|
[य] एकॊ लॊकः सुकृतिनां सर्वे तव आहॊ पितामह उत तत्रापि नानात्वं तन मे बरूहि पितामह [भ] कर्मभिः पार्थ नानात्वं लॊकानां यान्ति मानवाः पुण्यान पुण्यकृतॊ यान्ति पापान पापकृतॊ जनाः अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गौतमस्य मुनेस तात संवादं वासवस्य च बराह्मणॊ गौतमः कश चिन मृदुर दान्तॊ जितेन्द्रियः महावने हस्तिशिशुं परिद्यूनम अमातृकम तं दृष्ट्वा जीवयाम आस सानुक्रॊशॊ धृतव्रतः स तु दीर्घेण कालेन बभूवातिबलॊ महान तं परभिन्नं महानागं परस्रुतं सर्वतॊ मदम धृतराष्ट्रस्य रूपेण शक्रॊ जग्राह हस्तिनम हरियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः अभ्यभाषत राजानं धृतराष्ट्रं महातपाः मा मे हार्षीर हस्तिनं पुत्रम एनं; दुःखात पुष्टं धृतराष्ट्राकृतज्ञ मित्रं सतां सप्त पदं वदन्ति; मित्रद्रॊहॊ नैव राजन सपृशेत तवाम इध्मॊदक परदातारं शून्यपालकम आश्रमे विनीतम आचार्य कुले सुयुक्तं गुरु कर्मणि शिष्टं दान्तं कृतज्ञं च परियं च सततं मम न मे विक्रॊशतॊ राजन हर्तुम अर्हसि कुञ्जरम [धृ] गवां सहस्रं भवते ददामि; दासी शतं निष्कशतानि पञ्च अन्यच च वित्तं विविधं महर्षे; किं बराह्मणस्येह गजेन कृत्यम [ग] तवाम एव गावॊ ऽभि भवन्तु राजन; दास्यः स निष्का विविधं च रत्नम अन्यच च वित्तं विविधं नरेन्द्र; किं बराह्मणस्येह धनेन कृत्यम [धृ] बराह्मणानां हस्तिभिर नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र सवं वाहनं नयतॊ नास्त्य अधर्मॊ; नागश्रेष्ठाद गौतमास्मान निवर्त [ग] यत्र परेतॊ नन्दति पुण्यकर्मा; यत्र परेतः शॊचति पापकर्मा वैवस्वतस्य सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] ये निष्क्रिया नास्तिकाः शरद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः यमस्य ते यातनां पराप्नुवन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] वैवस्वती संयमनी जनानां; यत्रानृतं नॊच्यते यत्र सत्यम यत्राबला बलिनं यातयन्ति; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] जयेष्ठां सवसारं पितरं मातरं च; गुरुं यथा मानयन्तश चरन्ति तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] मन्दाकिनी वैश्रवणस्य राज्ञॊ; महाभॊगा भॊगि जनप्रवेश्या गन्धर्वयक्षैर अप्सरॊभिश च जुष्टा; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] अतिथिव्रताः सुव्रता ये जना वै; परतिश्रयं ददति बराह्मणेभ्यः शिष्टाशिनः संविभज्याश्रितांश च; मन्दाकिनीं ते ऽपि विभूषयन्ति [ग] मेरॊर उग्रे यद वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम सुदर्शना यत्र जम्बूर विशाला; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] ये बराह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः ये ऽधीयन्ते सेतिहासं पुराणं; मध्व आहुत्या जुह्वति च दविजेभ्यः तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र यद विद्यते विदितं सथानम अस्ति; तद बरूहि तवं तवरितॊ हय एष यामि [ग] सुपुष्पितं किंनरराजजुष्टं; परियं वनं नन्दनं नारदस्य गन्धर्वाणाम अप्सरसां च सद्म; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] ये नृत्तगीतकुशला जनाः सदा; हय अयाचमानाः सहिताश चरन्ति तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] यत्रॊत्तराः कुरवॊ भान्ति रम्या; देवैः सार्धं मॊदमाना नरेन्द्र यत्राग्नियौनाश च वसन्ति विप्रा; हय अयॊनयः पर्वत यॊनयश च यत्र शक्रॊ वर्षति सर्वकामान; यत्र सत्रियः कामचाराश चचरन्ति यत्र चेर्ष्या नास्ति नारी नराणां; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] ये सर्वभूतेषु निवृत्तकामा; अमांसादा नयस्तदण्डाश चरन्ति न हिंषन्ति सथावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः निराशिषॊ निर्ममॊ वीतरागा; लाभालाभे तुल्यनिन्दा परशंसाः तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशॊकाः सॊमस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] ये दानशीला न परतिगृह्णते सदा; न चाप्य अर्थान आददते परेभ्यः येषाम अदेयम अर्हते नास्ति किं चित; सर्वातिथ्याः सुप्रसादा जनाश च ये कषन्तारॊ नाभिजल्पन्ति चान्याञ; शक्ता भूत्वा सततं पुण्यशीलाः तथाविधानाम एष लॊकॊ महर्षे; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] ततः परं भान्ति लॊकाः सनातना; विरजसॊ वितमस्का विशॊकाः आदित्यस्य सुमहान्तः सुवृत्तास; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] सवाध्यायशीला गुरुशुश्रूषणे रतास; तपस्विनः सुव्रताः सत्यसंधाः आचार्याणाम अप्रतिकूल भाषिणॊ; नित्यॊत्थिता गुरु कर्म सवचॊद्याः तथाविधानाम एष लॊकॊ महर्षे; विशुद्धानां भावितवान्मतीनाम सत्ये सथितानां वेद विदां महात्मनां; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] ततः परे भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा विशॊकाः वरुणस्य राज्ञः सदने महात्मनस; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] चातुर्मास्यैर ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं पराप्नुवन्ति ये चाग्निहॊत्रं जुह्वति शरद्दधाना; यथान्यायं तरीणि वर्षाणि विप्राः सवदारिणां धर्मधुरे महात्मनां; यथॊचिते वर्त्मनि सुस्थितानाम धर्मात्मनाम उद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] इन्द्रस्य लॊका विरजा विशॊका; दुरन्वयाः काङ्क्षिता मानवानाम तस्याहं ते भवने भूरि तेजसॊ; राजन्न इमं हस्तिनं यातयिष्ये शतवर्ष जीवी यश च शूरॊ मनुष्यॊ; वेद धयायी यश च यज्वाप्रमत्तः एते सर्वे शक्र लॊकं वरजन्ति; परं गन्ता धृतराष्ट्रॊ न तत्र [ग] पराजापत्याः सन्ति लॊका महान्तॊ; नाकस्य पृष्ठे पुष्लका वीतशॊकाः मनीषिताः सर्वलॊकॊद्भवानां; तत्र तवाहं हस्तिनं यातयिष्ये [धृ] ये राजानॊ राजसूयाभिषिक्ता; धर्मात्मानॊ रक्षितारः परजानाम ये चाश्वमेधावभृथाप्लुताङ्गास; तेषां लॊका धृतराष्ट्रॊ न तत्र [ग] ततः परं भान्ति लॊकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशॊकाः तस्मिन्न अहं दुर्लभे तवाप्रधृष्ये; गवां लॊके हस्तिनं यातयिष्ये [धृ] यॊ गॊसहस्री शतदः समां समां; यॊ गॊशती दश दद्याच च शक्त्याः तथा दशभ्यॊ यश च दद्याद इहैकां; पञ्चभ्यॊ वा दानशीलस तथैकम ये जीर्यन्ते बरह्मचर्येण विप्रा; बराह्मीं वाचं परिरक्षन्ति चैव मनस्विनस तीर्थयात्रा परायणास; ते तत्र मॊदन्ति गवां विमाने परभासं मानसं पुण्यं पुष्कराणि महत सरः पुण्यं च नैमिषं तीर्थं बाहुदां करतॊयिनीम गवां गय शिरश चैव विपाशां सथूलवालुकाम तूष्णीं गङ्गां दश गङ्गां महाह्रदम अथापि च गौतमीं कौशिकीं पाकां महात्मानॊ धृतव्रताः सरस्वती दृषद्वत्यौ यमुनां ये परयान्ति च तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः परयान्ति पुण्यगन्धाढ्या धृतराष्ट्रॊ न तत्र वै [ग] यत्र शीतभयं नास्ति न चॊष्ण भयम अण्व अपि न कषुत्पिपासे न गलानिर न दुःखं न सुखं तथा न दवेष्यॊ न परियः कश चिन न बन्धुर न रिपुस तथा न जरामरणे वापि न पुण्यं न च पातकम तस्मिन विरजसि सफीते परज्ञा सत्त्वव्यवस्थिते सवयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति [धृ] निर्मुक्ताः सर्वसङ्गेभ्यॊ कृतात्मानॊ यतव्रताः अध्यात्मयॊगसंस्थाने युक्ताः सवर्गगतिं गताः ते बरह्मभवनं पुण्यं पराप्नुवन्तीह सात्त्विकाः न तत्र धृतराष्ट्रस ते शक्यॊ दरष्टुं महामुने [ग] रथन्तरं यत्र बृहच च गीयते; यत्र वेदी पुण्डरीकैः सतृणॊति यत्रॊपयाति हरिभिः सॊमपीथी; तत्र तवाहं हस्तिनं यातयिष्ये बुध्यामि तवां वृत्रहणं शतक्रतुं; वयतिक्रमन्तं भुवनानि विश्वा कच चिन न वाचा वृजिनं कदा चिद; अकार्षं ते मनसॊ ऽभिषङ्गात [षक्र] यस्माद इमं लॊकपथं परजानाम; अन्वागमं पदवादे गजस्य तस्माद भवान परणतं मानुशास्तु; बरवीषि यत तत करवाणि सर्वम [ग] शवेतं करेणुं मम पुत्र नागं; यं मे ऽहार्षीर दशवर्षाणि बालम यॊ मे वने वसतॊ ऽभूद दवितीयस; तम एव मे देहि सुरेन्द्र नागम [षक्र] अयं सुतस ते दविजमुख्यनागश; चाघ्रायते तवाम अभिवीक्षमाणः पादौ च ते नासिकयॊपजिघ्रते; शरेयॊ मम धयाहि नमश च ते ऽसतु [ग] शिवं सदैवेह सुरेन्द्र तुभ्यं; धयायामि पूजां च सदा परयुञ्जे ममापि तवं शक्र शिवं ददस्व; तवया दत्तं परतिगृह्णामि नागम [षक्र] येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम तेषां तवयैकेन महात्मनास्मि; बुद्धस तस्मात परीतिमांस ते ऽहम अद्य हन्तैहि बराह्मण कषिप्रं सह पुत्रेण हस्तिना पराप्नुहि तवं शुभाँल लॊकान अह्नाय च चिराय च [भ] स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना दिवम आचक्रमे वज्री सद्भिः सह दुरासदम |
[y] eko lokaḥ sukṛtināṃ sarve tv āho pitāmaha uta tatrāpi nānātvaṃ tan me brūhi pitāmaha [bh] karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ atrāpy udāharantīmam itihāsaṃ purātanam gautamasya munes tāta saṃvādaṃ vāsavasya ca brāhmaṇo gautamaḥ kaś cin mṛdur dānto jitendriyaḥ mahāvane hastiśiśuṃ paridyūnam amātṛkam taṃ dṛṣṭvā jīvayām āsa sānukrośo dhṛtavrataḥ sa tu dīrgheṇa kālena babhūvātibalo mahān taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ mā me hārṣīr hastinaṃ putram enaṃ; duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña mitraṃ satāṃ sapta padaṃ vadanti; mitradroho naiva rājan spṛśet tvām idhmodaka pradātāraṃ śūnyapālakam āśrame vinītam ācārya kule suyuktaṃ guru karmaṇi śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama na me vikrośato rājan hartum arhasi kuñjaram [dhṛ] gavāṃ sahasraṃ bhavate dadāmi; dāsī śataṃ niṣkaśatāni pañca anyac ca vittaṃ vividhaṃ maharṣe; kiṃ brāhmaṇasyeha gajena kṛtyam [g] tvām eva gāvo 'bhi bhavantu rājan; dāsyaḥ sa niṣkā vividhaṃ ca ratnam anyac ca vittaṃ vividhaṃ narendra; kiṃ brāhmaṇasyeha dhanena kṛtyam [dhṛ] brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ; rājanyānāṃ nāgakulāni vipra svaṃ vāhanaṃ nayato nāsty adharmo; nāgaśreṣṭhād gautamāsmān nivarta [g] yatra preto nandati puṇyakarmā; yatra pretaḥ śocati pāpakarmā vaivasvatasya sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] ye niṣkriyā nāstikāḥ śraddadhānāḥ; pāpātmāna indriyārthe niviṣṭāḥ yamasya te yātanāṃ prāpnuvanti; paraṃ gantā dhṛtarāṣṭro na tatra [g] vaivasvatī saṃyamanī janānāṃ; yatrānṛtaṃ nocyate yatra satyam yatrābalā balinaṃ yātayanti; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca; guruṃ yathā mānayantaś caranti tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra [g] mandākinī vaiśravaṇasya rājño; mahābhogā bhogi janapraveśyā gandharvayakṣair apsarobhiś ca juṣṭā; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] atithivratāḥ suvratā ye janā vai; pratiśrayaṃ dadati brāhmaṇebhyaḥ śiṣṭāśinaḥ saṃvibhajyāśritāṃś ca; mandākinīṃ te 'pi vibhūṣayanti [g] meror ugre yad vanaṃ bhāti ramyaṃ; supuṣpitaṃ kiṃnaragītajuṣṭam sudarśanā yatra jambūr viśālā; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] ye brāhmaṇā mṛdavaḥ satyaśīlā; bahuśrutāḥ sarvabhūtābhirāmāḥ ye 'dhīyante setihāsaṃ purāṇaṃ; madhv āhutyā juhvati ca dvijebhyaḥ tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra yad vidyate viditaṃ sthānam asti; tad brūhi tvaṃ tvarito hy eṣa yāmi [g] supuṣpitaṃ kiṃnararājajuṣṭaṃ; priyaṃ vanaṃ nandanaṃ nāradasya gandharvāṇām apsarasāṃ ca sadma; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] ye nṛttagītakuśalā janāḥ sadā; hy ayācamānāḥ sahitāś caranti tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra [g] yatrottarāḥ kuravo bhānti ramyā; devaiḥ sārdhaṃ modamānā narendra yatrāgniyaunāś ca vasanti viprā; hy ayonayaḥ parvata yonayaś ca yatra śakro varṣati sarvakāmān; yatra striyaḥ kāmacārāś cacaranti yatra cerṣyā nāsti nārī narāṇāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] ye sarvabhūteṣu nivṛttakāmā; amāṃsādā nyastadaṇḍāś caranti na hiṃṣanti sthāvaraṃ jaṅgamaṃ ca; bhūtānāṃ ye sarvabhūtātmabhūtāḥ nirāśiṣo nirmamo vītarāgā; lābhālābhe tulyanindā praśaṃsāḥ tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra [g] tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā nirmalā vītaśokāḥ somasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] ye dānaśīlā na pratigṛhṇate sadā; na cāpy arthān ādadate parebhyaḥ yeṣām adeyam arhate nāsti kiṃ cit; sarvātithyāḥ suprasādā janāś ca ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ puṇyaśīlāḥ tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra [g] tataḥ paraṃ bhānti lokāḥ sanātanā; virajaso vitamaskā viśokāḥ ādityasya sumahāntaḥ suvṛttās; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] svādhyāyaśīlā guruśuśrūṣaṇe ratās; tapasvinaḥ suvratāḥ satyasaṃdhāḥ ācāryāṇām apratikūla bhāṣiṇo; nityotthitā guru karma svacodyāḥ tathāvidhānām eṣa loko maharṣe; viśuddhānāṃ bhāvitavānmatīnām satye sthitānāṃ veda vidāṃ mahātmanāṃ; paraṃ gantā dhṛtarāṣṭro na tatra [g] tataḥ pare bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā viśokāḥ varuṇasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] cāturmāsyair ye yajante janāḥ sadā; tatheṣṭīnāṃ daśaśataṃ prāpnuvanti ye cāgnihotraṃ juhvati śraddadhānā; yathānyāyaṃ trīṇi varṣāṇi viprāḥ svadāriṇāṃ dharmadhure mahātmanāṃ; yathocite vartmani susthitānām dharmātmanām udvahatāṃ gatiṃ tāṃ; paraṃ gantā dhṛtarāṣṭro na tatra [g] indrasya lokā virajā viśokā; duranvayāḥ kāṅkṣitā mānavānām tasyāhaṃ te bhavane bhūri tejaso; rājann imaṃ hastinaṃ yātayiṣye śatavarṣa jīvī yaś ca śūro manuṣyo; veda dhyāyī yaś ca yajvāpramattaḥ ete sarve śakra lokaṃ vrajanti; paraṃ gantā dhṛtarāṣṭro na tatra [g] prājāpatyāḥ santi lokā mahānto; nākasya pṛṣṭhe puṣlakā vītaśokāḥ manīṣitāḥ sarvalokodbhavānāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye [dhṛ] ye rājāno rājasūyābhiṣiktā; dharmātmāno rakṣitāraḥ prajānām ye cāśvamedhāvabhṛthāplutāṅgās; teṣāṃ lokā dhṛtarāṣṭro na tatra [g] tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā vītaśokāḥ tasminn ahaṃ durlabhe tvāpradhṛṣye; gavāṃ loke hastinaṃ yātayiṣye [dhṛ] yo gosahasrī śatadaḥ samāṃ samāṃ; yo gośatī daśa dadyāc ca śaktyāḥ tathā daśabhyo yaś ca dadyād ihaikāṃ; pañcabhyo vā dānaśīlas tathaikam ye jīryante brahmacaryeṇa viprā; brāhmīṃ vācaṃ parirakṣanti caiva manasvinas tīrthayātrā parāyaṇās; te tatra modanti gavāṃ vimāne prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm gavāṃ gaya śiraś caiva vipāśāṃ sthūlavālukām tūṣṇīṃ gaṅgāṃ daśa gaṅgāṃ mahāhradam athāpi ca gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ sarasvatī dṛṣadvatyau yamunāṃ ye prayānti ca tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai [g] yatra śītabhayaṃ nāsti na coṣṇa bhayam aṇv api na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā na dveṣyo na priyaḥ kaś cin na bandhur na ripus tathā na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam tasmin virajasi sphīte prajñā sattvavyavasthite svayambhubhavane puṇye hastinaṃ me yatiṣyati [dhṛ] nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ na tatra dhṛtarāṣṭras te śakyo draṣṭuṃ mahāmune [g] rathantaraṃ yatra bṛhac ca gīyate; yatra vedī puṇḍarīkaiḥ stṛṇoti yatropayāti haribhiḥ somapīthī; tatra tvāhaṃ hastinaṃ yātayiṣye budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ; vyatikramantaṃ bhuvanāni viśvā kac cin na vācā vṛjinaṃ kadā cid; akārṣaṃ te manaso 'bhiṣaṅgāt [ṣakra] yasmād imaṃ lokapathaṃ prajānām; anvāgamaṃ padavāde gajasya tasmād bhavān praṇataṃ mānuśāstu; bravīṣi yat tat karavāṇi sarvam [g] śvetaṃ kareṇuṃ mama putra nāgaṃ; yaṃ me 'hārṣīr daśavarṣāṇi bālam yo me vane vasato 'bhūd dvitīyas; tam eva me dehi surendra nāgam [ṣakra] ayaṃ sutas te dvijamukhyanāgaś; cāghrāyate tvām abhivīkṣamāṇaḥ pādau ca te nāsikayopajighrate; śreyo mama dhyāhi namaś ca te 'stu [g] śivaṃ sadaiveha surendra tubhyaṃ; dhyāyāmi pūjāṃ ca sadā prayuñje mamāpi tvaṃ śakra śivaṃ dadasva; tvayā dattaṃ pratigṛhṇāmi nāgam [ṣakra] yeṣāṃ vedā nihitā vai guhāyāṃ; manīṣiṇāṃ sattvavatāṃ mahātmanām teṣāṃ tvayaikena mahātmanāsmi; buddhas tasmāt prītimāṃs te 'ham adya hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā prāpnuhi tvaṃ śubhāṁl lokān ahnāya ca cirāya ca [bh] sa gautamaṃ puraskṛtya saha putreṇa hastinā divam ācakrame vajrī sadbhiḥ saha durāsadam |