|
[य] इदं देयम इदं देयम इतीयं शरुतिचॊदना बहु देयाश च राजानः किं सविद देयम अनुत्तमम [भ] अति दानानि सर्वाणि पृथिवी दानम उच्यते अचला हय अक्षया भूमिर दॊग्ध्री कामान अनुत्तमान दॊग्ध्री वासांसि रत्नानि पशून वरीहि यवांस तथा भूमिदः सर्वभूतेषु शाश्वतीर एधते समाः यावद भूमेर आयुर इह तावद भूमिद एधते न भूमिदानाद अस्तीह परं किं चिद युधिष्ठिर अप्य अल्पं परददुः पूर्वे पृथिव्या इति नः शरुतम भूमिम एते ददुः सर्वे ये भूमिं भुञ्जते जनाः सवकर्मैवॊपजीवन्ति नरा इह परत्र च भूमिर भूतिर महादेवी दातारं कुरुते परियम य एतां दक्षिणां दद्याद अक्षयां पृथिवीपतिः पुनर नरत्वं संप्राप्य भवेत स पृथिवीपतिः यथा दानं तथा भॊग इति धर्मेषु निश्चयः संग्रामे वा तनुं जह्याद दद्याद वा पृथिवीम इमाम इत्य एतां कषत्रबन्धूनां वदन्ति परम आशिषम पुनाति दत्ता पृथिवी दातारम इति शुश्रुम अपि पापसमाचारं बरह्मघ्नम अपि वानृतम सैव पापं पावयति सैव पापात परमॊचयेत अपि पापकृतां राज्ञां परतिगृह्णन्ति साधवः पृथिवीं नान्यद इच्छन्ति पावनं जननी यथा नामास्याः परिय दत्तेति गुह्यं देव्याः सनातनम दानं वाप्य अथ वा जञानं नाम्नॊ ऽसयाः परमं परियम तस्पात पराप्यैव पृथिवीं दद्याद विप्राय पार्थिवः नाभूमि पतिना भूमिर अधिष्ठेया कथं चन न वा पात्रेण वा गूहेद अन्तर्धानेन वा चरेत ये चान्ये भूमिम इच्छेयुः कुर्युर एवम असंशयम यः साधॊर भूमिम आदत्ते न भूमिं विन्दते तु सः भूमिं तु दत्त्वा साधुभ्यॊ विन्दते भूमिम एव हि परेत्येह च स धर्मात्मा संप्राप्नॊति महद यशः यस्य विप्रानुशासन्ति साधॊर भूमिं सदैव हि न तस्य शत्रवॊ राजन परशासन्ति वसुंधराम यत किं चित पुरुषः पापं कुरुते वृत्ति कर्शितः अपि गॊचर्म मात्रेण भूमिदानेन पूयते ये ऽपि संकीर्ण कर्माणॊ राजानॊ रौद्रकर्मिणः तेभ्यः पवित्रम आख्येयं भूमिदानम अनुत्तमम अल्पान्तरम इदं शश्वत पुराणा मेनिरे जनाः यॊ यजेद अश्वमेधेन दद्याद वा साधवे महीम अपि चेत सुकृतं कृत्वा शङ्केरन्न अपि पण्डिताः अशक्यम एकम एवैतद भीमि दानम अनुत्तमम सुवर्णं रजतं वस्त्रं मणिमुक्ता वसूनि च सर्वम एतन महाप्राज्ञ ददाति वसुधां ददत तपॊयज्ञः शरुतं शीलम अलॊभः सत्यसंधता गुरु दैवतपूजा च नातिवर्तन्ति भूमिदम भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः बरह्मलॊकगताः सिद्धा नातिक्रामन्ति भूमिदम यथा जनित्री कषीरेण सवपुत्रं भरते सदा अनुगृह्णाति दातारं तथा सर्वरसैर मही मृत्यॊर वै किंकरॊ दण्डस तापॊ वह्नेः सुदारुणः घॊराश च वारुणाः पाशा नॊपसर्पन्ति भूमिदम पितॄंश च पितृलॊकस्थान देवलॊके च देवताः संतर्पयति शान्तात्मा यॊ ददाति वसुंधराम कृशाय मिर्यमाणाय वृत्ति मलानाय सीदते भूमिं वृत्ति करीं दत्त्वा सत्री भवति मानवः यथा धावति गौर वत्सं कषीरम अभ्युत्सृजन्त्य उत एवम एव महाभाग भूमिर भवति भूमिदम हलकृष्टां महीं दत्त्वा स बीजां सफलाम अपि उदीर्णं वापि शरणं तथा भवति कामदः बराह्मणं वृत्तसंपन्नम आहिताग्निं शुचिव्रतम नरः परतिग्राह्य महीं न याति यमसादनम यथा चन्द्रमसॊ वृद्धिर अहन्य अहनि जायते तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते अत्र गाथा भूमिगीताः कीर्तयन्ति पुरा विदः याः शरुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै माम एवादत्त मां दत्तमां दत्त्वा माम अवाप्स्यथ अस्मिँल लॊके परे चैव ततश चाजनने पुनः य इमां वयाहृतिं वेद बराह्मणॊ बरह्म संश्रितः शराद्धस्य हूयमानस्य बरह्मभूयं स गच्छति कृत्यानाम अभिशस्तानां दुरिष्ट शमनं महत परायश्चित्तम अहं कृत्वा पुनात्य उभयतॊ दश पुनाति य इदं वेद वेद चाहं तथैव च परकृतिः सर्वभूतानां भूमिर वै शाश्वती मता अभिषिच्यैव नृपतिं शरावयेद इमम आगमम यथा शरुत्वा महीं दद्यान नादद्यात साधुतश च ताम सॊ ऽयं कृत्स्नॊ बराह्मणार्थॊ राजार्थश चाप्य असंशयम राजा हि धर्मकुशलः परथमं भूतिलक्षणम अथ येषाम अधर्मज्ञॊ राजा भवति नास्तिकः न ते सुखं परबुध्यन्ते न सुखं परस्वपन्ति च सदा भवन्ति चॊद्विग्नास तस्य दुश्चरितैर नराः यॊगक्षेमा हि बहवॊ राष्ट्रं नास्याविशन्ति तत अथ येषां पुनः पराज्ञॊ राजा भवति धार्मिकः सुखं ते परतिबुध्यन्ते सुसुखं परस्वपन्ति च तस्य राज्ञः शुभैर आर्यैः कर्मभिर निर्वृताः परजाः यॊगक्षेमेण वृष्ट्या च विवर्धन्ते सवकर्मभिः स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत स दाता स च विक्रान्तॊ यॊ ददाति वसुंधराम आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ददन्ति वसुधां सफीतां ये वेदविदुषि दविजे यथा बीजानि रॊहन्ति परकीर्णानि महीतले तथा कामाः पररॊहन्ति भूमिदानसमार्जिताः आदित्यॊ वरुणॊ विष्णुर बरह्मा सॊमॊ हुताशनः शूलपाणिश च भगवान परतिनन्दन्ति भूमिदम भूमौ जायन्ति पुरुषा भूमौ निष्ठां वरजन्ति च चतुर्विधॊ हि लॊकॊ ऽयं यॊ ऽयं भूमिगुणात्मकः एषा माता पिता चैव जगतः पृथिवीपते नानया सदृशं भूतं किं चिद अस्ति जनाधिप अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर इष्ट्वा करतुशतेनाथ महता दक्षिणावता मघवा वाग विदां शरेष्ठं पप्रच्छेदं बृहस्पतिम भगवन केन दानेन सवर्गतः सुखम एधते यद अक्षयं महार्घं च तद बरूहि वदतां वर इत्य उक्तः स सुरेन्द्रेण ततॊ देवपुरॊहितः बृहस्पतिर महातेजाः परत्युवाच शतक्रतुम सुवर्णदानं गॊदानं भूमिदानं च वृत्रहन ददद एतान महाप्राज्ञः सर्वपापैः परमुच्यते न भूमिदानाद देवेन्द्र परं किं चिद इति परभॊ विशिष्टम इति मन्यामि यथा पराहुर मनीषिणः ये शूरा निहता युद्धे सवर्याता दानगृद्धिनः सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः बरह्मलॊकगताः शूरा नातिक्रामन्ति भूमिदम पञ्च पूर्वादि पुरुषाः षट च ये वसुधां गताः एकादश ददद भूमिं परित्रातीह मानवः रत्नॊपकीर्णां वसुधां यॊ ददाति पुरंदर स मुक्तः सर्वकलुषैः सवर्गलॊके महीयते महीं सफीतां ददद राजा सर्वकामगुणान्विताम राजाधिराजॊ भवति तद धि दानम अनुत्तमम सर्वकामसमायुक्तां काश्यपीं यः परयच्छति सर्वभूतानि मन्यन्ते मां ददातीति वासव सर्वकामदुघां धेनुं सर्वकामपुरॊगमाम ददाति यः सहस्राक्ष सस्वर्गं याति मानवः मधु सर्पिः परवाहिन्यः पयॊ दधि वहास तथा सरितस तर्पयन्तीह सुरेन्द्र वसुधा परदम भूमिप्रदानान नृपतिर मुच्यते राजकिल्बिषात न हि भूमिप्रदानेन दानम अन्यद विशिष्यते ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम तं जनाः कथयन्तीह यावद धरति गौर इयम पुण्याम ऋद्धरसां भूमिं यॊ ददाति पुरंदर न तस्य लॊकाः कषीयन्ते भूमिदानगुणार्जिताः सर्वथा पार्थिवेनेह सततं भूतिम इच्छता भूर देया विधिवच छक्र पात्रे सुखम अभीप्सता अपि कृत्वा नरः पापं भूमिं दत्त्वा दविजातये समुत्सृजति तत पापं जीर्णां तवचम इवॊरगः सागरान सरितः शैलान काननानि च सर्वशः सर्वम एतन नरः शक्र ददाति वसुधां ददत तडागान्य उदपानानि सरॊतांसिच सरांसि च सनेहान सर्वरसांश चैव ददाति वसुधां ददत ओषधीः कषीरसंपन्ना नगान पुष्पफलान्वितान काननॊपल शैलांश च ददाति वसुधां ददत अग्निष्टॊमप्रभृतिभिर इष्ट्वा च सवाप्तदक्षिणैः न तत फलम अवाप्नॊति भूमिदानाद यद अश्नुते दाता दशानुगृह्णाति दश हन्ति तथा कषिपन पूर्वदत्तां हरन भूमिं नरकायॊपगच्छति न ददाति परतिश्रुत्य दत्त्वा वा हरते तु यः स बद्धॊवारुणैः पाशैस तप्यते मृत्युशासनात आहिताग्निं सदा यज्ञं कृश भृत्यं परियातिथिम ये भरन्ति दविजश्रेष्ठं नॊपसर्पन्ति ते यमम बराह्मणेष्व ऋण भूतं सयात पार्थिवस्य पुरंदर इतरेषां तु वर्णानां तारयेत कृश दुर्बलान नाच्छिन्द्यात सर्शितां भूमिं परेण तरिदशादिप बराह्मणाय सुरश्रेष्ठ कृश भृत्याय कश चन अथाश्रु पतितं तेषां दीनानाम अवसीदताम बराह्मणानां हृते कषेत्रे हन्यात तरिपुरुषं कुलम भूमिपालं चयुतं राष्ट्राद यस तु संस्थापयेत पुनः तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते इक्षुभिः संततां भूमिं यवगॊधूमसंकुलाम गॊऽशववाहन संपूर्णां बाहुवीर्यसमार्जिताम निधिगर्भां ददद भूमिं सर्वरत्नपरिच्छदाम अक्षयाँल लभते लॊकान भूमिसत्रं हि तस्य तत विधूय कलुषं सर्वं विरजाः संमतः सताम लॊके महीयते सद्भिर यॊ ददाति वसुंधराम यथाप्सु पतितः शक्र तैलबिन्दुर विसर्पति तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ये रणाग्रे महीपालाः शूराः समितिशॊभनाः वध्यन्ते ऽभिमुखाः शक्र बरह्मलॊकं वरजन्ति ते नृत्यगीतपरा नार्यॊ दिव्यमाल्यविभूषिताः उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि मॊदते च सुखं सवर्गे देवगन्धर्वपूजितः यॊ ददाति महीं सम्यग विधिनेह दविजातये शतम अप्सरसश चैव दिव्यमाल्यविभूषिताः उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः भूमिप्रदानात पुष्पाणि हिरण्यनिचयास तथा आज्ञा सदा परतिहता जयशब्दॊ भवत्य अथ भूमिदानस्य पुष्पाणि फलं सवर्गः पुरंदर हिरण्यपुष्पाश चौषध्यः कुश काञ्चनशाड्वलाः अमृतप्रसवां भूमिं पराप्नॊति पुरुषॊ ददत नास्ति भूमिसमं दानं नास्ति मातृसमॊ गुरुः नास्ति सत्यसमॊ धर्मॊ नास्ति दानसमॊ निधिः एतद आङ्गिरसाच छरुत्वा वासवॊ वसुधाम इमाम वसु रत्नसमाकीर्णां ददाव आङ्गिरसे तदा य इमं शरावयेच छराद्धे भूमिदानस्य संस्तवम न तस्य रक्षसां भागॊ नासुराणां भवत्य उत अक्षयं च भवेद दत्तं पितृभ्यस तन न संशयः तस्माच छराद्धेष्व इदं विप्र भुञ्जतः शरावयेद दविजान इत्य एत सर्वदानानां शरेष्ठम उक्तं तवानघ मया भरतशार्दूल किं भूयः शरॊतुम इच्छसि |
[y] idaṃ deyam idaṃ deyam itīyaṃ śruticodanā bahu deyāś ca rājānaḥ kiṃ svid deyam anuttamam [bh] ati dānāni sarvāṇi pṛthivī dānam ucyate acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān dogdhrī vāsāṃsi ratnāni paśūn vrīhi yavāṃs tathā bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ yāvad bhūmer āyur iha tāvad bhūmida edhate na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ svakarmaivopajīvanti narā iha paratra ca bhūmir bhūtir mahādevī dātāraṃ kurute priyam ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ punar naratvaṃ saṃprāpya bhavet sa pṛthivīpatiḥ yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam punāti dattā pṛthivī dātāram iti śuśruma api pāpasamācāraṃ brahmaghnam api vānṛtam saiva pāpaṃ pāvayati saiva pāpāt pramocayet api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā nāmāsyāḥ priya datteti guhyaṃ devyāḥ sanātanam dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam taspāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ nābhūmi patinā bhūmir adhiṣṭheyā kathaṃ cana na vā pātreṇa vā gūhed antardhānena vā caret ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśaḥ yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi na tasya śatravo rājan praśāsanti vasuṃdharām yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛtti karśitaḥ api gocarma mātreṇa bhūmidānena pūyate ye 'pi saṃkīrṇa karmāṇo rājāno raudrakarmiṇaḥ tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam alpāntaram idaṃ śaśvat purāṇā menire janāḥ yo yajed aśvamedhena dadyād vā sādhave mahīm api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ aśakyam ekam evaitad bhīmi dānam anuttamam suvarṇaṃ rajataṃ vastraṃ maṇimuktā vasūni ca sarvam etan mahāprājña dadāti vasudhāṃ dadat tapoyajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā guru daivatapūjā ca nātivartanti bhūmidam bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ brahmalokagatāḥ siddhā nātikrāmanti bhūmidam yathā janitrī kṣīreṇa svaputraṃ bharate sadā anugṛhṇāti dātāraṃ tathā sarvarasair mahī mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ saṃtarpayati śāntātmā yo dadāti vasuṃdharām kṛśāya miryamāṇāya vṛtti mlānāya sīdate bhūmiṃ vṛtti karīṃ dattvā satrī bhavati mānavaḥ yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta evam eva mahābhāga bhūmir bhavati bhūmidam halakṛṣṭāṃ mahīṃ dattvā sa bījāṃ saphalām api udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam naraḥ pratigrāhya mahīṃ na yāti yamasādanam yathā candramaso vṛddhir ahany ahani jāyate tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate atra gāthā bhūmigītāḥ kīrtayanti purā vidaḥ yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai mām evādatta māṃ dattamāṃ dattvā mām avāpsyatha asmiṁl loke pare caiva tataś cājanane punaḥ ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahma saṃśritaḥ śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati kṛtyānām abhiśastānāṃ duriṣṭa śamanaṃ mahat prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa punāti ya idaṃ veda veda cāhaṃ tathaiva ca prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam atha yeṣām adharmajño rājā bhavati nāstikaḥ na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca sadā bhavanti codvignās tasya duścaritair narāḥ yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt sa dātā sa ca vikrānto yo dadāti vasuṃdharām ādityā iva dīpyante tejasā bhuvi mānavāḥ dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije yathā bījāni rohanti prakīrṇāni mahītale tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ śūlapāṇiś ca bhagavān pratinandanti bhūmidam bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ eṣā mātā pitā caiva jagataḥ pṛthivīpate nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa atrāpy udāharantīmam itihāsaṃ purātanam bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā maghavā vāg vidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim bhagavan kena dānena svargataḥ sukham edhate yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara ity uktaḥ sa surendreṇa tato devapurohitaḥ bṛhaspatir mahātejāḥ pratyuvāca śatakratum suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate na bhūmidānād devendra paraṃ kiṃ cid iti prabho viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ brahmalokagatāḥ śūrā nātikrāmanti bhūmidam pañca pūrvādi puruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām rājādhirājo bhavati tad dhi dānam anuttamam sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati sarvabhūtāni manyante māṃ dadātīti vāsava sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām dadāti yaḥ sahasrākṣa sasvargaṃ yāti mānavaḥ madhu sarpiḥ pravāhinyaḥ payo dadhi vahās tathā saritas tarpayantīha surendra vasudhā pradam bhūmipradānān nṛpatir mucyate rājakilbiṣāt na hi bhūmipradānena dānam anyad viśiṣyate dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām taṃ janāḥ kathayantīha yāvad dharati gaur iyam puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ sarvathā pārthiveneha satataṃ bhūtim icchatā bhūr deyā vidhivac chakra pātre sukham abhīpsatā api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ sarvam etan naraḥ śakra dadāti vasudhāṃ dadat taḍāgāny udapānāni srotāṃsica sarāṃsi ca snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān kānanopala śailāṃś ca dadāti vasudhāṃ dadat agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ na tat phalam avāpnoti bhūmidānād yad aśnute dātā daśānugṛhṇāti daśa hanti tathā kṣipan pūrvadattāṃ haran bhūmiṃ narakāyopagacchati na dadāti pratiśrutya dattvā vā harate tu yaḥ sa baddhovāruṇaiḥ pāśais tapyate mṛtyuśāsanāt āhitāgniṃ sadā yajñaṃ kṛśa bhṛtyaṃ priyātithim ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam brāhmaṇeṣv ṛṇa bhūtaṃ syāt pārthivasya puraṃdara itareṣāṃ tu varṇānāṃ tārayet kṛśa durbalān nācchindyāt sarśitāṃ bhūmiṃ pareṇa tridaśādipa brāhmaṇāya suraśreṣṭha kṛśa bhṛtyāya kaś cana athāśru patitaṃ teṣāṃ dīnānām avasīdatām brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām go'śvavāhana saṃpūrṇāṃ bāhuvīryasamārjitām nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām akṣayāṁl labhate lokān bhūmisatraṃ hi tasya tat vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām loke mahīyate sadbhir yo dadāti vasuṃdharām yathāpsu patitaḥ śakra tailabindur visarpati tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ upatiṣṭhanti devendra sadā bhūmipradaṃ divi modate ca sukhaṃ svarge devagandharvapūjitaḥ yo dadāti mahīṃ samyag vidhineha dvijātaye śatam apsarasaś caiva divyamālyavibhūṣitāḥ upatiṣṭhanti devendra sadā bhūmipradaṃ naram śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā ājñā sadā pratihatā jayaśabdo bhavaty atha bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara hiraṇyapuṣpāś cauṣadhyaḥ kuśa kāñcanaśāḍvalāḥ amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ nāsti satyasamo dharmo nāsti dānasamo nidhiḥ etad āṅgirasāc chrutvā vāsavo vasudhām imām vasu ratnasamākīrṇāṃ dadāv āṅgirase tadā ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ tasmāc chrāddheṣv idaṃ vipra bhuñjataḥ śrāvayed dvijān ity eta sarvadānānāṃ śreṣṭham uktaṃ tavānagha mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi |