|
[नकुल] हन्त वॊ वर्तयिष्यामि दानस्य परमं फलम नयायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद दविजाः धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर बहुभिर वृते उञ्छवृत्तिर दविजः कश चित कापॊतिर अभवत पुरा सभार्यः सह पुत्रेण स सनुषस तपसि सथितः वधू चतुर्थॊ वृद्धः स धर्मात्मा नियतेन्द्रियः षष्ठे काले तदा विप्रॊ भुङ्क्ते तैः सह सुव्रतः षष्ठे काले कदा चिच च तस्याहारॊ न विद्यते भुङ्क्ते ऽनयस्मिन कदा चित स षष्ठे काले दविजॊत्तमः कपॊत धर्मिणस तस्य दुर्भिक्षे सति दारुणे नाविद्यत तदा विप्राः संचयस तान निबॊधत कषीणौषधि समावायॊ दरव्यहीनॊ ऽभवत तदा काले काले ऽसय संप्राप्ते नैव विद्येत भॊजनम कषुधा परिगताः सर्वे परातिष्ठन्त तदा तु ते उञ्छंस तदा शुक्लपक्षे मध्यं तपति भास्करे उष्णार्तश च कषुधार्तश च स विप्रस तपसि सथितः उञ्छम अप्राप्तवान एव सार्धं परिजनेन ह स तथैव कषुधाविष्टः सपृष्ट्वा तॊयं यथाविधि कषपयाम आस तं कालं कृच्छ्रप्राणॊ दविजॊत्तमः अथ षष्ठे गते काले यवप्रस्थम उपार्जयत यवप्रस्थं च ते सक्तून अकुर्वन्त तपस्विनः कृतपज्याह्विकास ते तु हुत्वा वह्निं यथाविधि कुडवं कुडवं सर्वे वयभजन्त तपस्विनः अथागच्छद दविजः कश चिद अतिथिर भुञ्जतां तदा ते तं दृष्ट्वातिथिं तत्र परहृष्टमनसॊ ऽभवन ते ऽभिवाद्य सुखप्रश्नं पृष्ट्वा तम अतिथिं तदा विशुद्धमनसॊ दान्ताः शरद्धा दमसमन्विताः अनसूयवॊ गतक्रॊधाः साधवॊ गतमत्सराः तयक्तमाना जितक्रॊधा धर्मज्ञा दविजसत्तमाः स बरह्मचर्यं सवं गॊत्रं समाख्याय परस्परम कुटीं परवेशयाम आसुः कषुधार्तम अतिथिं तदा इदम अर्घ्यं च पाद्यं च बृसी चेयं तवानघ शुचयः सक्तवश चेमे नियमॊपार्जिताः परभॊ परतिगृह्णीष्व भद्रं ते सक्तूनां कुडवं दविजः भक्षयाम आस राजेन्द्र न च तुष्टिं जगाम सः स उञ्छवृत्तिस तं परेक्ष्य कषुधा परिगतं दविजम आहारं चिन्तयाम आस कथं तुष्टॊ भवेद इति तस्य भार्याब्रवीद राजन मद्भागॊ दीयताम इति गच्छत्व एष यथाकामं संतुष्टॊ दविजसत्तमः इति बरुवन्तीं तां साध्वीं धर्मात्मा स दविजर्षभः कषुधा परिगतां जञात्वा सक्तूंस तान नाभ्यनन्दत जानन वृद्धां कषुधार्तां च शरान्तां गलानां तपस्विनीम तवग अस्थि भूतां वेपन्तीं ततॊ भार्याम उवाच ताम अपि कीट पतंगानां मृगाणां चैव शॊभने सत्रियॊ रक्ष्याश च पॊष्याश च नैवं तवं वक्तुम अर्हसि अनुकम्पितॊ नरॊ नार्या पुष्टॊ रक्षितैव च परपतेद यशसॊ दीप्तान न च लॊकान अवाप्नुयात इत्य उक्ता सा ततः पराह धर्मार्थौ नौ समौ दविज सक्तु परस्थचतुर्भागं गृहाणेमं परसीद मे सत्यं रतिश च धर्मश च सवर्गश च गुणनिर्जितः सत्रीणां पतिसमाधीनं काङ्क्षितं च दविजॊत्तम ऋतुर मातुः पितुर बीजं दैवतं परमं पतिः भर्तुः परसादात सत्रीणां वै रतिः पुत्रफलं तथाम पालनाद धि पतिस तवं मे भर्तासि भरणान मम पुत्र परदानाद वरदस तस्मात सक्तून गृहाण मे जरा परिगतॊ वृद्धः कषुधार्थॊ दुर्बलॊ भृशम उपवासपरिश्रान्तॊ यदा तवम अपि कर्शितः इत्य उक्तः स तया सक्तून परगृह्येदं वचॊ ऽबरवीत दविज सक्तून इमान भूयः परतिगृह्णीष्व सत्तम स तान परगृह्य भुक्त्वा च न तुष्टिम अगमद दविजः तम उञ्छवृत्तिर आलक्ष्य ततश चिन्तापरॊ ऽभवत [पुत्र] सक्तून इमान परगृह्य तवं देहि विप्राय सत्तम इत्य एवं सुकृतं मन्ये तस्माद एतत करॊम्य अहम भवान हि परिपाल्यॊ मे सर्वयत्नैर दविजॊत्तम साधूनां काङ्क्षितं हय एतत पितुर वृद्धस्य पॊषणम पुत्रार्थॊ विहितॊ हय एष सथाविर्ये परिपालनम शरुतिर एषा हि विप्रर्षे तरिषु लॊकेषु विश्रुता पराणधारण मात्रेण शक्यं कर्तुं तपस तवया पराणॊ हि परमॊ धर्मः सथितॊ देहेषु देहिनाम [पिता] अपि वर्षसहस्री तवं बाल एव मतॊ मम उत्पाद्य पुत्रं हि पिता कृतकृत्यॊ भवत्य उत बालानां कषुद बलवती जानाम्य एतद अहं विभॊ वृद्धॊ ऽहं धारयिष्यामि तवं बली भव पुत्रक जीर्णेन वयसा पुत्र न मा कषुद बाधते ऽपि च दीर्घकालं तपस तप्तं न मे मरणतॊ भयम [पुत्र] अपत्यम अस्मि ते पुत्रस तराणात पुत्रॊ हि विश्रुतः आत्मा पुत्रः समृतस तस्मात तराह्य आत्मानम इहात्मना [पिता] रूपेण सदृशस तवं मे शीलेन च दमेन च परीक्षितश च बहुधा सक्तून आदद्मि ते ततः इत्य उक्त्वादाय तान सक्तून परीतात्मा दविजसत्तमः परहसन्न इव विप्राय स तस्मै परददौ तदा भुक्त्वा तान अपि सक्तून स नैव तुष्टॊ बभूव ह उञ्छवृत्तिस तु सव्रीडॊ बभूव दविजसत्तमः तं वै वधूः सथिता साध्वी बराह्मण परियकाम्यया सक्तून आदाय संहृष्टा गुरुं तं वाक्यम अब्रवीत संतानात तव संतानं मम विप्र भविष्यति सक्तून इमान अतिथये गृहीत्वा तवं परयच्छ मे तव परसव निर्वृत्या मम लॊकाः किलाक्षयाः पौत्रेण तान अवाप्नॊति यत्र गत्वा न शॊचति धर्माद्या हि यथा तरेता वह्नि तरेता तथैव च तथैव पुत्रपौत्राणां सवर्गे तरेता किलाक्षया पितॄंस तराणात तारयति पुत्र इत्य अनुशुश्रुम पुत्रपौत्रैश च नियतं साधु लॊकान उपाश्नुते [षवषुर] वातातपविशीर्णाङ्गीं तवां विवर्णां निरीक्ष्य वै कर्शितां सुव्रताचारे कषुधा विह्वलचेतसम कथं सक्तून गरहीष्यामि भूत्वा धर्मॊपघातकः कल्याण वृत्ते कल्याणि नैवं तवं वक्तुम अर्हसि षष्ठे काले वरतवतीं शीलशौचसमन्विताम कृच्छ्रवृत्तिं निराहारां दरक्ष्यामि तवां कथं नव अहम बाला कषुधार्ता नारी च रक्ष्या तवं सततं मया उपवासपरिश्रान्ता तवं हि बान्धवनन्दिनी [सनुसा] गुरॊर मम गुरुस तवं वै यतॊ दैवतदैवतम देवातिदेवस तस्मात तवं सक्तून आदत्स्व मे विभॊ देहः पराणश च धर्मश च शुश्रूषार्थम इदं गुरॊः तव विप्र परसादेन लॊकान पराप्स्याम्य अभीप्सितान अवेक्ष्या इति कृत्वा तवं दृढभक्त्येति वा दविज चिन्त्या ममेयम इति वा सक्तून आदातुम अर्हसि [षवषुर] अनेन नित्यं साध्वी तवं शीलवृत्तेन शॊभसे या तवं धर्मव्रतॊपेता गुरुवृत्तिम अवेक्षसे तस्मात सक्तून गरहीष्यामि वधूर नार्हसि वञ्चनाम गणयित्वा महाभागे तवं हि धर्मभृतां वरा इत्य उक्त्वा तान उपादाय सक्तून परादाद दविजातये ततस तुष्टॊ ऽभवद विप्रस तस्य साधॊर महात्मनः परीतात्मा स तु तं वाक्यम इदम आह दविजर्षभम वाग्मी तदा दविजश्रेष्ठॊ धर्मः पुरुषविग्रहः शुद्धेन तव दानेन नयायॊपात्तेन यत्नतः यथाशक्ति विमुक्तेन परीतॊ ऽसमि दविजसत्तम अहॊ दानं घुष्यते ते सवर्गे सवर्गनिवासिभिः गगनात पुष्पवर्षं च पश्यस्व पतितं भुवि सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः सतुवन्तॊ देवदूताश च सथिता दानेन विस्मिताः बरह्मर्षयॊ विमानस्था बरह्मलॊकगताश च ये काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ दविजर्षभ पितृलॊकगताः सर्वे तारिताः पितरस तवया अनागताश च बहवः सुबहूनि युगानि च बरह्मचर्येण यज्ञेन दानेन तपसा तथा अगह्वरेण धर्मेण तस्माद गच्छ दिवं दविज शरद्धया परया यस तवं तपश चरसि सुव्रत तस्माद देवास तवानेन परीता दविज वरॊत्तम सर्वस्वम एतद यस्मात ते तयक्तं शुद्धेन चेतसा कृच्छ्रकाले ततः सवर्गॊ जितॊ ऽयं तव कर्मणा कषुधा निर्णुदति परज्ञां धर्म्यं बुद्धिं वयपॊहति कषुधा परिगत जञानॊ धृतिं तयजति चैव ह बुभुक्षां जयते यस तु सस्वर्गं जयते धरुवम यदा दानरुचिर भवति तदा धर्मॊ न सीदति अनवेक्ष्य सुतस्नेहं कलत्रस्नेहम एव च धर्मम एव गुरुं जञात्वा तृष्णा न गणिता तवया दरव्यागमॊ नृणां सूक्ष्मः पात्रे दानं ततः परम कालः परतरॊ दानाच छरद्धा चापि ततः परा सवर्गद्वारं सुसूक्ष्मं हि नरैर मॊहान न दृश्यते सवर्गार्गलं लॊभबीजं रागगुप्तं दुरासदम तत तु पश्यन्ति पुरुषा जितक्रॊधा जितेन्द्रियाः बराह्मणास तपसा युक्ता यथाशक्ति परदायिनः सहस्रशक्तिश च शतं शतशक्तिर दशापि च दद्याद अपश च यः शक्त्या सर्वे तुल्यफलाः समृताः रन्ति देवा हि नृपतिर अपः परादाद अकिंचनः शुद्धेन मनसा विप्र नाकपृष्ठं ततॊ गतः न धर्मः परीयते तात दानैर दत्तैर महाफलैः नयायलब्धैर यथा सूक्ष्मैः शरद्धा पूतैः स तुष्यति गॊप्रदान सहस्राणि दविजेभ्यॊ ऽदान नृगॊ नृपः एकां दत्त्वा स पारक्यां नरकं समवाप्तवान आत्ममांस परदानेन शिबिर औशीनरॊ नृपः पराप्य पुण्यकृताँल लॊकान मॊदते दिवि सुव्रतः विभवे न नृणां पुण्यं सवशक्त्या सवर जितं सताम न यज्ञैर विविधैर विप्र यथान्यायेन संचितैः करॊधॊ दानफलं हन्ति लॊभात सवर्गं न गच्छति नयायवृत्तिर हि तपसा दानवित सवर्गम अश्नुते न राजसूर्यैर बहुभिर इष्ट्वा विपुलदक्षिणैः न चाश्वमेधैर बहुभिः फलं समम इदं तवम सक्तु परस्थेन हि जितॊ बरह्मलॊकस तवयानघ विरजॊ बरह्मभवनं गच्छ विप्र यथेच्छकम सर्वेषां वॊ दविजश्रेष्ठ दिव्यं यानम उपस्थितम आरॊहत यथाकामं धर्मॊ ऽसमि दविज पश्य माम पावितॊ हि तवया देहॊ लॊके कीर्तिः सथिरा च ते सभार्यः सह पुत्रश च स सनुषश च दिवं वरज इत्य उक्तवाक्यॊ धर्मेण यानम आरुह्य स दविजः सभार्यः स सुतश चापि स सनुषश च दिवं ययौ तस्मिन विप्रे गते सवर्गं स सुते स सनुषे तदा भार्या चतुर्थे धर्मज्ञे ततॊ ऽहं निःसृतॊ बिलात ततस तु सक्तु गन्धेन कलेदेन सलिलस्य च दिव्यपुष्पावमर्दाच च साधॊर दानलबैश च तैः विप्रस्य तपसा तस्य शिरॊमे काञ्चनी कृतम तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम पश्यतेदं सुविपुलं तपसा तस्य धीमतः कथम एवंविधं मे सयाद अन्यत पार्श्वम इति दविजाः तपॊवनानि यज्ञांश च हृष्टॊ ऽभयेमि पुनः पुनः यज्ञं तव अहम इमं शरुत्वा कुरुराजस्य धीमतः आशया परया पराप्तॊ न चाहं काञ्चनी कृतः ततॊ मयॊक्तं तद वाक्यं परहस्य दविजसत्तमाः सक्तु परस्थेन यज्ञॊ ऽयं संमितॊ नेति सर्वथा सक्तु परस्थलवैस तैर हि तदाहं काञ्चनी कृतः न हि यज्ञॊ महान एष सदृशस तैर मतॊ मम [व] इत्य उक्त्वा नकुलः सर्वान यज्ञे दविज वरांस तदा जगामादर्शनं राजन विप्रास ते च ययुर गृहान एतत ते सर्वम आख्यातं मया परपुरंजय यद आश्चर्यम अभूत तस्मिन वाजिमेधे महाक्रतौ न विस्मयस ते नृपते यज्ञे कार्यः कथं चन ऋषिकॊटॊ सहस्राणि तपॊभिर ये दिवं गताः अद्रॊहः सर्वभूतेषु संतॊषः शीलम आर्जवम तपॊ दमश च सत्यं च दानं चेति समं मतम |
[nakula] hanta vo vartayiṣyāmi dānasya paramaṃ phalam nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte uñchavṛttir dvijaḥ kaś cit kāpotir abhavat purā sabhāryaḥ saha putreṇa sa snuṣas tapasi sthitaḥ vadhū caturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ ṣaṣṭhe kāle kadā cic ca tasyāhāro na vidyate bhuṅkte 'nyasmin kadā cit sa ṣaṣṭhe kāle dvijottamaḥ kapota dharmiṇas tasya durbhikṣe sati dāruṇe nāvidyata tadā viprāḥ saṃcayas tān nibodhata kṣīṇauṣadhi samāvāyo dravyahīno 'bhavat tadā kāle kāle 'sya saṃprāpte naiva vidyeta bhojanam kṣudhā parigatāḥ sarve prātiṣṭhanta tadā tu te uñchaṃs tadā śuklapakṣe madhyaṃ tapati bhāskare uṣṇārtaś ca kṣudhārtaś ca sa vipras tapasi sthitaḥ uñcham aprāptavān eva sārdhaṃ parijanena ha sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi kṣapayām āsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ atha ṣaṣṭhe gate kāle yavaprastham upārjayat yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ kṛtapajyāhvikās te tu hutvā vahniṃ yathāvidhi kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ athāgacchad dvijaḥ kaś cid atithir bhuñjatāṃ tadā te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā viśuddhamanaso dāntāḥ śraddhā damasamanvitāḥ anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ sa brahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam kuṭīṃ praveśayām āsuḥ kṣudhārtam atithiṃ tadā idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha śucayaḥ saktavaś ceme niyamopārjitāḥ prabho pratigṛhṇīṣva bhadraṃ te saktūnāṃ kuḍavaṃ dvijaḥ bhakṣayām āsa rājendra na ca tuṣṭiṃ jagāma saḥ sa uñchavṛttis taṃ prekṣya kṣudhā parigataṃ dvijam āhāraṃ cintayām āsa kathaṃ tuṣṭo bhaved iti tasya bhāryābravīd rājan madbhāgo dīyatām iti gacchatv eṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ kṣudhā parigatāṃ jñātvā saktūṃs tān nābhyanandata jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm tvag asthi bhūtāṃ vepantīṃ tato bhāryām uvāca tām api kīṭa pataṃgānāṃ mṛgāṇāṃ caiva śobhane striyo rakṣyāś ca poṣyāś ca naivaṃ tvaṃ vaktum arhasi anukampito naro nāryā puṣṭo rakṣitaiva ca prapated yaśaso dīptān na ca lokān avāpnuyāt ity uktā sā tataḥ prāha dharmārthau nau samau dvija saktu prasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me satyaṃ ratiś ca dharmaś ca svargaś ca guṇanirjitaḥ strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathām pālanād dhi patis tvaṃ me bhartāsi bharaṇān mama putra pradānād varadas tasmāt saktūn gṛhāṇa me jarā parigato vṛddhaḥ kṣudhārtho durbalo bhṛśam upavāsapariśrānto yadā tvam api karśitaḥ ity uktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ tam uñchavṛttir ālakṣya tataś cintāparo 'bhavat [putra] saktūn imān pragṛhya tvaṃ dehi viprāya sattama ity evaṃ sukṛtaṃ manye tasmād etat karomy aham bhavān hi paripālyo me sarvayatnair dvijottama sādhūnāṃ kāṅkṣitaṃ hy etat pitur vṛddhasya poṣaṇam putrārtho vihito hy eṣa sthāvirye paripālanam śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā prāṇadhāraṇa mātreṇa śakyaṃ kartuṃ tapas tvayā prāṇo hi paramo dharmaḥ sthito deheṣu dehinām [pitā] api varṣasahasrī tvaṃ bāla eva mato mama utpādya putraṃ hi pitā kṛtakṛtyo bhavaty uta bālānāṃ kṣud balavatī jānāmy etad ahaṃ vibho vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka jīrṇena vayasā putra na mā kṣud bādhate 'pi ca dīrghakālaṃ tapas taptaṃ na me maraṇato bhayam [putra] apatyam asmi te putras trāṇāt putro hi viśrutaḥ ātmā putraḥ smṛtas tasmāt trāhy ātmānam ihātmanā [pitā] rūpeṇa sadṛśas tvaṃ me śīlena ca damena ca parīkṣitaś ca bahudhā saktūn ādadmi te tataḥ ity uktvādāya tān saktūn prītātmā dvijasattamaḥ prahasann iva viprāya sa tasmai pradadau tadā bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha uñchavṛttis tu savrīḍo babhūva dvijasattamaḥ taṃ vai vadhūḥ sthitā sādhvī brāhmaṇa priyakāmyayā saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati saktūn imān atithaye gṛhītvā tvaṃ prayaccha me tava prasava nirvṛtyā mama lokāḥ kilākṣayāḥ pautreṇa tān avāpnoti yatra gatvā na śocati dharmādyā hi yathā tretā vahni tretā tathaiva ca tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā pitṝṃs trāṇāt tārayati putra ity anuśuśruma putrapautraiś ca niyataṃ sādhu lokān upāśnute [ṣvaṣura] vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai karśitāṃ suvratācāre kṣudhā vihvalacetasam kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ kalyāṇa vṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nv aham bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā upavāsapariśrāntā tvaṃ hi bāndhavanandinī [snusā] guror mama gurus tvaṃ vai yato daivatadaivatam devātidevas tasmāt tvaṃ saktūn ādatsva me vibho dehaḥ prāṇaś ca dharmaś ca śuśrūṣārtham idaṃ guroḥ tava vipra prasādena lokān prāpsyāmy abhīpsitān avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija cintyā mameyam iti vā saktūn ādātum arhasi [ṣvaṣura] anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase yā tvaṃ dharmavratopetā guruvṛttim avekṣase tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā ity uktvā tān upādāya saktūn prādād dvijātaye tatas tuṣṭo 'bhavad vipras tasya sādhor mahātmanaḥ prītātmā sa tu taṃ vākyam idam āha dvijarṣabham vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ śuddhena tava dānena nyāyopāttena yatnataḥ yathāśakti vimuktena prīto 'smi dvijasattama aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi surarṣidevagandharvā ye ca devapuraḥsarāḥ stuvanto devadūtāś ca sthitā dānena vismitāḥ brahmarṣayo vimānasthā brahmalokagatāś ca ye kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha pitṛlokagatāḥ sarve tāritāḥ pitaras tvayā anāgatāś ca bahavaḥ subahūni yugāni ca brahmacaryeṇa yajñena dānena tapasā tathā agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija śraddhayā parayā yas tvaṃ tapaś carasi suvrata tasmād devās tavānena prītā dvija varottama sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā kṣudhā nirṇudati prajñāṃ dharmyaṃ buddhiṃ vyapohati kṣudhā parigata jñāno dhṛtiṃ tyajati caiva ha bubhukṣāṃ jayate yas tu sasvargaṃ jayate dhruvam yadā dānarucir bhavati tadā dharmo na sīdati anavekṣya sutasnehaṃ kalatrasneham eva ca dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param kālaḥ parataro dānāc chraddhā cāpi tataḥ parā svargadvāraṃ susūkṣmaṃ hi narair mohān na dṛśyate svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ brāhmaṇās tapasā yuktā yathāśakti pradāyinaḥ sahasraśaktiś ca śataṃ śataśaktir daśāpi ca dadyād apaś ca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ ranti devā hi nṛpatir apaḥ prādād akiṃcanaḥ śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ nyāyalabdhair yathā sūkṣmaiḥ śraddhā pūtaiḥ sa tuṣyati gopradāna sahasrāṇi dvijebhyo 'dān nṛgo nṛpaḥ ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān ātmamāṃsa pradānena śibir auśīnaro nṛpaḥ prāpya puṇyakṛtāṁl lokān modate divi suvrataḥ vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svar jitaṃ satām na yajñair vividhair vipra yathānyāyena saṃcitaiḥ krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati nyāyavṛttir hi tapasā dānavit svargam aśnute na rājasūryair bahubhir iṣṭvā vipuladakṣiṇaiḥ na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tavam saktu prasthena hi jito brahmalokas tvayānagha virajo brahmabhavanaṃ gaccha vipra yathecchakam sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam ārohata yathākāmaṃ dharmo 'smi dvija paśya mām pāvito hi tvayā deho loke kīrtiḥ sthirā ca te sabhāryaḥ saha putraś ca sa snuṣaś ca divaṃ vraja ity uktavākyo dharmeṇa yānam āruhya sa dvijaḥ sabhāryaḥ sa sutaś cāpi sa snuṣaś ca divaṃ yayau tasmin vipre gate svargaṃ sa sute sa snuṣe tadā bhāryā caturthe dharmajñe tato 'haṃ niḥsṛto bilāt tatas tu saktu gandhena kledena salilasya ca divyapuṣpāvamardāc ca sādhor dānalabaiś ca taiḥ viprasya tapasā tasya śirome kāñcanī kṛtam tasya satyābhisaṃdhasya sūkṣmadānena caiva ha śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ tapovanāni yajñāṃś ca hṛṣṭo 'bhyemi punaḥ punaḥ yajñaṃ tv aham imaṃ śrutvā kururājasya dhīmataḥ āśayā parayā prāpto na cāhaṃ kāñcanī kṛtaḥ tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ saktu prasthena yajño 'yaṃ saṃmito neti sarvathā saktu prasthalavais tair hi tadāhaṃ kāñcanī kṛtaḥ na hi yajño mahān eṣa sadṛśas tair mato mama [v] ity uktvā nakulaḥ sarvān yajñe dvija varāṃs tadā jagāmādarśanaṃ rājan viprās te ca yayur gṛhān etat te sarvam ākhyātaṃ mayā parapuraṃjaya yad āścaryam abhūt tasmin vājimedhe mahākratau na vismayas te nṛpate yajñe kāryaḥ kathaṃ cana ṛṣikoṭo sahasrāṇi tapobhir ye divaṃ gatāḥ adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam tapo damaś ca satyaṃ ca dānaṃ ceti samaṃ matam |