृतिम चिकित्सका देवलका वृथा नियमधारिणः सॊमविक्रयिणश चैव शराद्धे नार्हन्ति केतनम गायना नर्तकाश चैव पलवका वादकास तथा कथका यॊधकाश चैव राजन नार्हन्ति केतनम हॊतारॊ वृषलानां च वृषलाध्यापकास तथा तथा वृषल शिष्याश च राजन नार्हन्ति केतनम अनुयॊक्ता च यॊ विप्रॊ अनुयुक्तश च भारत नार्हतस ताव अपि शराधं बरह्म विक्रयिणौ हि तौ अग्रणीर यः कृतः पूर्वं वर्णावर परिग्रहः बराह्मणः सर्वविद्यॊ ऽपि राजन नार्हन्ति केतनम अनग्नयश च ये विप्रा मृतनिर्यातकाश च ये सतेनाश च पतिताश चैव राजन नार्हन्ति केतनम अपरिज्ञात पूर्वाश च गणपूर्वांश च भारत पुत्रिका पूर्वपुत्राश च शराद्धे नार्हन्ति केतनम ऋण कर्ता च यॊ राजन यश च वार्धुषिकॊ दविजः पराणिविक्रय वृत्तिश च राजन नार्हन्ति केतनम सत्रीपूर्वाः काण्डपृष्ठाश च यावन्तॊ भरतर्षभ अजपा बराह्मणाश चैव शराद्धे नार्हन्ति केतनम शराद्धे दैवे च निर्दिष्टा बराह्मणा भरतर्षभ दातुः परतिग्रहीतुश च शृणुष्वानुग्रहं पुनः चीर्ण वरता गुणैर युक्ता भवेयुर ये ऽपि कर्षकाः सावित्रीज्ञाः करियावन्तस ते राजन केतन कषमाः कषात्रधर्मिणम अप्य आजौ केतयेत कुलजं दविजम न तव एव वणिजं तात शराद्धेषु परिकल्पयेत अग्निहॊत्री च यॊ विप्रॊ गरामवासी च यॊ भवेत अस्तेनश चातिथिज्ञश च स राजन केतन कषमः सावित्रीं जपते यस तु तरिकालं भरतर्षभ खिक्षा वृत्तिः करियावांश च स राजन केतन कषमः उदितास्तमितॊ यश च तथैवास्तमितॊदितः अहिंस्रश चाल्पदॊषश च स राजन केतन कषमः अकल्ककॊ हय अतर्कश च बराह्मणॊ भरतर्षभ स संज्ञॊ भैक्ष्य वृत्तिश च स राजन केतन कषमः अव्रती कितवः सतेनः पराणिविक्रय्य अथॊ वणिक पश्चाच च पीतवान सॊमं स राजन केतन कषमः अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः भवेत सर्वातिथिः पश्चात स राजन केतन कषमः बरह्म विक्रय निर्दिष्टं सत्रिया यच चार्जितं धनम अदेयं पितृदेवेभ्यॊ यच च कलैब्याद उपार्जितम करियमाणे ऽपवर्गे तु यॊ दविजॊ भरतर्षभ न वयाहरति यद युक्तं तस्याधर्मॊ गवानृतम शराद्धस्य बराह्मणः कालः पराप्तं दधिघृतं तथा सॊमक्षयश च मांसं च यद आरण्यं युधिष्ठिर शराद्धापवर्गे विप्रस्य सवधा वै सवदिता भवेत कषत्रियस्याप्य अथॊ बरूयात परीयन्तां पितरस तव इति अपवर्गे तु वैश्यस्य शराद्धकर्मणि भारत अक्षय्यम अभिधातव्यं सवस्ति शूद्रस्य भारत पुण्याहवाचनं दैवे बराह्मणस्य विधीयते एतद एव निर ओंकारं कषत्रियस्य विधीयते वैश्यस्य चैव वक्तव्यं परीयन्तां देवता इति कर्मणाम आनुपूर्वीं च विधिपूर्वकृतं शृणु जातकर्मादिकान सर्वांस तरिषु वर्णेषु भारत बरह्मक्षत्रे हि मन्त्रॊक्ता वैश्यस्य च युधिष्ठिर विप्रस्य रशना मौञ्जी मौर्वी राजन्य गामिनी बाल्वजीत्य एव वैश्यस्य धर्म एष युधिष्ठिर दातुः परतिग्रहीतुश च धर्माधर्माव इमौ शृणु बराह्मणस्यानृते ऽधर्मः परॊक्तः पातक संज्ञितः चतुर्गुणः कषत्रियस्य वैश्यस्याष्ट गुणः समृतः नान्यत्र बराह्मणॊ ऽशनीयात पूर्वं विप्रेण केतितः यवीयान पशुहिंसायां तुल्यधर्मॊ भवेत स हि अथ राजन्यवैश्याभ्यां यद्य अश्नीयात तु केतितः यवीयान पशुहिंसायां भागार्धं समवाप्नुयात दैवं वाप्य अथ वा पित्र्यं यॊ ऽशनीयाद बराह्मणादिषु अस्नातॊ बराह्मणॊ राजंस तस्याधर्मॊ गवानृतम आशौचॊ बराह्मणॊ राजन्यॊ ऽशनीयाद बराह्मणादिषु जञानपूर्वम अथॊ लॊभात तस्याधर्मॊ गवानृतम अन्नेनान्नं च यॊ लिप्सेत कर्मार्थं चैव भारत आमन्त्रयति राजेन्द्र तस्याधर्मॊ ऽनृतं समृतम अवेद वरतचारित्रास तरिभिर वर्णैर युधिष्ठिर मन्त्रवत परिविष्यन्ते तेष्व अधर्मॊ गवानृतम [य] पित्र्यं वाप्य अथ वा दैवं दीयते यत पितामह एतद इच्छाम्य अहं शरॊतुं दत्तं येषु महाफलम [भ] येषां दाराः परतीक्षन्ते सुवृष्टिम इव कर्षकाः उच्छेष परिशेषं हि तान भॊजय युधिष्ठिर चारित्रनियता राजन्ये कृशाः कृश वृत्तयः अर्थिनश चॊपगच्छन्ति तेषु दत्तं महाफलम तद भक्तास तद्गृहा राजंस तद धनास तद अपाश्रयाः अर्थिनश च भवन्त्य अर्थे तेषु दत्तं महाफलम तस्करेभ्यः परेभ्यॊ वा ये भयार्ता युधिष्ठिर अर्थिनॊ भॊक्तुम इच्छन्ति तेषु दत्तं महाफलम अकल्ककस्य विप्रस्य भैक्षॊत्कर कृतात्मनः बटवॊ यस्य भिक्षन्ति तेभ्यॊ दत्तं महाफलम हृतस्वा हृतदाराश च ये विप्रा देशसंप्लवे अर्थार्थम अभिगच्छन्ति तेभ्यॊ दत्तं महाफलम वरतिनॊ नियमस्थाश च ये विप्राः शरुतसंम्मताः तत समाप्त्य अर्थम इच्छन्ति तेषु दत्तं महाफलम अव्युत्क्रान्ताश च धर्मेषु पाषण्ड समयेषु च कृश पराणाः कृश धनास तेषु दत्तं महाफलम कृतसर्वस्वहरणा निर्दॊषाः परभविष्णुभिः सपृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम तपस्विनस तपॊ निष्ठास तेषां भैक्ष चराश च ये अर्थिनः किं चिद इच्छन्ति तेषु दत्तं महाफलम महाफलविधिर दाने शरुतस ते भरतर्षभ निरयं येन गच्छन्ति सवर्गं चैव हि तच छृणु गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर ये ऽनृतं कथयन्ति सम ते वै निरयगामिनः परदाराभिहर्तारः परदाराभिमर्शिनः परदारप्रयॊक्तारस ते वै निरयगामिनः ये परस्वापहर्तारः परस्वानां च नाशकाः सूचकाश च परेषां ये ते वै निरयगामिनः परपाणां च सभानां च संक्रमाणां च भारत अगाराणां च भेत्तारॊ नरा निरयगामिनः अनाथां परमदं बालां वृद्धां भीतां तपस्विनाम वञ्चयन्ति नरा ये च ते वै निरयगामिनः वृत्तिच छेदं गृहच छेदं दारच छेदं च भारत मित्रच छेदं तथाशायास ते वै निरयगामिनः सूचकाः संधिभेत्तारः परवृत्त्य उपजीवकाः अकृतज्ञाश च मित्राणां ते वै निरयगामिनः पाषण्डा दूषकाश चैव समयानां च दूषकाः ये परत्यवसिताश चैव ते वै निरयगामिनः कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम भेदैर ये वयपकर्षन्ति ते वै निरयगामिनः पर्यश्नन्ति च ये दारान अग्निभृत्यातिथींस तथा उत्सन्नपितृदेवेज्यास ते वै निरयगामिनः वेद विक्रयिणश चैव वेदानां चैव दूषकाः वेदानां लेखकाश चैव ते वै निरयगामिनः चातुराश्रम्य बाह्याश च शरुतिबाह्याश च ये नराः विकर्मभिश च जीवन्ति ते वै निरयगामिनः केशविक्रयिका राजन विषविक्रयिकाश च ये कषीरविक्रयिकाश चैव ते वै निरयगामिनः बराह्मणानां गवां चैव कन्यानां च युधिष्ठिर ये ऽनतरं यान्ति कार्येषु ते वै निरयगामिनः शस्त्रविक्रयकाश चैव कर्तारश च युधिष्ठिर शल्यानां धनुषां चैव ते वै निरयगामिनः शल्यैर वा शङ्कुभिर वापि शवभ्रैर वा भरतर्षभ ये मार्गम अनुरुन्धन्ति ते वै निरयगामिनः उपाध्यायांश च भृत्यां च भक्तांश च भरतर्षभ ये तयजन्त्य असमर्थांस तांस ते वै निरयगामिनः अप्राप्तदमकाश चैव नासानां वेधकास तथा बन्धकाश च पशूनां ये ते वै निरयगामिनः अगॊप्तारश छल दरव्या बलिषड भागतत्पराः समर्थाश चाप्य अदातारस ते वै निरयगामिनः कषान्तान दान्तांस तथा पराज्ञान दीर्घकालं सहॊषितान तयजन्ति कृतकृत्या ये ते वै निरयगामिनः बालानाम अथ वृद्धानां दासानां चैव ये नराः अदत्त्वा भक्षयन्त्य अग्रे ते वै निरयगामिनः एते पूर्वर्षिभिर दृष्टाः परॊक्ता निरयगामिनः भागिनः सवर्गलॊकस्य वक्ष्यामि भरतर्षभ सर्वेष्व एव तु कार्येषु दैवपूर्वेषु भारत हन्ति पुत्रान पशून कृत्स्नान बराह्मणातिक्रमः कृतः दानेन तपसा चैव सत्येन च युधिष्ठिर ये धर्मम अनुवर्तन्ते ते नराः सवर्गगामिनः शुश्रूषाभिस तपॊभिश च शरुतम आदाय भारत ये परतिग्रह निःस्नेहास ते नराः सवर्गगामिनः भयात पापात तथाबाधाद दारिद्र्याद वयाधिधर्षणात यत्कृते परतिमुच्यन्ते ते नराः सवर्गगामिनः कषमावन्तश च धीराश च धर्मकार्येषु चॊत्थिताः मङ्गलाचार युक्ताश च ते नराः सवर्गगामिनः निवृत्ता मधु मांसेभ्यः परदारेभ्य एव च निवृत्ताश चैव मद्येभस ते नराः सवर्गगामिनः आश्रमाणां च कर्तारः कुलानां चैव भारत देशानां नगराणां च ते नराः सवर्गगामिनः वस्त्राभरण दातारॊ भक्ष पानान्नदास तथा कुटुम्बानां च दातारस ते नराः सवर्गगामिनः सर्वहिंसा निवृत्ताश च नराः सर्वसहाश च ये सर्वस्याश्रय भूताश च ते नराः सवर्गगामिनः मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः भरातॄणां चैव स सनेहास ते नराः सवर्गगामिनः आढ्याश च बलवन्तश च यौवनस्थाश च भारत ये वै जितेन्द्रिया धीरास ते नराः सवर्गगामिनः अपराद्धेषु स सनेहा मृदवॊ मित्रवत्सलाः आराधन सुखाश चापि ते नराः सवर्गगामिनः सहस्रपरिवेष्टारस तथैव च सहस्रदाः तरातारश च सहस्राणां पुरुषाः सवर्गगामिनः सुवर्णस्य च दातारॊ गवां च भरतर्षभ यानानां वाहनानां च ते नराः सवर्गगामिनः वैवाहिकानां कन्यानां परेष्याणां च युधिष्ठिर दातारॊ वाससां चैव ते नराः सवर्गगामिनः विहारावसथॊद्यान कूपाराम सभा परदाः वप्राणां चैव कर्तारस ते नराः सवर्गगामिनः निवेशनानां कषृत्राणां वसतीनां च भारत दातारः परार्थितानां च ते नराः सवर्गगामिनः रसानाम अथ बीजानां धान्यानां च युधिष्ठिर सवयम उत्पाद्य दातारः पुरुषाः सवर्गगामिनः यस्मिन कस्मिन कुले जाता बहुपुत्राः शतायुषः सानुक्रॊशा जितक्रॊधाः पुरुषाः सवर्गगामिनः एतद उक्तम अमुत्रार्थं दैवं पित्र्यं च भारत धर्माधर्मौ च दानस्य यथापूर्वर्षिभिः कृतौ |
[y] śrādha kāle ca daive ca dharme cāpi pitāmaha icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ [bh] daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam maṅgalācāra saṃpannaḥ kṛtaśaucaḥ prayatnavān manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yatkṛtam rajasvarābhir dṛṣṭaṃ ca taṃ bhāgaṃ sakṣasāṃ viduḥ avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ keśakītāvapatitaṃ kṣutaṃ śvabhir avekṣitam ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ nir oṃkāreṇa yad bhuktaṃ sa śastreṇa ca bhārata durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ garhitaṃ ninditaṃ caiva pariviṣṭaṃ sa manyunā daivaṃ vāpy atha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ mantrahīnaṃ kriyā hīnaṃ yac chrādhaṃ pariviṣyate tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ ājyāhutiṃ vinā caiva yat kiṃ cit pariviṣyate durācāraiś ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ ye bhāgā rakṣasāṃ proktās ta uktā bharatarṣabha ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu yāvantaḥ patitā viprā jaḍonmattās tathaiva ca daive vāpy atha vā pitrye rājan nārhanti ketanam śvitrī kuṣṭhī ca klībaś ca tathā yakṣma hataś ca yaḥ apasmārī ca yaś cāndho rājan nārhanti satkṛtim cikitsakā devalakā vṛthā niyamadhāriṇaḥ somavikrayiṇaś caiva śrāddhe nārhanti ketanam gāyanā nartakāś caiva plavakā vādakās tathā kathakā yodhakāś caiva rājan nārhanti ketanam hotāro vṛṣalānāṃ ca vṛṣalādhyāpakās tathā tathā vṛṣala śiṣyāś ca rājan nārhanti ketanam anuyoktā ca yo vipro anuyuktaś ca bhārata nārhatas tāv api śrādhaṃ brahma vikrayiṇau hi tau agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvara parigrahaḥ brāhmaṇaḥ sarvavidyo 'pi rājan nārhanti ketanam anagnayaś ca ye viprā mṛtaniryātakāś ca ye stenāś ca patitāś caiva rājan nārhanti ketanam aparijñāta pūrvāś ca gaṇapūrvāṃś ca bhārata putrikā pūrvaputrāś ca śrāddhe nārhanti ketanam ṛṇa kartā ca yo rājan yaś ca vārdhuṣiko dvijaḥ prāṇivikraya vṛttiś ca rājan nārhanti ketanam strīpūrvāḥ kāṇḍapṛṣṭhāś ca yāvanto bharatarṣabha ajapā brāhmaṇāś caiva śrāddhe nārhanti ketanam śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha dātuḥ pratigrahītuś ca śṛṇuṣvānugrahaṃ punaḥ cīrṇa vratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ sāvitrījñāḥ kriyāvantas te rājan ketana kṣamāḥ kṣātradharmiṇam apy ājau ketayet kulajaṃ dvijam na tv eva vaṇijaṃ tāta śrāddheṣu parikalpayet agnihotrī ca yo vipro grāmavāsī ca yo bhavet astenaś cātithijñaś ca sa rājan ketana kṣamaḥ sāvitrīṃ japate yas tu trikālaṃ bharatarṣabha khikṣā vṛttiḥ kriyāvāṃś ca sa rājan ketana kṣamaḥ uditāstamito yaś ca tathaivāstamitoditaḥ ahiṃsraś cālpadoṣaś ca sa rājan ketana kṣamaḥ akalkako hy atarkaś ca brāhmaṇo bharatarṣabha sa saṃjño bhaikṣya vṛttiś ca sa rājan ketana kṣamaḥ avratī kitavaḥ stenaḥ prāṇivikrayy atho vaṇik paścāc ca pītavān somaṃ sa rājan ketana kṣamaḥ arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ bhavet sarvātithiḥ paścāt sa rājan ketana kṣamaḥ brahma vikraya nirdiṣṭaṃ striyā yac cārjitaṃ dhanam adeyaṃ pitṛdevebhyo yac ca klaibyād upārjitam kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha na vyāharati yad yuktaṃ tasyādharmo gavānṛtam śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhighṛtaṃ tathā somakṣayaś ca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira śrāddhāpavarge viprasya svadhā vai svaditā bhavet kṣatriyasyāpy atho brūyāt prīyantāṃ pitaras tv iti apavarge tu vaiśyasya śrāddhakarmaṇi bhārata akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate etad eva nir oṃkāraṃ kṣatriyasya vidhīyate vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu jātakarmādikān sarvāṃs triṣu varṇeṣu bhārata brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira viprasya raśanā mauñjī maurvī rājanya gāminī bālvajīty eva vaiśyasya dharma eṣa yudhiṣṭhira dātuḥ pratigrahītuś ca dharmādharmāv imau śṛṇu brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātaka saṃjñitaḥ caturguṇaḥ kṣatriyasya vaiśyasyāṣṭa guṇaḥ smṛtaḥ nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi atha rājanyavaiśyābhyāṃ yady aśnīyāt tu ketitaḥ yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt daivaṃ vāpy atha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu asnāto brāhmaṇo rājaṃs tasyādharmo gavānṛtam āśauco brāhmaṇo rājanyo 'śnīyād brāhmaṇādiṣu jñānapūrvam atho lobhāt tasyādharmo gavānṛtam annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam aveda vratacāritrās tribhir varṇair yudhiṣṭhira mantravat pariviṣyante teṣv adharmo gavānṛtam [y] pitryaṃ vāpy atha vā daivaṃ dīyate yat pitāmaha etad icchāmy ahaṃ śrotuṃ dattaṃ yeṣu mahāphalam [bh] yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ uccheṣa pariśeṣaṃ hi tān bhojaya yudhiṣṭhira cāritraniyatā rājanye kṛśāḥ kṛśa vṛttayaḥ arthinaś copagacchanti teṣu dattaṃ mahāphalam tad bhaktās tadgṛhā rājaṃs tad dhanās tad apāśrayāḥ arthinaś ca bhavanty arthe teṣu dattaṃ mahāphalam taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira arthino bhoktum icchanti teṣu dattaṃ mahāphalam akalkakasya viprasya bhaikṣotkara kṛtātmanaḥ baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam hṛtasvā hṛtadārāś ca ye viprā deśasaṃplave arthārtham abhigacchanti tebhyo dattaṃ mahāphalam vratino niyamasthāś ca ye viprāḥ śrutasaṃmmatāḥ tat samāpty artham icchanti teṣu dattaṃ mahāphalam avyutkrāntāś ca dharmeṣu pāṣaṇḍa samayeṣu ca kṛśa prāṇāḥ kṛśa dhanās teṣu dattaṃ mahāphalam kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam tapasvinas tapo niṣṭhās teṣāṃ bhaikṣa carāś ca ye arthinaḥ kiṃ cid icchanti teṣu dattaṃ mahāphalam mahāphalavidhir dāne śrutas te bharatarṣabha nirayaṃ yena gacchanti svargaṃ caiva hi tac chṛṇu gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ paradārābhihartāraḥ paradārābhimarśinaḥ paradāraprayoktāras te vai nirayagāminaḥ ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ sūcakāś ca pareṣāṃ ye te vai nirayagāminaḥ prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata agārāṇāṃ ca bhettāro narā nirayagāminaḥ anāthāṃ pramadaṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinām vañcayanti narā ye ca te vai nirayagāminaḥ vṛttic chedaṃ gṛhac chedaṃ dārac chedaṃ ca bhārata mitrac chedaṃ tathāśāyās te vai nirayagāminaḥ sūcakāḥ saṃdhibhettāraḥ paravṛtty upajīvakāḥ akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ pāṣaṇḍā dūṣakāś caiva samayānāṃ ca dūṣakāḥ ye pratyavasitāś caiva te vai nirayagāminaḥ kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam bhedair ye vyapakarṣanti te vai nirayagāminaḥ paryaśnanti ca ye dārān agnibhṛtyātithīṃs tathā utsannapitṛdevejyās te vai nirayagāminaḥ veda vikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ vedānāṃ lekhakāś caiva te vai nirayagāminaḥ cāturāśramya bāhyāś ca śrutibāhyāś ca ye narāḥ vikarmabhiś ca jīvanti te vai nirayagāminaḥ keśavikrayikā rājan viṣavikrayikāś ca ye kṣīravikrayikāś caiva te vai nirayagāminaḥ brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ śastravikrayakāś caiva kartāraś ca yudhiṣṭhira śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha ye mārgam anurundhanti te vai nirayagāminaḥ upādhyāyāṃś ca bhṛtyāṃ ca bhaktāṃś ca bharatarṣabha ye tyajanty asamarthāṃs tāṃs te vai nirayagāminaḥ aprāptadamakāś caiva nāsānāṃ vedhakās tathā bandhakāś ca paśūnāṃ ye te vai nirayagāminaḥ agoptāraś chala dravyā baliṣaḍ bhāgatatparāḥ samarthāś cāpy adātāras te vai nirayagāminaḥ kṣāntān dāntāṃs tathā prājñān dīrghakālaṃ sahoṣitān tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ adattvā bhakṣayanty agre te vai nirayagāminaḥ ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha sarveṣv eva tu kāryeṣu daivapūrveṣu bhārata hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ dānena tapasā caiva satyena ca yudhiṣṭhira ye dharmam anuvartante te narāḥ svargagāminaḥ śuśrūṣābhis tapobhiś ca śrutam ādāya bhārata ye pratigraha niḥsnehās te narāḥ svargagāminaḥ bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt yatkṛte pratimucyante te narāḥ svargagāminaḥ kṣamāvantaś ca dhīrāś ca dharmakāryeṣu cotthitāḥ maṅgalācāra yuktāś ca te narāḥ svargagāminaḥ nivṛttā madhu māṃsebhyaḥ paradārebhya eva ca nivṛttāś caiva madyebhas te narāḥ svargagāminaḥ āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ vastrābharaṇa dātāro bhakṣa pānānnadās tathā kuṭumbānāṃ ca dātāras te narāḥ svargagāminaḥ sarvahiṃsā nivṛttāś ca narāḥ sarvasahāś ca ye sarvasyāśraya bhūtāś ca te narāḥ svargagāminaḥ mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ bhrātṝṇāṃ caiva sa snehās te narāḥ svargagāminaḥ āḍhyāś ca balavantaś ca yauvanasthāś ca bhārata ye vai jitendriyā dhīrās te narāḥ svargagāminaḥ aparāddheṣu sa snehā mṛdavo mitravatsalāḥ ārādhana sukhāś cāpi te narāḥ svargagāminaḥ sahasrapariveṣṭāras tathaiva ca sahasradāḥ trātāraś ca sahasrāṇāṃ puruṣāḥ svargagāminaḥ suvarṇasya ca dātāro gavāṃ ca bharatarṣabha yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ vihārāvasathodyāna kūpārāma sabhā pradāḥ vaprāṇāṃ caiva kartāras te narāḥ svargagāminaḥ niveśanānāṃ kṣṛtrāṇāṃ vasatīnāṃ ca bhārata dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata dharmādharmau ca dānasya yathāpūrvarṣibhiḥ kṛtau |